32170: क्याच्छन्दसि

Padacheda: क्यात् | S | 5 | 1 |

छन्दसि | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affix उ comes in the छन्दस् (Vedas) after the roots that have taken the Denominative affix क्य in the sense of ‘agent having such a habit etc.’.

Vasu English Translation

The affix उ comes in the छन्दस् (Vedas) after the roots that have taken the Denominative affix क्य in the sense of ‘agent having such a habit etc.’. The affix उ comes in the Chhandas, after the roots that have taken the Denominative affix क्य in the sense of ‘the agent having such a habit &c’.

The term क्य includes the three affixes क्यच्, क्यङ् and क्यप् (see sutras (3.1.8), (II.13), &c). As मित्रयुः, संस्वेदयुः, सुम्नयुः (Rig. Ved. I.3.4).

In the modern Sanskrit तृन् will be employed. As मित्रीयिता. By sutra (7.4.33), the long ई replaces the final अ, when क्यच् follows; as पुत्र + क्यच् = पुत्री + य = पुत्रीय. Why then in the case of मित्रयुः there is not the substitution of long ई for the अ of मित्र ? Because the rule (7.4.33) is set aside by (7.4.35) which declares that in the Chhandas the long ई is not substituted for the अ ।

Kashika

क्य इति क्यच्क्यङ्क्यषां सामान्येन निर्देशः। क्यप्रत्ययान्ताद् धातोश्छन्दसि विषये तच्छीलादिषु कर्तृषु उकारप्रत्ययो भवति। मित्र॒युः॑ (मै०सं० २.६.१२)। न च्छन्दस्यपुत्रस्य (७.४.३५) इति प्रतिषेधाद् न दीर्घः। स॑ स्वे॒द॒युः॑ (मै०सं० ४.१२.२.४४)। सुम्न॒युः (ऋ० १.७९.१०)। छन्दसीति किम्? मित्रीयिता॥

Siddhanta Kaumudi

देवाञ्जिगाति सुम्नयुः ॥

Balamanorama

क्याच्छन्दसि - क्याच्छन्दसि । क्यप्रत्ययान्तादुप्रत्ययः स्यात्तच्छीलादिषु छन्दसीत्यर्थः । सुम्नयुरिति । सुम्नं - सुखम् ।तदात्मन इच्छतीत्यर्थे सुम्नशब्दात् क्यच् ।न च्छन्दस्यपुत्रस्ये॑ति निषेधात्क्यचि चे॑ति ईत्त्वम्,अकृत्सार्वे॑ति दीर्गश्च न ।सुम्नये॑ति क्यजन्तादुप्रत्ययः । अतो लोपः ।

Tattvabodhini

क्याच्छन्दसि - क्याच्छन्दसि ।क्य॑ इति क्यच्क्यष्क्यङां सामान्यग्रहमम् । क्यन्ताद्धातोश्छन्दसि विषये ताच्छीलादिषु उप्रत्ययो भवतीति काशिका । किद्यः क्य इति व्याख्यानात्कण्ड्वादियगपि गृह्रते । तेनतुरण्यवोऽङ्गिरसो नक्षन्त॑,सपर्येम सपर्यवः॑,यमस्य योनौ शकुनं भुरण्यु॑मित्यादि सिद्धम् । तुरण त्वरायां , सपर पूजयां, भुरण धारणपोषणयोरित्येते कण्ड्वादिषु पठिताः । अथ कथंसन्तः प्रणयिवाक्यानि गृह्णन्ति ह्रनसूयवः॑ इति भट्टपादाः । मृगय्वादिषु असूयशब्दो द्रष्टव्य इति हरदत्तः । सुम्नयुरिति । सुम्नशब्दात्क्यचि तदन्तादुः ।न छन्दस्यपुत्रस्ये॑ति निषेधात्क्यचि चे॑ति ईत्वम्,अकृत्सार्वे॑ति दीर्घश्च न भवति ।

Padamanjari

क्याच्छन्दसिः॥ क्य इति क्यच्क्यष्कयङं सामान्येन निर्देश इति। सूत्रे वृतौ च ककारानुबन्धवतो धातुसंज्ञानिमितस्य प्रत्ययस्योपलक्षणात् कण्ड्वादियकोऽपि ग्रहणम्, तेन भुरण्युः तुरण्यवोऽङ्गिरसो नक्षत्रसपर्येम सपर्यव इत्यादि भवति। भाषायां च सुम्नयुशब्द उणादिषु मृगय्वादिषु पाठाद् द्रष्टव्यः। मित्रयुरिति।’क्यचि च’ इतीत्वम्, ठकृत्सार्वधातुकयोःऽ इति दीर्घत्वं च न भवति,’न च्छन्दस्यपुत्रस्य’ इति निषेधात्॥

Nyaas

मित्रयुः इति। मित्रमिच्छतीति सुप आत्मनः क्यच् (3.1.8) इति क्यच्। अकृत्सार्वधातुकयोः (7.4.25) इति दीर्घत्वं प्राप्नोति, क्यचि च (7.4.33) इतीत्त्वञ्च, एतदुभयमपि न च्छन्दस्यपुत्रस्य (7.4.35) इति प्रतिषेधान्न भवति। संस्वेदयुः`इति। लोहितादित्वात् (3.1.13) क्यष्। `सुम्नयुः इति। देवसुम्नयोः (7.4.38) इति प्रतिषेधः। सुम्न इवाचरतीति कर्त्तुः क्यङ सलोपश्च (3.1.11) इति क्यङ॥

Prakriyasarvasvam

क्यच् क्यप् क्यङन्तात् । तच्छीलादावुः स्यात् । क्यच्-वसूयवो वसुपते । याच्छन्दसीति वाच्यमिति कण्ड्वादि यगन्तादपीति हरः । शकुनं भुरण्युम् । तुरण्यवोऽङ्गिरसो नक्षन्त²ः । सपर्यम सपर्यवः ।