32146: निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूञो वुञ्

Padacheda: निन्द-हिंस-क्लिश-खाद-विनाश-परिक्षिप-परिरट-परिवादि-व्याभाष-असूयः | S | 1 | 1 | 5

वुञ् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix वुञ् is added to the following verbs in the sense of ‘the agent having such a habit etc.’ - 1. निन्द् 2. हिंस् 3. क्लिश् 4. खाद् 5. विनाश् 6. परिक्षिप् 7. परिरट् 8. व्याभाष् and असूय।

Vasu English Translation

The affix वुञ् is added to the following verbs in the sense of ‘the agent having such a habit etc.’ - 1. निन्द् 2. हिंस् 3. क्लिश् 4. खाद् 5. विनाश् 6. परिक्षिप् 7. परिरट् 8. व्याभाष् and असूय। In this sutra the whole phrase ending with असूय has taken the termination of the first case; which, however, has the force of the ablative here.

As निन्द् + वुञ् = निन्दकः (VII.I.I) ‘blaming’; so also हिंसकः ‘injuring’; क्लेशकः ‘tormenting or troublesome’; खादकः ‘eating’; विनाशकः ‘destroying’; परिक्षेपकः ‘surrounding’; परिराटकः ‘who cries aloud’; परिवादकः ‘a plaintiff’; व्याभाषकः ‘detracting’; and असूयकः ‘detracting’.

The same forms as the above would have been obtained by adding the affix ण्वुल taught in (3.1.133), as by adding वुञ्; its separate enunciation indicates the existence of this paribhasha :-

“The rule of (3.1.94) by which an apavada-affix which is not uniform with an utsarga-affix should supersede the latter only optionally, has no concern with apavada-affixes added in the sense of ‘having such a habit’ i. e. with the affixes taught in (III.2.134-177)”. Therefore the affixes तृच् &c, are not added in the sense of ‘having such a habit &c’.

Bhashya

निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ्ञ् (913) (526 वुञ्ञ्प्रत्ययविधिसूत्रम्॥ 3 । 2 । 3 । आ. 7) (आक्षेपभाष्यम्) किमर्थं निन्दादिभ्यो वुञ्ञ्विधीयते। न ण्वुलैव सिद्धम्। नह्यस्ति विशेषः। निन्दादिभ्यो ण्वुलो वा वुञ्ञो वा। तदेवरूपं स एव स्वरः॥ (3038 वार्तिकम्॥ 1 ॥) - वुञ्ञमनेकाचः- (भाष्यम्) वञ्ञमनेकाचः प्रयोजयन्ति। असूयकः। (आक्षेपभाष्यम्) अथ येऽत्रैकाचः पठ्यन्ते। तेषां ग्रहणं किमर्थम्। न तेषां ण्वुलैव सिद्धम्। (आक्षेपबाधकभाष्यम्) न सिध्यति। अयं तच्छीलादिष्वर्थेषु तृन्विधीयते स विशेषविहितः सामान्यविहितं ण्वुलं बाधेत। (आक्षेपसाधकभाष्यम्) वाऽसरूपेण न्यायेन ण्वुलपि भविष्यति। अत उत्तरं पठति - (3069 समाधानवार्तिकम्॥ 2 ॥) - निन्दादिभ्यो वुञ्ञ्वचनमन्येभ्योण्वुलः प्रतिषेधार्थम्- (भाष्यम्) निन्दादिभ्यो वुञ्ञ्वचनं क्रियते ( किमर्थम्?) ज्ञापकार्थम्। किं ज्ञाप्यम्?। एतज्ज्ञापयत्याचार्यः तच्छीलादिषु वासरूपन्यायेनान्येभ्यो ण्वुल् न भवतीति। (6070 वार्तिकम्॥ 1 ॥) - तृजादिप्रतिषेधार्थं वा एके- (भाष्यम्) अथ वा एके मन्यन्ते - एतज्ज्ञापयत्याचार्यः ताच्छीलिकेषु सर्व एव तृजादयो वासरूपेण न भवन्तीति निन्दहिंस॥ 146 ॥

