23002: कर्मणि द्वितीया

Padacheda: कर्मणि | S | 7 | 1 |

द्वितीया | S | 1 | 1 |

Sutrartha


Vasu English Summary

When the object is not denoted by the termination of the verb i.e. when the verb does not agree with it, the 2nd case-affix is attached to the word.

Vasu English Translation

When the object is not denoted by the termination of the verb i.e. when the verb does not agree with it, the 2nd case-affix is attached to the word. The terms dvitiya &c., are technical phraseology of older grammarians, and hence not defined by Panini; they apply to the triads of सुप् affixes. कटं करोति ‘he makes the mat,’ ग्रामं गच्छति ‘he goes to the village.’

The words उभयतः, सर्वतः, धिक् and the double forms उपर्युपरि, अधोधः, अध्यधि, when they have the sense of nearness, govern the accusative. Sometimes other cases also, as उभयतो ग्रामं ‘on both sides of the village’; सर्वतो ग्रामं ‘on all sides of the village’; धिग्देवदत्तं ‘fie to Devadatta’; उपर्युपरि ग्रामम् ‘just over the village’; अध्यधि or अधोधो ग्रामम् ‘just below the village.’

Vart:- The words अभितः, परितः both meaning ‘round’, समया, निकषा both meaning ‘near’, and हा ‘woe be to,’ and प्रति ‘to,’ govern the accusative case; as, अभितो ग्रामम् ‘round the village,’ ग्रामं समया ‘near the village’; हा देवदत्तं ‘woe be to Devadatta’; बुभुक्षितम् न प्रतिभाति किंचित् ‘to a hungry person nothing occurs to his mind.’ See (1.4.49) &c.

Bhashya

कर्मणि द्वितीया 430 294 द्वितीयनियमसूत्रम् ॥ 2.3.1 आ.2 ॥ (शेषपूरणाधिकरणम्) 1469 द्वितीयाविधायकवार्तिकम् ॥ 1 ॥ समयानिकषाहायोगेषूपसंख्यानम् (भाष्यम्) समयानिकषाहायोगेषूपसंख्यानं कर्तव्यम्। समया - समया ग्रामम्। समया ॥ निकषा - निकषा ग्रामम्। निकषा ॥ हायोगे - हा देवदत्तम्, हा यज्ञदत्तम् ॥ (भाष्यम्) अपर आह - (1470 द्वितीयाविधायकवार्तिकान्तरम् ॥ 2 ॥) - द्वितीयाविधानेऽभितः परितः- समयानिकषाऽध्यधिधिग्योगेषूपसंख्यानम् - (भाष्यम्) द्वितीयाविधानेऽभितः परितःसमयानिकषाऽध्यधिधिग्योगषूपसंख्यानं कर्तव्यम्। अभितो ग्रामम्। अभितः ॥ परितो ग्रामम्। परितः ॥ समया ग्रामम्। समया ॥ निकषा ग्रामम्। निकषा ॥ अध्यधि ग्रामम्। अध्यधि ॥ धिग्जाल्मम्। धिग् वृषलम्। धिग् ॥ (भाष्यम्) अपर आह - (1471 द्वितीयाविधायकवार्तिकान्तरम् ॥ 3 ॥) उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयाम्रेडितान्तेषु ततोन्यत्रापि दृश्यते। उभसर्वःइत्येताभ्यां तसन्ताभ्यां योगे द्वितीया वक्तव्या। उभयतो ग्रामम्। सर्वतो ग्रामम् ॥ धिग्योगे - धिग् जाल्मम् धिग् वृषलम् ॥ उपर्यादिषु त्रिष्वाम्रेडितान्तेषु द्वितीया वक्तव्या। उपर्युपरि ग्रामम्। अध्यधि ग्रामम्। अधोधो ग्रामम् ॥ ततोन्यत्रापि दृश्यते। न देवदत्तं प्रति भाति किंचित्। बुभुक्षितं न प्रति भाति किंचित् ॥ कर्मणि द्वि ॥ 2 ।

Kashika

द्वितीयादयः शब्दाः पूर्वाचार्यैः सुपां त्रिकेषु स्मर्यन्ते, तैरेवात्र व्यवहारः। कर्मणि कारके या संख्या तत्र द्वितीया विभक्तिर्भवति। कटं करोति। ग्रामं गच्छति।

उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु।

द्वितीयाम्रेडितान्तेषु ततोन्यत्रापि दृश्यते॥

उभयतो ग्रामम्। सर्वतो ग्रामम्। धिग् देवदत्तम्। उपर्युपरि ग्रामम्। अध्यधि ग्रामम्। अधोऽधो ग्रामम्॥ अभितः परितः समयानिकषाहाप्रतियोगेषु च दृश्यते॥ अभितो ग्रामम्। परितो ग्रामम्। समया ग्रामम्। निकषा ग्रामम्। हा देवदत्तम्। बुभुक्षितं न प्रति भाति किञ्चित्॥

Siddhanta Kaumudi

अनुक्ते कर्मणि द्वितीया स्यात् । हरिं भजति । अभिहिते तु कर्मणि प्रातिपदिकार्थमात्र इति प्रथमैव । अभिधानं च प्रायेण तिङ्कृत्तद्धितसमासैः । तिङ् - हरिः सेव्यते । कृत् - लक्ष्म्या सेवितः । तद्धितः - शतेन क्रीतः शत्यः । समासः - प्राप्तः आनन्दो यं स प्राप्तानन्दः । क्वचिन्निपातेनाभिधानं यथा - विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥ सांप्रतमित्यस्य हि युज्यत इत्यर्थः ॥

Laghu Siddhanta Kaumudi

अनुक्ते कर्मणि द्वितीया स्यात्। हरिं भजति। अभिहिते तु कर्मादौ प्रथमा - हरिः सेव्यते। लक्ष्म्या सेवितः॥

