32140: त्रसिगृधिधृषिक्षिपेः क्नुः¶
Padacheda: त्रसि-गृधि-धृषि-क्षिपेः | S | 5 | 1 |
क्नुः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix क्नु comes after the verbs - 1. त्रस् ‘to tremble’ 2. गृध् ‘to be greedy’ 3. धृष् ‘to be bold’ 4. क्षिप् ‘to throw’ in the sense of ‘agent having such a habit etc.’.
Vasu English Translation¶
The affix क्नु comes after the verbs - 1. त्रस् ‘to tremble’ 2. गृध् ‘to be greedy’ 3. धृष् ‘to be bold’ 4. क्षिप् ‘to throw’ in the sense of ‘agent having such a habit etc.’. As, त्रस्नुः ‘trembling’; गृध्नुः ‘greedy’; धृष्णुः ‘bold’; and क्षिण्नुः ‘throwing’.
Kashika¶
त्रसादिभ्यो धातुभ्यस्तच्छीलादिषु क्नुः प्रत्ययो भवति। त्रस्नुः। गृध्नुः। धृष्णुः। क्षिप्णुः॥
Siddhanta Kaumudi¶
त्रस्नुः । गृध्नुः । धृष्णुः । क्षिप्नुः ॥
Balamanorama¶
त्रसिगृधिधृषिक्षिपेः क्नुः - त्रसिगृधि ।तच्छीलादिषु कर्तृष्वि॑ति शेषः । त्रस्नुरिति ।नेड्वशी॑ति नेट् । गृध्नुः धृष्णुरित्यत्र कित्त्वान्न गुणः ।
Tattvabodhini¶
त्रसिगृधिधृषिक्षिपेः क्नुः - त्रस्नुरिति ।नेड्वशि॑ इति नेट् ।
Padamanjari¶
त्रसिगृधिधृषिक्षिपेः क्नुः॥ त्रस्नुरिति।’नेड्वशि कृति’ इतीट्प्रतिषेधः॥
Nyaas¶
त्रस {धारणे - धातुपाठः-} उद्वेगे (धातुपाठः-1741), गृधु अभिकांक्षायाम् (धातुपाठः-1246) , ञिघृषा प्रगल्भ्ये (धातुपाठः-1269), क्षिप प्रेरणे (धातुपाठः-1285)। त्रस्नुः इति। नेड्वशिकृति (7.2.8) इतीट्? प्रतिषेधथः। `गृघ्नुः `इति। क्ङिति च (1.1.5) इति गुणाभावः॥
Prakriyasarvasvam¶
कित्त्वादगुणः । ‘नेड्वशि—’ (७-२-८) इत्यनिट्त्वम् । त्रस्नुः गृध्नुः धृष्णुः क्षिप्नुः । ‘म्लाक्षिपचिपृमृजिभ्यः स्नुरि’ति भोजः । म्लास्नुः । अकित्त्वाद् गुणः, षत्वं, क्षेष्णुः । कुत्वं, पक्ष्णुः । मृजेर्वृद्धिः, व्रश्चादिषत्वं षढोः कः सि । परिमाक्ष्णुः ।।
Sutra Prayogas¶
अगृध्नुः (रघुवंशम्): त्रसिगृधिधृषिक्षिपेः क्नुः इति क्नुप्रत्ययः।
क्षिप्नुः (शिशुपालवधम्): त्रसिगृधिधृषिक्षिपेः क्नुः इति क्नुप्रत्ययः।
घृष्णुः (भट्टिकाव्यम्): त्रसि- गृधि इत्यादिना क्रुः ।
त्रस्नु (भट्टिकाव्यम्): त्रसि- गृधि इत्यादिना क्रुः।
क्षिप्नुम (भट्टिकाव्यम्): त्रसि - गृधि इत्यादिना क्क्रुः।
धृष्णु (भट्टिकाव्यम्): त्रसिगृधिधृषिक्षिपेः क्नुः इति क्नुः।