Sutras 1 - 20¶
- 23001: अनभिहिते
- 23002: कर्मणि द्वितीया
- 23003: तृतीया च होश्छन्दसि
- 23004: अन्तराऽन्तरेण युक्ते
- 23005: कालाध्वनोरत्यन्तसंयोगे
- 23006: अपवर्गे तृतीया
- 23007: सप्तमीपञ्चम्यौ कारकमध्ये
- 23008: कर्मप्रवचनीययुक्ते द्वितीया
- 23009: यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी
- 23010: पञ्चम्यपाङ्परिभिः
- 23011: प्रतिनिधिप्रतिदाने च यस्मात्
- 23012: गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि
- 23013: चतुर्थी सम्प्रदाने
- 23014: क्रियार्थोपपदस्य च कर्मणि स्थानिनः
- 23015: तुमर्थाच्च भाववचनात्
- 23016: नमःस्वस्तिस्वाहास्वधालम्वषड्योगाच्च
- 23017: मन्यकर्मण्यनादरे विभाषाऽप्राणिषु
- 23018: कर्तृकरणयोस्तृतीया
- 23019: सहयुक्तेऽप्रधाने
- 23020: येनाङ्गविकारः