Balamanorama

कर्मणि द्वितीया - कर्मणि द्वितीया । ‘अनभिहिते’ इत्यनुवृत्तं व्याचष्टे — अनुक्ते इति । हरिं भजतीति । तुष्टनुकूलपरिचरणात्मकव्यापारो भजेरर्थः । पूजादिव्यापारेण हरि #ं तोषयतीत्यर्थः । कर्तृनिष्ठपूजनादिव्यापारप्रयोज्यतुष्टिरूपफलाश्रयत्वाद्धरिः कर्म । हरिनिष्ठतुष्टनुकूल एकदेवदत्तनिष्ठो वर्तमानो व्यापार इति बोधः ।बावप्रधानमाख्यात॑मिति निरुक्तकारयास्कवचनात् । क्रियाप्रधानं तिङन्तमिति तदर्थः । एवं च हरिनिष्ठतुष्टनुकूलव्यापाराश्रयो देवदत्त इति प्रथमान्तविशेष्यकबोधस्तार्किकसंमतो नादर्तव्य इति मञ्जूषादौ प्रपञ्चितम् । अबिहिते त्विति । ‘हरिः सेवय्ते’ इत्यादा॑विति शेषः । प्रथमैवेति । तद्विधावनभिहिताधिकाराऽभावात्अबिहिते प्रथमे॑ति वार्तिकाच्चाति भावः । अत्र भाष्येकटं करोति भीष्ममुदारं दर्शनीयं शोभन॑मित्यत्र कटशब्दादुत्पाद्यमानया द्वितीयया कर्मणोऽभिहितत्वाद्भीष्मादिभ्यो द्वितीया न प्राप्नोतीत्याशङ्क्यतिङ्कृत्तद्धितसमासैरबिधान॑मिति परिगणितम् । तत्रप्रायेणे॑त्यध्याह्मत्याह — अभिधानं चेति ।समासै॑रित्यनन्तरंविवक्षित॑मिति शेषः । तिङिति । अविभक्तिकनिर्देशोऽयं तिङभिधानप्रधर्शनाय । हरिः सेव्यत इति ।लः कर्मणी॑ति कर्मणि॑ लकारः । ‘भावकर्मणोः’ इत्यात्मनेपदम् । तिङन्तेनाऽभिहितत्वाद्धरेः कर्मणो न द्वितीयेति भावः । हरिं भजतीति वाक्यार्थः । कर्तृकर्मलकारयोरेकरूप एव वाक्यार्थबोध इति वैयाकरणसमयः । कृदिति । तिङितिवदयमप्यविभक्तिकनिर्देशस्तदुदाहरणसूचनाय । लक्ष्म्या सेवित इति ।हरि॑रिति शेषः । भूते कर्मणि क्तः , कर्तरि तृतीया । लक्ष्मीनिष्ठपरिचरणजनिततुष्टआश्रयो हरिरिति बोधः । सत्त्वप्रधानानि नामानीति यास्कस्मृतिमनुरुध्य प्रातिपदिकेषु प्रथमान्तोपात्तविशेष्यक बोधस्यैव सर्वसंमतत्वात् । अत्र सेवितहरेः कर्मणः कृता अभिहितत्वान्न द्वितीया । तद्धितेति । अयमप्यविभक्तिकनिर्देशस्तदुदाहरणसूचनाय । शत्य #इति । पटादिरिति शेषः । ‘शताच्च ठन्यतावशते’ इति यत्प्रत्ययस्तद्धितः । अत्र कर्मणस्तद्धितेनोक्तत्वान्न द्वितीया । समासेति । अयमप्यविभक्तिकनिर्देशस्तदुदाहरणसूचनाय । प्राप्तानन्द इति । देवदत्तादिरिति शेषः ।गत्यर्थाकर्मके॑त्यादिना प्राप्तेति कर्तरि क्तः । अन्यपदार्थस्य कर्मणो बहुव्रीहिसमासेनाभिहितत्वान्न द्वितीयेति भावः । आनन्दकर्तृकप्राप्तिकर्मीभूत इति बोधः ।प्रायेणे॑त्यस्य फलं दर्शयति-क्वचिदिति ।विषवृक्षो ।पी॑तिअसाम्प्रत॑मित्यत्रान्वेति ।संबध्र्ये॑त्यत्रछेत्तु॑मित्यत्र चान्वये द्वितीयापत्तेः । तत्रत्वर्थाद्विषवृक्षमिति गम्यते । न सांप्रतमिति विग्रहे नञ्तत्पुरुषः । युज्यत इत्यर्थ इति । युजिर्योगे कर्मणि लकारः । औचित्या न युज्यते । औचित्ययुक्तो न भवतीति यावत् ।