32147: देविक्रुशोश्चोपसर्गे

Padacheda: देवि-क्रुशोः | S | 6 | 2 |

च | S | 0 | 0 |

उपसर्गे | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affix वुञ् comes after the verbs देवि ‘to lament’ and क्रुश ‘to cry’ when an उपसर्ग is in composition with them.

Vasu English Translation

The affix वुञ् comes after the verbs देवि ‘to lament’ and क्रुश ‘to cry’ when an उपसर्ग is in composition with them. As आदेवकः ‘one who sports or laments’; आक्रोशकः ‘vociferous, a reviler’; परिदेवकः ‘one who laments’; परिक्रोशकः ‘a reviler’.

Why do we say ‘when in composition with an upasarga’? Observe देवयिता and क्रोष्ठा formed by तृन् (3.2.135).

Kashika

देवयतेः क्रुशेश्चोपसर्ग उपपदे वुञ् प्रत्ययो भवति। आदेवकः। परिदेवकः। आक्रोशकः। परिक्रोशकः। उपसर्ग इति किम्? देवयिता। क्रोष्टा॥

Siddhanta Kaumudi

आदेवकः । आक्रोशकः । उपसर्गे किम् । देवयिता । क्रोष्टा ॥

Balamanorama

देविक्रुशोश्चोपसर्गे - देवीक्रुशोः । देवीति चुरादिण्यन्तस्य,दिवु क्रीडा॑इत्यस्य च ग्रहणम् । उपसर्गे उपपदे देवयतेः क्रुशेश्च तच्छीलादिषु वुञ् स्यादित्यर्थः ।

Tattvabodhini

देविक्रुशोश्चोपसर्गे - देविक्रुशोः । दीव्यतेर्हेतुमण्ण्यन्तस्य, दिवु कूजने इति चुरादिण्यन्तस्य च ग्रहणम् ।

Padamanjari

देविक्रुशोश्चोपसर्गे॥ देवयतेरिति। दीव्यतेर्हेतुमण्णिजन्तस्य,’दिवि कूजने’ इत्यस्य चुरादिण्यन्तस्य च॥

Prakriyasarvasvam

प्रदेवयितुं शीलमस्येति प्रवेशकः आक्रोशकः ॥