32141: शमित्यष्टाभ्यो घिनुण्¶
Padacheda: शमिति-अष्टाभ्यः | S | 5 | 3 |
घिनुण् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix घिनुण् comes after the 8 verbs beginning with शम् ‘to be calm’ in the sense of ‘the agent having such a habit etc.’.
Vasu English Translation¶
The affix घिनुण् comes after the 8 verbs beginning with शम् ‘to be calm’ in the sense of ‘the agent having such a habit etc.’. The word इति in the aphorism indicates beginning. These eight verbs begin with शम् and end with मद in the list of verbs. Of the affix घिनुण् the real affix is इन्, the other letters are servile; the घ is for the sake of substituting guttural for the final palatals; उ is for the sake of euphony, or for the sake of rule (6.3.45); and the letter ण् causes vriddhi (7.2.116): which in the case of roots ending in म is prohibited by the rule (7.3.34), the only verb taking ‘vriddhi’ being मद् ।
As शमिन् Ist. sing. शमी ‘calm’; likewise तमी ‘desiring’; दमी ‘taming’; श्रमी ‘laborious’; भ्रमी ‘whirling’, ‘moving round’; क्लमी ‘fatiguing’; क्षमी ‘forbearing’; प्रमादी ‘mad’ and उन्मादी ‘mad’. Though by rule 136, the verb उन्मद takes the affix इष्णुच्, it also takes the affix घिनुण् by the rule of वाऽमरूप (3.1.94).
All these verbs belong to the Divadi class. After other verbs than these eight, we have other affixes; as असिता.
Bhashya¶
शमित्यष्टाभ्यो घिनुण् (908) (525 घिनुण्प्रत्ययविधिसूत्रम्॥ 3 । 2 । 3 आ.6) (आक्षेपभाष्यमा) घिनणयं वक्तव्यः। घिनुणि हि सति शमिनौ शमिनः तमिनौ तमिन इति उगिदचां सर्वनामस्थान इति नुम्प्रसज्येत। (घिनुण्वादिभाष्यम्) नैष दोषः। झल्ग्रहणं तत्र चोदयिष्यति। (घिनण्वाद्याक्षेपभाष्यम्) इह तर्हि शमिनितरा शमिनीतरा तमिनितरा तमिनीतरा। उगितो घादिषु नद्या अन्यतरस्यां ह्रस्वो भवती इत्न्यतरस्यां हस्वत्वं प्रसज्येत। तस्माद् घिनणंय वक्तव्यः। (घिनुण्वादिभाष्यम्) इष्यत एव हस्वत्वम्॥ (3066 वार्तकम्॥ 1॥) - घिनुणकर्मकाणाम्- (भाष्यम्) घिनुणकर्मकाणामिति वक्तव्यम्। इह मा भूत् - संपृणक्ति शाकमिति॥ (3067 वार्तिकप्रत्याख्यानम्॥ 2 ॥) - उक्तं वा - (भाष्यम्) किमुक्तम्?। अनभिधानादिति॥ शमित्यष्टा॥ 141 ॥
Kashika¶
