32158: स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्¶
Padacheda: स्पृहि-गृहि-पति-दयि-निद्रा-तन्द्रा-श्रद्धाभ्यः | S | 5 | 3 |
आलुच् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix आलुच् comes in the sense of ‘agent having such habit etc.’ after the words - 1. स्पृह् ‘to desire’ 2. गृह् ‘to seize’ 3. पत् ‘to go’ 4. दय् ‘to give, to go , to protect’ 5. निद्रा ‘to sleep’ 6. तन्द्रा ‘to be tired’ 7. श्रद्धा ‘to venerate’.
Vasu English Translation¶
The affix आलुच् comes in the sense of ‘agent having such habit etc.’ after the words - 1. स्पृह् ‘to desire’ 2. गृह् ‘to seize’ 3. पत् ‘to go’ 4. दय् ‘to give, to go , to protect’ 5. निद्रा ‘to sleep’ 6. तन्द्रा ‘to be tired’ 7. श्रद्धा ‘to venerate’. The word निद्रा is formed by adding the preposition नि to the verb द्रा ‘to go crookedly’; so also तन्द्रा is formed by adding तद् to द्रा, and then irregularly changing the द् into न्. The term श्रद्धा is formed by adding श्रत् to the verb डुधाञ् ‘to hold’. The first three verbs belong to Churadi class and take णिच्.
As, स्पृहयालुः ‘disposed to be desirous of’; गृहयालुः ‘disposed to catch hold of or seize’; पतयालुः ‘tending or prone to fall’; दयालुः ‘compassionate’; निद्रालुः ‘disposed to sleep’; तन्द्रालुः ‘slothful’; श्रद्धालुः ‘full of faith’. See (6.4.55) for adding अय ।
Vart:- The affix आलुच् comes also after the root शीङ् ‘to lie down’; as शयालुः ‘disposed to lie down’.
Bhashya¶
स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् (935) (528 आलुच्प्रत्ययविधिसूत्रम्॥ 3 । 2 । 3 आ.9) (आक्षेपभाष्यम्) किमर्थमालुज्विधीयते, न लुशेवोच्यत। (प्रश्नभाष्यम्) का रूपसिद्धिः?। स्पृहयालुः दयालुः। (उत्तरभाष्यम्) शपि कृते अतो दीर्घो यञ्ञी ति दीर्घो भविष्यति। (समाधानभाष्यम्) एवं तर्हि। सिद्धे सति यदालुचं शास्ति, तज्ज्ञापयत्याचार्योऽन्येभ्योऽप्ययं भवतीति। किमेतस्य ज्ञापने प्रयोजनम्?। आलुचि शीङ्ग्रहणं चोदयिष्यति। तन्न कर्तव्यं भवति। (3073 वार्तिकम्॥ 1 ॥) - आलुचि शीङ्ग्रहणम्- (भाष्यम्) आलुचि शीङ्ग्रहणं कर्तव्यम्। शयालुः॥ स्पहिगृहि॥ 158 ॥
Kashika¶
स्पृह ईप्सायाम् गृह ग्रहणे पत गतौ चुरादावदन्ताः पठ्यन्ते। दय दानगतिरक्षणेषु द्रा कुत्सायां गतौ निपूर्वस्तत्पूर्वश्च, तदो नकारान्तता च निपात्यते। डुधाञ् श्रत्पूर्वः। एतेभ्यस्तच्छीलादिषु कर्तृषु आलुच् प्रत्ययो भवति। स्पृहयालुः। गृहयालुः। पतयालुः। दयालुः। निद्रालुः। तन्द्रालुः। श्रद्धालुः॥ आलुचि शीङो ग्रहणं कर्तव्यम्॥ शयालुः॥
Siddhanta Kaumudi¶
आद्यास्त्रयश्चुरादावदन्ताः । स्पृहयालुः । गृहयालुः । पतयालुः । दयालुः । निद्रालुः । तत्पूर्वो द्रा । तदो नान्तत्वं निपात्यते । तन्द्रालुः ।<!शीङो वाच्यः !> (वार्तिकम्) ॥ शयालुः ॥
Balamanorama¶
