32154: लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ्¶
Padacheda: लष-पत-पद-स्था-भू-वृष-हन-कम-गम-शॄभ्य | S | 5 | 3 |
उकञ् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix उकञ् comes after the following verbs, in the sense of ‘agent having such habit etc.’ - 1. लष् 2. पत् 3. पद् 4. स्था 5. भू 6. वृष् 7. हन् 8. कम् 9. गम् 10. शॄ ।
Vasu English Translation¶
The affix उकञ् comes after the following verbs, in the sense of ‘agent having such habit etc.’ - 1. लष् 2. पत् 3. पद् 4. स्था 5. भू 6. वृष् 7. हन् 8. कम् 9. गम् 10. शॄ । As अपलाषुकं वृषलसङ्गतं, प्रपातुका गर्भा भवन्ति, उपपादुकंसत्वं, उपस्थायुका एनं पशवो भवन्ति, प्रभावुकमन्नं भवति, प्रवर्षुकाः पर्जन्याः, आघातुकं कापालिकस्य शूलम्, कामुकं एनं स्त्रियो भवन्ति, आगामुकं वाराणसीं रक्ष आहुः, किंशारुकं तीक्ष्णमाहुः । The य is added after स्था in उपस्थायुक by (7.3.33). The हन् is changed into घात् by (7.3.32) and (54).
Kashika¶
लषादिभ्यो धातुभ्यस्तच्छीलादिषु कर्तृषु उकञ् प्रत्ययो भवति। अपलाषुकं वृषलसंगतम्। प्रपातुका गर्भा भवन्ति। उपपादुकं सत्त्वम्। उपस्थायुका एनं पशवो भवन्ति। प्रभावुकमन्नं भवति। प्रवर्षुकाः पर्जन्याः। आघातुकं पाकलिकस्य मूत्रम्। कामुका एनं स्त्रियो भवन्ति। आगामुकं वाराणसीं रक्ष आहुः। किंशारुकं तीक्ष्णमाहुः॥
Siddhanta Kaumudi¶
लाषुकः । पातुक इत्यादि ॥
Balamanorama¶
लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ् - लषपत । एभ्यो दशभ्य उकञ् स्यात्तच्छीलादिष्वर्थेषु । इत्यादीति । पादुकः । आतो युक् । स्थायुकः । भावुकः । वर्षुकः । घातुकः । ‘हनस्तः’ इति तत्वम् । ‘हो हन्तेति’ कुत्वम् । कामुकः । गामुकः । शारुकः ।
Padamanjari¶
लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ्॥ अपलाषुकमिति। अशोभनमित्यर्थः। नन्वत्र विशेषविहितत्वाद् ठपे च लषःऽ इति घिनुणा भाव्यम्, अयं तु केवलेऽन्योपसर्गपूर्वे च लषौ चरितार्थः, वाऽसरूपविधिनोकञ् भविष्यति? ताच्छीलिकेषु वाऽसरूपविधिर्नास्तीत्येततु प्रायिकमित्युक्तम्। आघातुकं पाकलिकस्य मूत्रमिति। पाकलो नाम गजानां व्याधिविशेषः, स यस्यास्ति स पाकलिकोः,’द्वन्द्वोपतापगर्ह्यात्’ इतीनिरेव प्राप्नोति, व्रीह्यादिपाठान्न भवति। पाकलिको गजस्तस्य मूत्रं स्पृष्टमाघ्रातं वान्यान् गजान्हन्ति, एष तस्य स्वभावः। आगामुकं वाराणसी रक्ष आहुरिति। यः शापादिना रक्षोभूतः तं मोक्षार्थ वाराणसीं प्रत्यागमनशीलमाहुरित्यर्थः॥
Nyaas¶
{उपस्थायुकाः-काशिका} उपस्थायुकः इति। आतो युक् (7.3.33) इत्यादिना युक्। {प्रवर्षुकाः-काशिका} प्रवर्षुकः`इति। `वृषु मृषु सेचने`(धातुपाठः-706,707) इति। `कामुकाः`इति। `कमु कान्तौ`(धातुपाठः-443)। `नोदात्तोपदेश (7.3.34) इत्यादिना वृद्धिप्रतिषेधे प्राप्तेऽनाचमेरित्यत्र चमिकमिवमीनामिति वक्तव्यम् (वा।844) इति वृद्धिरेव भवति। {किंशारुकं-काशिका} शारुकः`इति। `शृ हिंसायाम् (धातुपाठः-1488)। अपपूर्वाल्लषेः अपे#ऐ च लषः (3.2.144) इति धिनुण् भवति। उक्तं हि प्राक् - ताच्छीलिकेषु समावेशः क्वचित् भवति इति । पतिपदिभ्यां जुचङ्क्रम्य इत्यादिना युजपि भवत्येव । तिष्ठतेरिति ग्लाजिस्थश्च क्सनुः (3.2.139) इति वचनसामर्थ्यात्। गमेश्छन्दसि आदृगम (3.2.171) इत्यादिना किकिनावपि भवतः। भाषायामपि;`भाषायां धाञ्कृञ्सृजनिगमिनमिभ्यः (वा।284) इत्युपसंख्यानात्। कमेः नमिकम्पि (3.2.167) इत्यादिना रप्रत्ययः॥
Prakriyasarvasvam¶
अभिलाषुकः । पातुकः । प्रतिपादुको ज्ञाता । स्थायुकः । भावुकः । वर्षुकः । घातुकः । कामुकः । गामुकः । शारुको हन्ता ।।
Sutra Prayogas¶
पातुक (शिशुपालवधम्): लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ् इति उकञ्प्रत्ययः।
वर्षुकस्य (शिशुपालवधम्): लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ् इति उकञ्प्रत्यये लघूपधगुणः।
प्रतिपादुकैः (शिशुपालवधम्): लषपतपद- इत्यादिना उकन्प्रत्ययः।
परिभावुकैः (शिशुपालवधम्): लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ् इति उकञ्प्रत्ययः।
स्थायुकम (भट्टिकाव्यम्): लप-पत इत्यादिना उकञ्।
वर्षुका (भट्टिकाव्यम्): लप-पत-पद इत्यादिना उकन्।
कामुक (भट्टिकाव्यम्): लष-पत इत्यादिना उकञ्।
वर्षुके (भट्टिकाव्यम्): लप-पत- इत्युकञ्।