32157: जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च

Padacheda: जि-दृ-क्षि-वि-श्रि-इण्-वम-अव्यथ-अभ्यम-परिभू-प्रसूभ्यश्च | S | 5 | 3 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The affix इनि comes in the sense of ‘agent having such habit etc.’ after the verbs 1. जि ‘to conquer’ 2. दृ ‘to respect’ 3. क्षि ‘to waste, to dwell, to go’ 4. विश्रि ‘to shelter’ 5. इ ‘to go’ 6. वम् ‘to vomit’ 7. अव्यथ ‘not to give pain’ 8. अभ्यम ‘to injure’ 9. परिभू ‘to humiliate’ 10. प्रसू ‘to beget’.

Vasu English Translation

The affix इनि comes in the sense of ‘agent having such habit etc.’ after the verbs 1. जि ‘to conquer’ 2. दृ ‘to respect’ 3. क्षि ‘to waste, to dwell, to go’ 4. विश्रि ‘to shelter’ 5. इ ‘to go’ 6. वम् ‘to vomit’ 7. अव्यथ ‘not to give pain’ 8. अभ्यम ‘to injure’ 9. परिभू ‘to humiliate’ 10. प्रसू ‘to beget’. As : जयिन् Ist. sing. जयी ‘conquering’; similarly, दरी ‘respecting’; क्षयी ‘wasting’; विश्रयी ‘wasting’; अत्ययी ‘exceeding’; वमी ‘vomiting’; अव्यथी ‘free from pain’; अभ्यमी ‘not injuring’; परिभवी ‘humiliating’ and प्रसवी ‘procreating’.

Kashika

जि जये। दृङादरे। क्षि क्षये, क्षि निवासगत्योः इति द्वयोरपि ग्रहणम्। प्रसू इति षू प्रेरणे इत्यस्य् ग्रहणम्। जिप्रभृतिभ्यो धातुभ्यः इनिः प्रत्ययो भवति तच्छीलादिषु कर्तृषु। जयी। दरी। क्षयी। विश्रयी। अत्ययी। वमी। अव्यथी। अभ्यमी। परिभवी। प्रसवी।

Siddhanta Kaumudi

जयी । दरी । क्षयी । विश्रयी । अत्ययी । वमी । अव्यथी । अभ्यमी । परिभवी । प्रसवी ॥

Balamanorama

जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च - जिदृक्षि । जि, दृ, क्षि, विश्रि, इण्, वम, अव्यथ, अभ्यम, परिभू, प्रसू, एषां दशानं द्वन्द्वः । जि जये, जि अभिभवे, दृङ् आदरे, क्षि क्षये, क्षि निवासगत्योः, श्रिञ् सेवायां विपूर्वः । इण् गतौ । वमु उद्गिरणे । व्यथ भयसंचलनयोः — नञ्पूर्वः । निपातनान्नञो धातुना समासे ‘न लोपो नञः’ इति नकारलोपः । अमु गत्यादिषु- अभिपूर्वः । भू सत्तायाम् — परिपूर्वः । षू प्रेरणे प्रपूर्वः । एभ्य इनिः स्यात्तच्छीलादिष्वित्यर्थः । सूतिसूयत्योस्तु सानुबन्धकत्वान्नेह ग्रहणम् ।

Tattvabodhini

जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च - जिदृक्षि । जि जये, जि अभिभवे, दृङ् आदरे, क्षि क्षये,क्षि निवासगत्यो, श्रिञ् सेवायां विपूर्वः, व्यथ भयसंचलनयोर्नञ्पूर्वः । निपातनान्नञो धातुना समासे नलोपे ततः प्रत्ययः । अम गत्यादिषु अभिपूर्वः । प्रसवीति । षू प्रेरणे । अस्मादिनिः । षूङ् प्राणिगर्भविमोचने, षूङ् प्राणिप्रसवे, इमौ न गृह्रेते, सानुबन्धत्वात् ।जिदृक्षी॑त्यत्रैव प्रजुं पठित्वा पूर्वसूत्रं त्यक्तुमुचितम् । एवं हि पृथग्विभक्तिश्चकारश्च मास्त्विति सुवचम् ।