युक्ते द्वे साम्प्रतं स्थाने॑ इत्यमरः । अत्र वृक्षस्य कर्मणो निपातेनाभिहितत्वान्न द्वितीयेति भावः । वस्तुतस्तुछेत्तु॑मिति तुमुन्नत्र दुर्लभः ।कृष्णं द्रष्टुं याती॑त्यत्रेव क्रियार्थक्रियोपपदत्वाऽभावेनतुमुन्ण्बुलौ क्रियायां क्रियार्थाया॑मित्यस्याऽप्रवृत्तेः ।शकधृषे॑त्यादिनापि तुमुन्न, शकादियोगाऽभावात् । किंतु ‘इच्छार्थेषु’ इत्यनुवृत्तौसमानकर्तृकेषुतुमुन्, इति तुमुन् । अक्रियार्थोपपदत्वेऽपि तस्य प्रवृत्तेः । यथाइच्छति भोक्तु॑मित्यादि । एवंच तुमुनः साधुत्वाय इष्यत इत्यध्याहार्यम् । विषवृक्षोऽपि संबध्र्य छेत्तुमिष्यत इति यत्तदसांप्रतम्ायुक्तमित्यर्थः । एवं चात्रापि तिङाभिहितत्वादेव द्वितीयानिवारणात्तिङ्कृद्धितसमासैरभिधानमिति परिगणनवार्तिकेप्रायेणे॑त्यध्याहारो विफल इति शब्देन्दुशेखरे स्थितम् । पक्वमोदनं भुङ्क्त इत्यत्र तु पचिभुजिक्रियानिरूपिते द्वे कर्मत्वशक्ती । तत्र गुणभूतपचिनिरूपितकर्मत्वशक्तेः क्तप्रत्ययाभिहितत्वेऽपि प्रधानभूतभुजिक्रियानिरूपितामनभिहितां कर्मत्वशक्तिमादाय द्वितीया निर्बाधेति भाष्ये स्पष्टम् । ननु यथाबहुपटु॑रित्यादौ तद्धितेन बहुच्प्रत्ययेन उक्तत्वात्कल्पबादयो न भवन्ति तथा ‘क्रियते कट’ इत्यादावपि तिङादिभिरुक्तत्वाद्द्वितीयादयो न भविष्यन्ति,उक्तार्थानामप्रयोगः॑ इति न्यायात् । किंचकटं करोती॑त्यादौ सावकाशा द्वितीया ‘कृतः कटः’ इत्यादौ न भवत्येव, अनवकाशया प्रथमया बाधात् । नच वृक्षः प्लक्ष इत्यादिः प्रथमाया अवकाश इति वाच्यं, तत्र गम्यमस्तिक्रियां प्रति कर्तृत्वेन तृतीयाप्रसङ्गात् । अस्तु वा तत्र प्रथमाया अवकाशः, तथाप्युभयोः सावकाशत्वे परत्वात्प्रथमैव स्यात् । एवं चानभिहीताधिकारो व्यर्थ इति चेत्, मैवम्-॒कर्मणि द्विताये॑त्यादीनांद्व्येकयोर्द्विवचनैकवचने॑बहुषु बहुवचन॑मित्यनयोश्चएकवाक्यतया कर्मणि यदेकत्वं द्वित्वं बहुत्वं वा तत्र एकद्विबहुवचनानीति लभ्यते । तत्रअनभिहिते॑इत्यारम्भे अनभिहिते कर्मणि यदेकत्वं तत्र द्वितीयेत्येवमर्थः स्यात् ।अनभिहिते॑इत्यभावे तु कर्मणि यदेकत्वं तत्र द्वितीयैकवचनमित्येव पर्यवस्येत् । तथा सति ‘कृतः कट’ इत्यादौ क्तेन कर्ममात्रोक्तावपि तदेकत्वस्यानुक्ततया द्वितीयैकवचनं दुर्वारं स्यात् । न च प्रथमाया निरवकाशत्वं शङ्क्यं, नीलमिदं नतु रक्तमित्यादौ विशेषणान्तरनिवृत्तितात्पर्यकेऽस्तिक्रियाया अनावश्यकत्वेन तत्र प्रथमायाः सावकाशत्वात् । नापि तत्र परत्वात्प्रथमैव भविष्यतीति वाच्यं, ‘कर्तव्यः कटः’ इत्यादौ ततोऽपि परत्वेन कृद्योगलक्षणषष्ठीप्रसङ्गात् । एवं च संख्या विभक्त्यर्थ॑ इत्याश्रीयते, तदा कारकस्य क्तप्रत्ययादिनोक्तत्वान्न द्वितीयादिविभक्तिप्रसक्तिः । एकत्वादिसङ्ख्याबोधश्च प्रातिपदिकार्थमात्रे प्रवृत्तया प्रथमयैव सम्भवति । अतः ‘अनभिहिते’ इति नारब्धव्यमिति भाष्यकैयटकौस्तुभादिषु स्पष्टम् । अतिविस्तरस्तु मञ्जूषायामनुसन्धेयः ।

