Sutras 141 - 160¶
- 32141: शमित्यष्टाभ्यो घिनुण्
- 32142: संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च
- 32143: वौ कषलसकत्थस्रम्भः
- 32144: अपे च लषः
- 32145: प्रे लपसृद्रुमथवदवसः
- 32146: निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूञो वुञ्
- 32147: देविक्रुशोश्चोपसर्गे
- 32148: चलनशब्दार्थादकर्मकाद्युच्
- 32149: अनुदात्तेतश्च हलादेः
- 32150: जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः
- 32151: क्रुधमण्डार्थेभ्यश्च
- 32152: न यः
- 32153: सूददीपदीक्षश्च
- 32154: लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ्
- 32155: जल्पभिक्षकुट्टलुण्टवृङः षाकन्
- 32156: प्रजोरिनिः
- 32157: जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च
- 32158: स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्
- 32159: दाधेट्सिशदसदो रुः
- 32160: सृघस्यदः क्मरच्