32163: इण्नश्जिसर्त्तिभ्यः क्वरप्¶
Padacheda: इण्-नश्-जि-सर्त्तिभ्यः | S | 5 | 3 |
क्वरप् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix क्वरप् comes in the sense of ‘agent having such a habit etc.’ after the verbs 1. इ ‘to go’ 2. नश् ‘to destroy’ 3. जि ‘to conquer’ 4. सृ ‘to flow’.
Vasu English Translation¶
The affix क्वरप् comes in the sense of ‘agent having such a habit etc.’ after the verbs 1. इ ‘to go’ 2. नश् ‘to destroy’ 3. जि ‘to conquer’ 4. सृ ‘to flow’. The प् is indicatory in order to introduce the augment तुक् between the verb and the affix (6.1.71). Thus इ + क्वरप् = इ + त् + वर = इत्वरः, fem. इत्वरी ‘a traveller’; नश्वरः, fem. नश्वरी ‘transitory’; जित्वरः, fem. जित्वरी ‘victorious’; सृत्वरः fem. सृत्वरी ‘going, a river’.
Though the affix begins with a letter of वल् pratyahara, and ought to have taken the intermediate इट् (7.2.35) yet it is prohibited by (7.2.8).
Kashika¶
इण् नश् जि सर्ति इत्येतेभ्यो धातुभ्यस्तच्छीलादिषु कर्तृषु क्वरप् प्रत्ययो भवति। पकारस्तुगर्थः। इत्वरः। इत्वरी। नश्वरः। नश्वरी। जित्वरः। जित्वरी। सृत्वरः। सृत्वरी। नेड् वशि कृति (७.२.८) इतीट्प्रतिषेधः॥
Siddhanta Kaumudi¶
इत्वरः । इत्वरी । नश्वरः । जित्वरः । सृत्वरः ॥
Balamanorama¶
इण्नश्जिसर्त्तिभ्यः क्वरप् - इण्नशिजि । इण्, नशि, जि, सृ एभ्य क्वरप् स्यात्तच्छीलादिष्वित्यर्थः । कित्त्वान्न गुणः । पित्त्वं तु तुगर्थम् ।
Tattvabodhini¶
इण्नश्जिसर्त्तिभ्यः क्वरप् - इत्वरः । इत्वरीति । इण् गतौह्रस्वस्य पिती॑ति तुक् । कित्त्वाद्गुणाऽभावः ।टिड्ढे॑त्यादिना स्त्रियां ङीप् ।
Padamanjari¶
इण्नश्जिसर्तिभ्यः क्वरप्॥ क्वरपः पकारः स्वरार्थः, तुगर्थश्च। इत्वरीति।’टिड्ढाणञ्’ इत्यादिना ङीप्॥
Nyaas¶
इत्वरः इति। ह्रस्वस्य पिति कृति तुक् (6.1.71) । इत्वरी इति। टिड्ढाणञ् (4.1.15) इत्यादिना ङीप्॥
Prakriyasarvasvam¶
पित्त्वात् तुक् । उदित्वरः । नश्वरः । जित्वरः । सृत्वरः ॥
Sutra Prayogas¶
विसृत्वरैः (शिशुपालवधम्): इण्नशजिसर्तिभ्यः क्वरप् इति क्वरप्।
जित्वरेण (भट्टिकाव्यम्): इण् नश - जि - इत्यादिना क्वरप्।
जित्वराणि (भट्टिकाव्यम्): इण्नशूजि इत्यादिना करप्।
जित्वरः (भट्टिकाव्यम्): इणू-नश्- जि इति करप्।