Tattvabodhini

कर्मणि द्वितीया - हरिं भजतीति । भजनक्रियया हरौ प्रीतेरुत्पादात्प्रीतिविशिष्टतया कियाव्याप्यत्वेन हरिः कर्म, तद्विशिष्टं भजनं वाक्यार्थः । हरिनिष्ठप्रीत्यनुकूल एकद्वदत्तादिनिष्ठो वर्तमानो व्यापार इति निष्ष्टोऽर्थः ।हरिः सेव्यत॑इत्यत्राप्येवमेव,क्रियाप्रधानमाख्यातम्इति सिद्धान्तात् । धातूपस्थिता क्रिया तिङ्र्थं प्रति विशेष्या, न तु कृदर्थं प्रतीव विशेषणमिति हि तस्यार्थः । अतएवपाचको व्रजती॑तिवत्पचति व्रजतीति नैकं वाक्यम् । पाककर्तृकर्तृकं गमनं हिपाचको व्रजतो॑त्यस्यापर्थः । एककर्तृका पचिक्रिया, एक कर्तृका गमिक्रियेति पचतिव्रजत्योः पृथगेवाऽर्थः । एवं च प्रथमान्तविशेष्यको बोध इति नैयायिकोद्धोषो भाष्याद्यनुसारिभिर्नादर्तव्यः । तन्मते हि पाककर्ता व्रजनानुकूलकृतिमानितिपाचको व्रजती॑त्यस्यार्थः । पचतिव्रजत्योस्तु पाकानुकूला कृतिव्र्रजतीत्यर्थ इत्येवं रूपेण वाक्यार्थपर्यवसानात्, तस्य च भाष्यादिग्रन्थविरोधात् । किञ्च हरिं भजति देवदत्तः, हरि सेव्यते देवदत्तेनेत्यत्र चैकरूप एव शाब्दबोध इत्युक्तम् । नैयायिकानां मते तु भिद्यत एव,हरिनिष्ठप्रीत्यनुकूलकृत्याश्रयो देवदत्तः॑देवदत्तनिष्ठकृतिजन्यप्रीत्याश्रयो हरि॑रित्युभयत्र भेदेन वाक्यार्थपर्यवसानात् । तस्मात्प्रथमान्तविशेष्यकबोधोभाष्याद्यनुसारिभिर्नादर्तव्य एव । यास्कोऽप्याह — — ॒भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि॑इति ।पश्य मृगो धावती॑त्यादौ तु भृगकर्तृकं गमनं दृशिक्रियैव । उक्तं च -॒सुबन्तं हि यथाऽनेकं, तिङ्न्तस्य विशेषणम् । तथा तिङन्तमप्याहुस्तिङन्तस्य विशेषणम्इति । न च लौकिकप्रयोगेषु तिङन्तस्य कतिङन्तविशेषणत्वं दुर्लभमिति मन्तव्यम् ।पुरीमवस्कन्द लुनीहि नन्दनम्इति माघश्लोकस्य पुर्यवस्कन्दननन्दनलवनादिरूपा अस्वास्थ्यक्रियेत्यर्थ इतिसमुच्चयेऽन्यतरस्याम्इति सूत्रे मूले स्फुटीभविष्यमाणत्वात् । एवं चपचति — भवती॑त्यस्य पचिक्रिया भवतीत्यर्थो भाष्यमते बोध्य इति दिक । अभिहिते त्विति । नन्वेवंपक्वमोदनं भुङ्क्ते॑इत्यत्रापि द्वितीया न स्यादिति चेत् । मैवम् । इह हि पाचेभुजिनिरूपिते द्वे कर्मत्वशक्ती, तत्र प्रधानभूतभुजिक्रियानिरूपितामनभिहितां शक्तिमादाय द्वितीयत्पत्तेः । अतएवआसने आस्ते॑इत्यत्र सप्तमी सङ्गच्छते । ल्युटाऽधिकरणत्वस्योक्तत्वेऽपि तिङन्तोपस्थाप्यक्रियानिरूपिताधिकरणत्वस्यानुक्तत्वात् । शत्य इति ।शताच्च ठन्यताशते॑इति यत् । प्राप्तानन्द इति । इहगत्यर्थाकर्मके॑ति कर्तरि क्तः । आनन्दकर्तृकप्राप्तिकर्मीभूतैत्यर्थः । यदुक्तंप्रायेण॑ति तस्य फलमाह — क्वचिन्निपातेनेति । विषवृक्ष इति ।संवध्र्ये॑त्यत्रछेत्तुमित्यत्र चार्थद्विषवृक्षमिति गम्यत इत् ध्येयम् । युज्यत इत्यर्थ इति । एतेन निपातानां द्योतकत्वमेवेति नियमो नास्तीति ध्वनितम् । तथा युक्तम् । तथेत्युक्ते कथं युक्तमिति जिज्ञासायामाह — ।

Padamanjari

कर्मणि द्वितीया॥

Nyaas

द्वितीया तिङविभक्तिरप्यस्तीति तस्या अप्यत्र ग्रहणमिति कस्यचिदाङ्का स्यात्, अतस्तन्निराकर्तुमाह - द्वितीयादयः शब्दाः इत्यादि। कर्मशब्देनेह साधनं कर्म गृह्रते, न तु क्रियाकर्म। तथा हि - ये विभक्त्यर्था एकत्वादयस्तेषां विशेषणत्वेनैव कर्मादयोऽनुक्रंस्यन्ते। न च क्रियाकर्मणि द्वित्वबहुत्वे स्तः; साधनकर्मणि तु विद्येते, तस्मात् तस्यैव ग्रहणं युक्तम्, नेतरस्य।उभसर्वतसोः`इत्यादि। उभसर्वशब्दयोस्तसिप्रत्ययान्तयोः प्रयोगे द्वितीयाविभक्तिः कार्याः। शेषलक्षणायां षष्ठआं प्राप्तायामयमारम्भः। उभसर्वतसोरित्यत्र यद्युप्यभशब्दः पठितस्तथापि सामर्थ्यादुभयशब्दो गृह्रते; साधम्र्यात्। न ह्रुभशब्दस्तसिप्रत्ययान्तोऽस्ति; तस्य नित्य्दविवचनटाब्विषयत्वात्। तथा चोक्तम् - `अन्यभावो नि#एत्यद्विवुचनटाब्विषयत्वादुभयोऽन्यत्र (1.1.28-वा।8,9) इति। उभयतः, सर्वतः इति। पञ्चम्यास्तसिल् (5.3.7) । धिक्शब्दयोगेऽपि द्वितीया कार्या। तथोपर्यादिषु त्रिषु योगे द्वितीया कार्या। आम्रेडितान्तेषु`इति। कृतद्विर्वचनेष्वित्यर्थः। `उपर्युयरि ग्रामम् इत्यादौ उपर्यध्यधसः सामीप्ये (8.1.7) इति द्विर्वचनम्। ततोऽन्यत्रापि दृश्यते इति। यथोक्तादन्यत्रापि दृश्यते द्वितीयेति सम्बन्धः। क्व चान्यत्र दृश्यत इत्यत आह - अभितः इत्यादि। प्रयभिभ्याञ्च (5.3.9) इति तसिः। अपिशब्दो विकल्पार्थः। अपि दृश्यतेऽपि न दृश्यतेच। तेन हा तात हा मातरित्यादि सिध्यति॥