इतिशब्द आद्यर्थः। शमादिभ्यो धातुभ्योऽष्टाभ्यस्तच्छीलादिषु कर्तृषु घिनुण् प्रत्ययो भवति। शमु उपशमे इत्यतः प्रभृति मदी हर्षे इत्येवमन्तः शमादिर्दिवाद्यन्तर्गणः। घकार उत्तरत्र कुत्वार्थः। उकार उच्चारणार्थः। णकारो वृद्ध्यर्थः। शमी। तमी। दमी। श्रमी। भ्रमी। क्षमी। क्लमी। प्रमादी। उन्मादी। अष्टाभ्य इति किम्? असिता॥
Siddhanta Kaumudi¶
उकार उच्चारणार्थ इति काशिका । अनुबन्ध इति भाष्यम् । तेन शमिनितरा शमिनीतरेत्यत्र गितश्च (SK987) इति ह्रस्वविकल्पः । न चैवं शमिनावित्यादौ नुम्प्रसङ्गः । झल्ग्रहणमपकृष्य झन्तानामेव तद्विधानात् । नोदात्तोपदेशस्य - (SK2763) इति वृद्धिनिषेधः । शमी । तमी । दमी । श्रमी । भ्रमी । क्षमी । क्लमी । प्रमादी । उत्पूर्वान्मदेः अलंकृञादिसूत्रेणेष्णुजुक्तो वासरूपविधिना घिनुणपि । उन्मादी । ताच्छीलिकेषु वासरूपविधिर्नास्तीति तु प्रायिकम् ॥
Balamanorama¶
शमित्यष्टाभ्यो घिनुण् - शमित्यष्टाभ्यः । इति शब्द आदिपर्यायः । शमादयो दिवादौ स्थिताः । तेभ्योऽष्टाभ्यो घिनुण् स्यात्तच्छीलादिष्वित्यर्थः । घित्त्वमुत्तरसूत्रार्थम् ।अकर्मकेभ्य एव घिनु॑णिति भाष्यम् । शमिनितरा शमिनीतरेति । शमिन्शब्दात्स्त्रियां नान्तलक्षणङीबन्तात्तरबन्ताट्टाप् । ह्रस्वविकल्प इति । भाष्यमते उगित्त्वाद्ध्रस्वः । काशिकामते तु उगित्त्वाऽभावन्न ह्रस्वः । न च ह्रस्वाऽभावे ‘तसिलादिषु’ इति पुंवत्त्वं शङ्क्यं,संज्ञापूरण्योश्चे॑ति निषेधात् । ननु भाष्यरीत्या उगित्त्वाभ्युपगमे शमी शमिनौ इत्यादौउगिदचा॑मिति नुम् स्यादित्याशङ्क्य निराकरोति — न चैवमपि । झल्ग्रहणमपकृष्येति । ‘नपुंसकस्य झलचः’ इति उत्तरसूत्रादिति भावः । एतच्च प्रकृतसूत्रे, ‘युवोरनाकौ’ इति सूत्रे च भाष्ये स्पष्टम् । शमादिभ्यो घिनुणि उपधावृद्धिमाशङ्क्याह — नोदात्तेति । प्रमादीति । प्रमादीति । मान्तत्वाऽभावान्न वृद्धिनिषेधः । ननु उत्पूर्वान्मदेरुन्मादीति कथं घिनुण्, अलङ्कृञादिसूत्रे उत्पूर्वान्मदेर्विशिष्य इष्णुचो विधानादित्यताअह — उत्पूर्वादित्यादिना । ननु कथमत्र ताच्छीलिके घिनुणि वाऽसरूपविधिप्रवृत्तिः,ताच्छीलिकेषु वाऽसरूपविधिर्नास्ती॑ति निषेधादित्यत आह — ताच्छीलिकेष्विति । इयं परिभाषानन्दहिंसे॑त्यादिवक्ष्यमाणसूत्रे ज्ञापितेति भाष्ये स्पष्टम् । प्रायिकमिति । एतच्चसूददीपदीक्षश्चे॑ति दीपग्रहणादितिजुचङ्क्रम्यदन्द्रम्ये॑ति सूत्रे भाष्ये स्पष्टम् ।
Tattvabodhini¶
शमित्यष्टाभ्यो घिनुण् - शमित्यष्टाभ्यो । इतिशब्द आद्यर्थः । शमिनीतरेत्यत्रेति । अत्र नव्याः — विद्वत्तरेतिवत्तसिलादिष्विति पुंवद्भावेन शमितरेति भाव्यम् । न च उगित्त्वाभ्युपगमस्य फलाऽभावाद्ध्रस्विकल्प एव भवतीति वाच्यं, पाक्षिकह्रस्वेन उगित्करणस्य चरितार्थत्वात् । ह्रस्वाऽभावपक्षे तु पुंवद्भावस्य दुर्वारत्वादित्याहुः ।
