23006: अपवर्गे तृतीया¶
Padacheda: अपवर्गे | S | 7 | 1 |
तृतीया | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The 3rd case-affix is used after the words denoting the duration of time or place, when the accomplishment of the desired object is meant to be expressed.
Vasu English Translation¶
The 3rd case-affix is used after the words denoting the duration of time or place, when the accomplishment of the desired object is meant to be expressed. मासेनानुवाकोऽधीतः ‘he learnt the Anuvaka in a month,’ क्रोशेनानुवाकोऽधीतः ‘he learnt the Anuvaka by going over a kos.
The word अपवर्ग means ‘the finishing of an action, on the attainment of the object intended by the action, but not before.’ Thus संवत्सरेणानुवाकोऽधीतः means ‘Anuvaka was persaveringly and effectually read by him in the whole year.’
When the idea of apavarga is not intended, the accusative case is employed, as मासमधीतोऽनुवाकः ‘learnt for a month, but not yet completed, the Anuvaka.’
Bhashya¶
अपवर्गे तृतीया 464 (298 द्वितीयाबाधकतृतीयासूत्रम् ॥ 2.3.1 आ.6) (अनिष्टापत्तिवारणाधिकरणम्) (1474 नियमवार्तिकम् 1) (- क्रियापवर्गे -) (भाष्यम्) क्रियाऽपवर्ग इति वक्तव्यम्। साधनापवर्गे मा भूद् - मासमधीतोनुवाको न चानेन गृहीत इति ॥ अपवर्गे ॥ 6 ॥
Kashika¶
कालाध्वनोरत्यन्तसंयोग इति वर्तते। अपवर्गः फलप्राप्तौ सत्यां क्रियापरिसमाप्तिः। अपवर्गे गम्यमाने कालाध्वनोरत्यन्तसंयोगे तृतीया विभक्तिर्भवति। मासेनानुवाकोऽधीतः। संवत्सरेणानुवाकोऽधीतः। अध्वनः — क्रोशेनानुवाकोऽधीतः। योजनेनानुवाकोऽधीतः। अपवर्ग इति किम्? क्रोशमधीतोऽनुवाकः। मासमधीतः। कर्तृव्यावृत्तौ फलसिद्धेरभावात् तृतीया न भवति। मासमधीतोऽनुवाकः, न चानेन गृहीतः॥
Siddhanta Kaumudi¶
अपवर्गः फलप्राप्तिस्तस्यां द्योत्यायां कालाध्वनोरत्यन्तसंयोगे तृतीया स्यात् । अह्ना क्रोशेन वाऽनुवाकोऽधीतः । अपवर्गे किम् ? मासमधीतो नायातः ॥
Balamanorama¶
अपवर्गे तृतीया - अपवर्गे तृतीया । अपवर्द समाप्तिः,कर्मापवर्गे लौकिका अग्नयः॑ इत्यादौ दर्शनात् । इह तु फलप्राप्तिपर्यन्तत्वात् प्रायेण क्रियायाः । तदाह-अपवर्गः फलप्राप्तिरिति । कालाध्वनोरिति । अनेन ‘कालाध्वनोः’ इति द्वितीयाय अयमपवाद इति सूचितम् । अह्नेति । अह्नि कोशे वा निरन्तरमनुवाकोऽध्ययनेन गृहीत इत्यर्थः । नायात #इति । न गृहीत इत्यर्थः ।
Padamanjari¶
अपवर्गे तृतीया॥ अपवर्गः फलप्राप्तौ सत्यां क्रियापरिसमाप्तिरिति। तत्रैवापवर्गशब्दो लोके प्रसिद्ध इति भावः। कर्तृव्यावृताविति। अशक्त्यादिना कर्तुरुपरमादित्यर्थः, तत्र मध्ये क्रिया विच्छिन्नेति प्रवृत्यपायः, न त्वपवृक्तेति॥
Nyaas¶
अपवर्गः`इति। अत्यन्तसंयोगस्य फलरूपमेतद्विशेषणमुपात्तम्। तच्च क्रियात्यन्तसंयोगस्यैव सम्भवति, नान्यस्यति सामर्थ्यादत्र क्रियात्यन्तसंयोग एव गृह्रते। सर्वस्याश्च क्रियायाः परिसमाप्तिरस्ति; तस्माद्विशेषणोपादानसामर्थ्यात् फलप्राप्तौ सत्यां क्रियायाः परिसमाप्तिरिहापवर्गो विज्ञायत इत्यत आह - `फलप्राप्तौ इत्यादि। कर्त्तृव्यावृतौ इति। न हि मासमधीतोऽनुवाको न चानेन गृहीत इत्युक्तेऽपवर्गो गम्यते, किं तर्हि? कर्त्तुरशक्तिमात्रम्। न च तत्रापवर्गव्यपदेशः॥
Prakriyasarvasvam¶
क्रियासमाप्तौ द्योत्यायां कालाध्वनोरत्यन्तसंयोगे तृतीया स्यात् । अह्ना वाचितो ग्रन्थः । क्रोशेन पठितः श्लोकः । असमाप्तौ तु द्वितीयैव । दिवसं वाचितो न च समाप्तः ॥
Sutra Prayogas¶
चिरेणाऽनुगुणं (भट्टिकाव्यम्): अपवर्गे तृतीया इति तृतीया।