Praudhamanorama

हरिं भजतीति। भजनक्रियया हरौ प्रीतेरुत्पादात् प्रीतिविशिष्टतया क्रियाव्याप्यत्वेन हरिः कर्म। तद्विशिष्टं भजनं वाक्यार्थः। ‘हरिः सेव्यते’ इत्यत्राप्येवमेव, ‘क्रियाप्रधानमाख्यातम्’ इति सिद्धान्तात्। धातूपस्थिता क्रिया तिङर्थं प्रति विशेष्या, न तु कृदर्थं प्रतीव विशेषणमिति हि तस्यार्थः। अत एव पाचको व्रजति इतिवत् पचति व्रजतीति नैकं वाक्यम्। पाककर्तृकर्तृकं गमनं हि पाचक इत्यादेरर्थः। एककर्तृका पचिक्रिया गमिक्रिया च पचतिव्रजत्योः पृथगेवार्थः। एवं च प्रथमान्तविशेष्यको बोध इति नैयायिकोद्घोषो भाष्याद्यनुसारिभिर्नादर्तव्यः। यास्कोऽप्याह- ‘भावप्रधानमाख्यातं, सत्त्वप्रधानानि नामानि’। पश्य मृगो धावतीत्यादौ तु मृगकर्तृकं गमनं दृशिक्रियायां कर्म, प्रधानं दृशिक्रियैव। उक्तं च— सुबन्तं हि यथाऽनेकं तिङन्तस्य विशेषणम्। तथा तिङन्तमप्याहुस्तिङन्तस्य विशेषणम्॥ इति। एवं पचति भवतीत्यस्य पचिक्रिया भवतीत्यर्थः। अयं तु विशेषः— तिङन्तोपस्थितायाः क्रियायाः क्रियान्तरं प्रति विशेषणत्वेऽपि शब्दाध्याहारवादे कर्मत्वं संसर्ग एव, न तु प्रकारः; अपदार्थत्वात्। अर्थाध्याहारवादे तु प्रकारत्वेऽपीष्टापत्तिः। पचतीत्यादौ धातूपात्तफलस्यापीत्थमेव मतभेदेन व्यवस्था। अत एव तत्समानाधिकरणे ‘शोभनं पचति’ इत्यादौ द्वितीयैकवचनोत्पत्तिः, ‘अग्निष्टोमेन यजेत’ इत्यादौ तृतीयोत्पत्तिप्रसङ्गश्च सङ्गच्छते। न च दृष्टान्ते विशेष्यसमर्पकाद्दार्ष्टान्तिके विशेषणसमर्पकाच्च कर्मत्वादिवचिकायाः सुब्विभक्तेः प्रयोगोऽस्त्विति वाच्यम्? धातुतिङन्तयोरप्रातिपदिकत्वात्। नैयायिकानां तु स्यादेष दोषः। तथा हि धावन्तं मृगं पश्येतिवत् धावति मृगमित्यपि स्यात्। न चाप्रथमासामानाधिकरण्ये शतृशानचोर्नित्यत्वान्नैवं प्रयोग इति वाच्यम्? एवमपि द्वितीयानुत्पत्तेर्दुरुपपादत्वात्। ननु तत्र वाक्यभेद एव, पश्येत्यत्र तमिति कर्माध्याहारात्। पचति भवतीत्यादि तु पाको भवतीत्याद्यर्थेऽनिष्टमेवेति चेत्? मैवम्, अध्याहारे गौरवात्, तस्य च मुनिवचनविरोधेनाप्रामाणिकत्वात्, त्वदीयानिच्छामात्रस्याकिञ्चित्करत्वात्। अपि च ‘अपक्षीद्देवदत्तोऽवेहि’ इत्यादौ शत्रादेः प्रसङ्ग एव नास्ति। एकवाक्यत्वं च भाष्यवार्तिकादिसकलसम्मतम्। न च तिङन्तस्थले क्रियाविशिष्टक्रियान्तरबोधे जायत