32152: न यः¶
Padacheda: न | S | 0 | 0 |
यः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix युच् is not used after the verbs which end in the letter य।
Vasu English Translation¶
The affix युच् is not used after the verbs which end in the letter य। This debars (3.2.149). As क्नूयिता ‘making creaking sound’; क्षमायिता ‘trembling’. In these cases the affix तृन् is employed (3.2.135).
Kashika¶
यकारान्ताद् धातोर्युच् प्रत्ययो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते। क्नूयिता। क्ष्मायिता॥
Siddhanta Kaumudi¶
यकारान्ताद्युच् न स्यात् । क्नूयिता । क्ष्मायिता ॥
Balamanorama¶
न यः - न यः । ‘य’ इति पञ्चम्यनतं धातुविशेषणं । तदन्तविधिः । तदाह — यकारान्तादिति । क्नूयिता । क्ष्मायितेति ।क्नुयी शब्दे उन्दन चटक्ष्मायी विधूनने॑ । अनुदात्तेतश्च हलादे॑रिति युच् निषिध्यते । तृनेव भवति ।
Tattvabodhini¶
न यः - न यः । अय वय पय भय चय तय णय गताविति पठितस्य नयतेर्नाऽयं निर्देशः, अनुदात्तेत्त्वादेव युचः सिद्धत्वात्, किंतु नेति पृथक् पदमिति मत्वाऽऽह — यकारान्तादिति । क्नूयिता क्ष्मायितेति । क्नूयी शब्दे उन्दे च, क्ष्मायी विधूनने ।
Padamanjari¶
नयः॥ ठय वय नय तय गतौऽ इति नयतेरनुदातेत्वादेव युचः सिद्धत्वान्नतस्येदं ग्रहणम्, किं तर्हि? प्रतिषेध एवेति मत्वाऽऽ - यकारान्तादिति। पूर्वेणेति। ठनुदातेतश्चऽ इत्यादिना। क्नूयिता, क्ष्मायितेति।’क्नूयी शब्दे’ ‘क्ष्मायी विधूनने’ ॥
Nyaas¶
पूर्वेण इति। अनुदात्तेतश्च हलादेः (3.2.149) इत्यादिना सिद्धत्वात्। अथ अय वय रय णय गतौ`(धातुपाठः-474,475,482,480) इत्यस्माद्धातोर्युचो विधानार्थञ्चैतत्कस्मान्न विज्ञायते? अशक्यमेवं विज्ञातुम्;यस्मान्नयतेः `अनुदात्तेतश्च (3.2.149) इत्यादिनैव सिद्धत्वात्। तस्मात् प्रतिषेधार्थमिदम्। क्नयिता, क्ष्मायिता इति। क्नूयी शब्द {उन्दने च-धातुपाठः-} उन्दे च (धातुपाठः-485), क्ष्मायी विधूनने (धातुपाठः-486)॥
Prakriyasarvasvam¶
यान्ताद्धातोरनुदात्तेत्त्वात् प्राप्तो युज् न । आप्यायिता । स्फायिता ॥
Sutra Prayogas¶
आप्यायितारं (भट्टिकाव्यम्): न यः इति प्रतिषिद्धे तृन्नेव भवति।