Kashika

निन्दादिभ्यो धातुभ्यस्तच्छीलादिषु कर्तृषु वुञ् प्रत्ययो भवति। पञ्चम्यर्थे प्रथमा। क्लिश उपतापे क्लिशू विबाधने द्वयोरपि ग्रहणम्। निन्दकः। हिंसकः। क्लेशकः। खादकः। विनाशकः। परिक्षेपकः। परिराटकः। परिवादकः। व्याभाषकः। असूयकः। ण्वुलैव सिद्धे वुञ्विधानं ज्ञापनार्थम् — ताच्छीलिकेषु वासरूपन्यायेन तृजादयो न भवन्ति (महाभाष्य २.१३३) इति॥

Siddhanta Kaumudi

पञ्चम्यर्थे प्रथमा । एभ्यो वुञ् स्यात् । निन्दकः । हिंसक इत्यादि । ण्वुला सिद्धे वुञ्वचनं ज्ञापकं तच्छीलादिषु वासपरूपन्यायेन तृजादयो नेति ॥

Balamanorama

निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादि- व्याभाषासूयो वुञ् - निन्दहिंस । निन्द, हिंस, क्लिश, खाद, विनाश, परिक्षिप, परिरट, परिवादि, व्याभाष, असूय एषां दशानां द्वन्द्वः । पञ्चम्यर्थे प्रथमेति । सौत्रं पुंस्त्वमेकवचनं वेति भावः । विनाशेति — विपूर्वस्य नशेण्र्यन्तस्य भाविना णिलोपेन निर्देशः । शकारादकार उच्चारणार्तः । केचित्तुविनाशी॑ति ण्यन्तमेव पठन्ति । परिवादीति — तु ण्यन्तमेव । असूयेति — कण्ड्वदियगन्तः । इत्यादीति । क्लेशकः, खादकः,विनाशकः, परिक्षेपकः, परिराटकः, परिवादकः, व्याभाषकः, असूयकः । ननुअसूयो वु॑ञिति असूयतेरेव वुञ्विधीयतां , न तु निन्दादिभ्योऽपि, तेषां ण्वुलैव सिद्धेः । लित्स्वरञित्स्वरयोस्तु नास्ति विशेषः, उभयथाप्याद्युदात्तत्वात् । असूयतेस्तु ण्वुलिलिती॑ति प्रत्ययात्पूर्वं उकार उदात्तः । वुञि तुञ्नित्यादिर्नित्य॑मिति धातोरकार उदात्त इति विशेषः । तस्मादसूयतेरेव वुञ्विधिरिति युक्तमित्यत आह — ण्वुला सिद्धे इति । तृजादयो नेतीति । तच्छीलादिषु वासरूपविदिस्त्तवे हि तद्विषये तृनि प्राप्ते वुञ्विधिरर्थवान् । अतस्तच्छीलादिषु वासरूपविधिर्न प्रवर्तत इति भावः । इदं च प्रायिकम् । तत्फलं तु ऊत्पूर्वान्मदेरलङ्कृञादिसूत्रेण इष्णुजुक्तो, वासरूपविधिना घिनुणपीति मूल एवानुपदमुक्तम् ।

Tattvabodhini

निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादि- व्याभाषासूयो वुञ् - निन्दहिंस । इह सूत्र विनाशेति विपूर्वस्य नशेण्र्यन्तस्य पाठो निर्विवाद एव । असूयतिः कण्ड्वादियगन्तः, निन्दादीनामसूयान्तानां समाहारद्वन्द्वे सौत्रं पुस्त्वम् । स्यादेतत् — असूयतेरेव वुञ् विधेयो नेतरेभ्यः निन्दादीनां निन्दादीनां ण्वुलैव सिद्धेः । न हि तत्र लित्स्वरनित्स्वरयोर्विशेषोऽस्ति, उभयथाप्याद्युदात्तत्वात् । असूयतेस्तु ण्वुलिलिती॑ति प्रत्ययात्पूर्वमुदात्तं, वुञि तुञ्नित्यादिर्नित्य॑मित्यादिरुदात्त इति विशेषः । तत्राह — ण्वुलेति । तृजादयो नेति । नेदं ण्वुल्विषयकमेव ज्ञापकं किंतु सामान्यतः प्रत्ययमात्रविषयकमित्यर्थः ।

