32151: क्रुधमण्डार्थेभ्यश्च

Padacheda: क्रुध-मण्डार्थेभ्यः | S | 5 | 3 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

And after the verbs having the sense of क्रुध् ‘to be angry’ and मण्ड ‘to adorn’, the affix युच् is used.

Vasu English Translation

And after the verbs having the sense of क्रुध् ‘to be angry’ and मण्ड ‘to adorn’, the affix युच् is used. As क्रोधनः ‘wrathful’; रोषणः ‘irascible’; मण्डनः ‘adorning’; भूषणः ‘ornament’. But not so after the verb अलङ्कृ to which sutra (3.2.136) applies.

Kashika

क्रुध कोपे मडि भूषायाम् इत्येतदर्थेभ्यश्च धातुभ्यो युच् प्रत्ययो भवति। क्रोधनः। रोषणः। मण्डनः। भूषणः॥

Siddhanta Kaumudi

क्रोधनः । रोषणः । मण्डनः । भूषणः ॥

Balamanorama

क्रुधमण्डार्थेभ्यश्च - क्रुधमण्डार्थेभ्यश्च । ‘क्रुध कोपे’ ‘मडि भूषायाम्’ एतदर्थेभ्यो धातुभ्यो युच् स्यात्तच्छीलादिष्वित्यर्थः ।

Tattvabodhini

क्रुधमण्डार्थेभ्यश्च - क्रुध । क्रुध क्रोधे, रुष रोषे, मडि भूषायाम्,भूष् अलङ्कारे ।

Nyaas

तृन् (3.2.135) इति तृनि प्राप्ते युज्विधीयते। इहोत्तरेऽपि प्रत्ययो यत्र विशेषो न विवक्ष्यते, तत्र तृन एवापवादो वेदितव्यः। रोषणः`इति। `रुष रोषे (धातुपाठः-1670)॥

Prakriyasarvasvam

क्रोधार्थेभ्यो भूषणार्थेभ्यश्च युच् । क्रोधनः । कोपनः । मण्डनः । भूषणः ।

Sutra Prayogas

  • मण्डना (भट्टिकाव्यम्): क्रुध मण्डार्थेभ्यश्च इति युच्।