स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् - स्पृहिगृहि । स्पृहि, गृहि,पति, दयि, निद्रा, तन्द्रा, श्रद्धा, एभ्यः सप्तम्य आलुच् स्यात्तच्छीलादिष्वित्यर्थः । स्पृहयालुरिति । स्पृहधातोरदन्तादालुच् ।अयामन्ते॑ति णेरय् णिलोपापवादः । अल्लोपस्य स्थानिवत्त्वान्न लघूपधगुणः । एवं गृहयालुः । पतयालुरित्यत्र तु अल्लोपस्य स्थानिवत्त्वान्नोपधावृद्धिः । निद्रालुरिति ।द्रा कुत्सायां गतौ॑ निपूर्वादालुच् । तत्पूर्वो द्रेति । तच्छब्दपूर्वो द्राधातुस्तन्द्रेत्यनेन गृह्रत इत्यर्थः । श्रद्धालुरिति ।श्र॑दित्यव्ययं, तत्पूर्वाद्धातोरालुच् । शीङो वाच्य इति । आलु॑जिति शेषः ।
Tattvabodhini¶
स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् - स्पृहि । स्पृह ईप्सायाम्, गृहू ग्रहणे, पत गतौ । त्रयश्चुरादाविति । तेन णेरयादेशेन रूपसिद्धिरिति भावः । तत्पूर्व इति । तच्छब्दस्य समासोऽपि निपातनादिति बोध्यम् । डुधाञ् श्रत्पूर्वः । श्रद्धालुः । धेटस्तु नेदं रूपम्, श्रत्पूर्वस्य तस्य प्रयोगाऽभावादिति व्याचख्युः । ननु कथं कृपालुः स्पर्धालु इति । कृपां स्पर्धां च लातीति विग्रहे मृगय्वादित्वात्कुः ।
Padamanjari¶
स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्॥ चुरादावदन्ताः पठ।ल्न्त इति। तेन णौ कृतस्यातो लोपस्य स्थानिवद्भावात्पतयतेः ठत उपधायाःऽ इति वृद्धिर्न भवति, स्पृहयतिगृहयत्योश्च लघूपधगुणो न भवतीति भावः। श्रत्पूर्वो धाञिति। धेटस्तु श्रत्पूर्वस्याप्रयोग एव। अथ किमर्थमालुज्विधीयते, न लुजेवोच्येत? का रूपसिद्धिः? स्पृहयालुः शपि कृते ठतो दीर्घो यञिऽ इति दीर्घो भविष्यति? तत्र हि’तुरुस्तुशम्यमः सार्वधातुके’ इति सार्वधातुकग्रहणमनुवर्तते, न तु तिङ्ग्रहणम्, लकारस्येत्संज्ञाप्रयोजनाभावान्न भविष्यति, यकारादित्वाद्वा। किं यकारो न श्रूयते? लुप्तनीर्दिष्टो यकारः, एवमपि श्रद्धालुर्न सिद्ध्यति, कथम्? शपः श्लुर्द्विर्वचनम्,’श्नाभ्यस्तयोरातः’ श्रद्दध्लुरिति प्राप्नोति? अथापि’संज्ञापूर्वको विधिरनित्यः’ इति द्विर्वचनं न प्रवर्तिष्यत इत्युच्येत? एवमपि ज्ञापनार्थमालुज् विधीयते, एतज् ज्ञापयति - यत्रालुचैव रूपसिद्धिस्ततोऽप्ययं भवतीति। तेनालुचि शीङे ग्रहणमित्येतन्न वक्तव्यं भवति॥
Nyaas¶
चुरादावदन्ताः पठन्ते इति। तेनातो लोपे कृते अचः परस्मिन् पूर्वविधौ (1.1.57) स्थानिवद्भावाद्वृद्धिगुणौ न भवत इत्याभिप्रायः। एतेभ्यश्छन्दसि पूर्ववदिष्णुचि प्राप्ते द्रातेर्दधातेश्च किकिनोः प्राप्तयोरालुज्विधीयते। स्पृहयालुः`इति। `अयामन्त (6.4.55) इत्यादिना अयादेशः। आलुचि इत्यादि। शीङ गृह्रते। येन तच्छीङग्रहणं तत् पुनव्र्याख्यानमित्येतदुक्तं भवति। तद्व्याख्यानं कर्तव्यं येनालुचि विधातव्ये शीङोऽपि ग्रहणं भवति। तत्रेदं व्याख्यानम् - पूर्वसूत्रादिह चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः, तेन शीङपि प्रकृतित्वेन गुह्रत इति॥
Prakriyasarvasvam¶
आद्यास्त्रयः स्वार्थण्यन्ताः । ‘अयामन्त-’ (६-४-५५) इत्ययादेशः । स्पृहयालुः । गृहयालुः । पतयालुरित्यादि ।<!शीङश्च वाच्यम्!> (वा० ३-२-१५८) शयालुः ।।
Sutra Prayogas¶
दयालुः (रघुवंशम्): स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् इति आलुच्-प्रत्ययः।
स्पृहयालुरेव (रघुवंशम्): स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् इति आलुच्प्रत्ययः।
दयालुः (शिशुपालवधम्): स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् इति आलुच्प्रत्ययः।
प्रासदशोभातिशयालुभिः (शिशुपालवधम्): आलुचि शीङ्ग्रहणमपि कर्तव्यम् इति वार्त्तिकेन आलुच्प्रत्ययः।
स्पृहयालुं (भट्टिकाव्यम्): स्पृहि - गृहि - इति आलुच्।