Padamanjari

निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिधादिव्याभाषासूयो वुञ् ॥’णिदि कुत्सायाम्’ ‘तृह हिसि हिंसायाम्’ ‘क्लिश विबाधने’ ‘खाद्द भक्षणे’ ‘णश अदर्शने’ ण्यन्तः, भाविना णिलोपेन निर्देशः, अकारस्त्वागन्तुकः। केचितु विनाशीति ण्यन्तमेव पठन्ति। क्षिपिरटी उक्तार्थौ, वदिर्ण्यन्तः,’भाष व्यक्तायां वाचि’ ,असूयतिः कण्ड्वादियगन्तः। अथ किमर्थ निन्दादिभ्यो वुञ् विधीयते, न’ण्वुल्तृचौ’ इति ण्वुलैव सिद्धम्, तदेव रूपम्, स्वरोऽप्यसूयतिमेकं वर्जयित्वान्यत्र स एव; असूयतेस्तु ण्वुलि प्रत्ययात्पूर्वमुदातं स्यात्, वुञि तु’ञ्नित्यादिः’ इति। तस्मादेवैकस्माद् वुञ् विधेयः, अन्येभ्यस्तु ण्वुलैव सिद्धम्, योऽयं तच्छीलादिषु तृन्विधीयते स बाधकः प्राप्नोति, वाऽसरूपविधिना ण्वुलपि भविष्यति, तत्राह - ण्वुलैव सिद्ध इति। तृजादयो न भवन्तीति। न केवलं ण्वुल्विषयमेव ज्ञापकम्, किं तर्हि? प्रत्ययमात्र विषयमित्यर्थः॥

Nyaas

णिदि कुत्सायाम् (धातुपाठः-66), अर्द हिसि हिंसायाम् (धातुपाठः-1828, 1829), खादृ भक्षणे (धातुपाठः-49), णश अदर्शने (धातुपाठः-1194) विपूर्वः, हेतुमण्ण्यन्तः। क्षिपिः`पूर्वोक्त एव, एवं रटिर्वदिः परिपूर्वो हेतुमण्ण्यन्तः, `भाव व्यक्तायां वाचि (धातुपाठः-612) व्याङपूर्वः। `असूय इति कण्डवादियगन्तस्य ग्रहणम्। अत्र क्लिशेरुपतापार्थस्य भाषतेश्च अनुदात्तेश्च हलादेः (3.2.149) इति युचि प्राप्ते वुञ्चिधानम्। शेषेभ्यस्तु तृनि। ननु परश्च (3.1.2) इति दिग्योगलक्षणया पञ्चम्या भवितव्यम्, यथा वृत्तौ - निन्दादिभ्यो धातुभ्यः` इति, तत्कथं सूत्रे प्रथमेत्यत आह - पञ्चम्यर्थे प्रथमा इति। व्यत्ययो बहुलम् (3.1.85) इतिसुब्व्यत्ययेनेति भावः। समाहारद्वन्द्वाच्च प्रथमैकवचनम्, पुंल्लिङ्गं तु व्यत्ययेन। `असूयकः`इति। अतो लोपः (6.4.48) इत्यकारलोपः। अथ किमर्थं निन्दादिभ्यो धातुभ्यो वुञ् विधीयते, यावता वाऽसरूपविधिनैव निन्दकादयः,सिद्धाः, तदेव हि रूपम्, स एव स्वरः, इहैवैकत्र स्वरविशेषोऽस्ति - असूयक इति, अत्र वुञि सति ञित्वादादेरुदात्तत्वं भवति, ण्वुलि तु सति लित्प्रत्ययात् पूर्वस्य स्यात्, तस्मादसूयतेरेवैकस्माद्वुञ्, विधातव्यः, नेतरेभ्यो निन्दादिभ्य इत्यत आह - `ण्नुलैव सिद्धे`इत्यादि। यदि तच्छीलादिषु वाऽसरूपविधिना तृजादयोऽपि स्युः निन्दादिभ्यो वुञ् न विदध्यात्, विहितश्चासौ, अत एव वुञ्विधानं ज्ञापयति - तच्छीलादिषु वाऽसरूपविधिर्नास्तीति। तेनालङ्कारकः, निराकर्तेत्यादीनां तच्छीलादिषु साधुत्वं न भवति॥

Prakriyasarvasvam

वोरकः । निन्दकः हिंसकः इत्यादि । ण्वुला सिद्धेऽप्युक्तिस्तच्छीलादौ ण्वुलतृजादेरभावात् । अनेकाज्भ्यश्च वुञ् भोजोक्तः । दरिद्रायकः जागरकः । sutra_text: निन्दाहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादि-व्याभाषसूयो वुञ्

Sutra Prayogas

  • हिंसकाः (भट्टिकाव्यम्): निन्द-हिंस इत्यादिना वुम्।