Padamanjari

जिद्दक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च॥’जी जये’ जि अभिभवेऽ - द्वयोरपि ग्रहणम्,’द्दङ् आदरे’ ,’श्रिञ् सेवायाम्’ ‘,ठिण् गतौ’टुअवमुद्वमने’ ‘व्यथ भयचलनयोः’ नञ्पूर्वः, नञः कृतलोपस्य निर्द्देशः, निपातनाच्च नञो धातुना समासः, ततो वलोपः, ततः प्रत्ययः। ठम रोगेऽ’भू सतायाम्’ । द्वयोरपि ग्रहणमिति।’क्षिष् हिंसायाम्’ इत्यस्य तु सानुबन्धकत्वादग्रहणम्। षू प्रेरण इत्यस्य ग्रहणमिति।’षूङ् प्राणिगर्भविमोचने’ ‘षूङ् प्राणिप्रसवे’ इत्येतयोस्तु सानुबन्धकत्वादग्रहणम्। प्रजोरप्यत्रैव ग्रहणं कर्तव्यम्, एवं हि चकारो न वक्तव्यो भवति? तथा तु न कृमित्येव॥

Nyaas

जि जये (धातुपाठः-561), दृङ आदरे (धातुपाठः-1411), श्रिञ् सेवायाम्`(धातुपाठः-897) विपूर्वः, `इण् गतौ (धातुपाठः-1045), टुवम उद्गिरणे (धातुपाठः-849), व्यथ {भयसञ्चलनयोः-धातुपाठः-} भयचलनयोःर (धातुपाठः-764) नञ्पूर्वः, अम रोगे`(धातुपाठः-1720) अभिपूर्वः। `षू प्रेरणे (धातुपाठः-1408) प्रपूर्व इत्यस्य ग्रहणम्, न षूङ प्राणिगर्भविमोचने`(धातुपाठः-1031) `षूओङ प्राणिप्रसवे`(धातुपाठः-1132) इत्येतयोः। निरनुबन्धकपरिभाषयेति (व्या।प।53) भावः। इण्जिभ्यामित्यत्र `इण्नश्जिसर्त्तिभ्यः क्वरप् (3.2.163) इति वचनात् क्परप् भवति॥

Prakriyasarvasvam

इनिः स्यात् । जयी । आदरी । क्षयी । विश्रयी । इण्, अन्वयी । वमी । अव्यथी । अभ्यम्यभिगन्ता द्रोग्धा वा । परिभवी । ‘षू प्रेरणे’, प्रसवी ।।

Sutra Prayogas

  • मन्दुरासंश्रयिभिः (रघुवंशम्): जिदृक्षि- इत्यादिना इनिप्रत्ययः।

  • क्षयी (रघुवंशम्): जिदृक्षिविश्रीण्वमाव्ययथाभ्यमपरिहौ इति इनिप्रत्ययः।

  • विजयि (किरातार्जुनीयम्): जिदृक्षिविश्रिहन्व्यापदीपसि… इत्यादिनेनिप्रत्ययः।

  • भुवनपरिभवी (किरातार्जुनीयम्): जिदृक्षि- इत्यादिनेनिप्रत्ययः।

  • जयिनीं (किरातार्जुनीयम्): जिदृक्षिविश्रिहन्मिग्रहदीपिछदिभ्यः इनिः इति इनिप्रत्ययः।

  • जयिनं (किरातार्जुनीयम्): जिदृक्षिविश्रि- इत्यादिना इनिप्रत्ययः।

  • परपरिभवि (शिशुपालवधम्): जिदृक्षिविश्रिह्व्यवमिव्याधिभ्य इनिः इति इनिप्रत्ययः।

  • जयिना (भट्टिकाव्यम्): जिद्द-क्षि इत्यादिना इनिः।

  • विश्रयिणं (भट्टिकाव्यम्): जि- दृक्षि इति इनिः।