Padamanjari¶
शमित्यष्टाभ्यो घिनुण्॥ इतिशब्द आद्यर्थे इति। अनेकार्थत्वान्निपातानाम्। तत्र’शम्’ इति आदिर्येषामिति बहुव्रीहौ सुपो लुक्,’शमु उपशमने’ ‘तमु काङ्क्षायाम्’ ‘दमु उपसमने’ ‘श्रमु तपसि खेदे च’ ‘भ्रमु अनवस्थाने’ ‘क्षमूष् सहने’ ‘क्लमु ग्लानौ’ ‘मदी हर्षे’ । उकार उच्चारणार्थ इति। नानुबन्धः, अनुबन्धे हि सति शमिनौ शमिन इत्यत्र ठुगिदचाम्ऽ इति नुम् प्रसज्येत;शमिनितरा, शमिनितमेत्यत्र नद्याः शेषस्यान्यतरस्याम् ठुगितश्चऽ इत्यन्यतरस्यां ह्रस्वः स्यात्;’घरूपकल्पचेलड्’ इति नित्यमिष्यते, तस्मान्नायमनुबन्धः, किं तूच्चारणार्थ इति व्याचक्षते। भाष्ये तु ठकार उगित्कार्यार्थोऽनुबन्ध एवऽ इति स्थितम्। तत्र ह्रस्वत्वं विकल्पेनेष्यते, न नित्यम्। नुम्विधौ तु झल्ग्रणमनुवर्तिष्यते, अझलन्तत्वान्न प्रविष्यति। शमीति।’नोदातस्य’ इति वृद्धिप्रतिषेधः। उन्मादीति। ननु मादीत्यत्र चरितार्थमेतत्, उत्पूर्वात्वलंकृञादिसूत्रेण विशेषविहित इष्णुजेव प्राप्नोति, वाऽसरूपविधिना घिनुण् भविष्यति, ताच्छीलिकेषु वाऽसरूपविधिर्नास्तीत्येततु प्रायिकमिति वक्ष्यते। असितेति। ठसु क्षेपणेऽ,तृन्नेव भवति॥
Nyaas¶
शमु उपशमे (धातुपाठः-1201), तमु काङ्क्षायाम्`(धातुपाठः-1202), `दमु {उपशमे-धातुपाठः-} उपरमे (धातुपाठः-1203), श्रमु तपसि खेदे च (धातुपाठः-1204), भ्रमु अनवस्थाने (धातुपाठः-1205), क्षमु सहने (धातुपाठः-1206), क्लमु ग्लानौ (धातुपाठः-1207), मदी हर्षे`(धातुपाठः-1208)। `उत्तरत्र कुत्वार्थः इति। सम्पर्कीत्यादौ चजोः कु घिण्यतोः (7.3.52) इति यथा स्यात्। उकार उच्चारणार्थः इति। अनुबन्धत्वमस्य निरस्यति। अनुबन्धत्वे सति शमिनौ शमिन इति उगिदचाम् (7.1.70) इति नुम् प्रसज्येत। इह शमिनितराम्, शमिनितमामिति नद्याः शेषस्यान्यतरस्याम् (6.3.44) इति वर्तमाने उगितश्च (6.3.45) इत्यन्यतरस्यां ह्रस्वत्वं स्यात्, अन्यथा ह्रस्यानुबन्धकरणमनर्थकं स्यात्। तस्मदुच्चारणार्थ एवोकारो भवति। ह्रस्वत्वञ्च घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः (6.3.43) इत्यनेन नित्यं भवति।शमी इति। अत उपधाया- (7.2.116) इति वृद्धिर्न भवति, नोदात्तोपदेश (7.3.34) इत्यादिना प्रतिषिद्धत्वात्। सौ च (6.4.13) इति दीर्घः।असिता`इति। `असु क्षेपणे (धातुपाठः-1209) तृनि भवति॥
Prakriyasarvasvam¶
शमादिभ्योऽष्टभ्यो धातुभ्यो घिनुण् स्यात् । घः कुत्वार्थः । उकारः उन्नित्त्वार्थः । णो वृद्ध्यर्थः ।। <karika>मान्ते ‘नोदात्तोपदेशे’त्यवृद्धित्वं शमी तमी । दमी क्षमी श्रमी वृद्धौ मादी चापि भ्रमी क्लमी ।। १२८ ।।</karika>