एवेति वाच्यम्? तथैव व्युत्पन्नानां तादृशबोधस्य दुर्वारत्वात्। ईदृशेऽर्थे साधुत्वं नेष्टमित्यपि न, साधुत्वानुशासनार्थं प्रवृत्तैरेव तस्य स्वीकारात्, धातुसम्बन्धाधिकरव्युत्पादिते ‘पुरीमवस्कन्द’ इत्यादौ तस्यावश्यकत्वाच्च। ननु सिद्धान्ते आख्यातवाच्यक्रियाया अपि कर्तृत्वकर्मत्वस्वीकारे तस्या असत्त्वरूपत्वं भज्येतेति चेत्? न, लिङ्गसंख्ययोः कर्तृकर्मेतरकारकस्य चाभावमात्रेण तथात्वोपपत्तेः, कर्मत्वस्य प्रकारतयाऽनभ्युपगमाद्वेत्यन्यत्र विस्तरः। अभिहिते त्विति। नन्वेवं ‘पक्वमोदनं भुङ्क्ते’ इत्यत्रापि द्वितीया न स्यादिति चेत्? मैवम्, इह हि पचिभुजिनिरूपिते द्वे कर्मत्वशक्ती, तत्र प्रधानक्रियानिरूपितामनभिहितां शक्तिमादाय द्वितीयोत्पत्तेः। उक्तं च हरिणा— प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक्। शक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते॥ प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते। यदा गुणे तदा तद्वदनुक्ताऽपि प्रतीयते॥ इति। अत एव ‘पक्त्वौदनो भुज्यते’ इत्यत्र भुजिप्रत्ययेनाभिहिते प्रथमैव, पचेरप्राधान्यात्। वस्तुतस्तु ‘पक्त्वा भुज्यते’ इत्यादौ कर्मणः पचिभुजिभ्यां युगपच्छाब्दोऽन्वयः, किं त्वन्यतरेण शाब्दोऽपरेणार्थः। तत्र च प्रथमाद्वितीये व्यवस्थिते एव। तद्यथा—पक्त्वा भुज्यते ओदनः। किं पक्त्वा? अर्थादोदनम्। यदा तु ओदनं पक्त्वा भुज्यते इति प्रयुज्यते तदा भुज्यत इत्यत्रार्थादोदन इति गम्यते। एवं च विवक्षाभेदेन ‘पूजयितुं शक्यते हरिर्हरिं वा’ इत्युभयं साधु। प्राप्तानन्द इति। आनन्दकर्तृकप्राप्तिकर्मीभूत इत्यर्थः। यदुक्तं प्रायेणेति, तस्य फलमाह— विषवृक्ष इति। यदि तु वर्धिच्छिद्योरन्यतरेण सह कर्मतयाऽन्वयो विवक्ष्यते, तदा द्वितीया स्यादेवेति ध्येयम्।

Prakriyasarvasvam

तिङादिभिरनुक्ते कर्मणि द्वितीया स्यात् । <karika>त्रिविधं कर्म निर्वर्त्यविकार्यप्राप्यभेदतः । कटं करोति तक्ष्णोति वृक्षमादित्यमीक्षते ।। ५०२ ।।</karika> तिङायुक्ते तु कर्मत्वे प्रातिपदिकार्थे प्रथमैव । तिङोक्ते कृष्णः सेव्यते । कृता–कृष्णः सेवितः । तद्धितेन–पाणिनीयो ग्रन्थः । अत्र ग्रन्थस्य प्रोच्यमानत्वेन कर्मत्वेऽपि तस्यार्थस्य तद्धितोक्तत्वान्न द्वितीया । समासेन–आश्रिता देवा यं स आश्रितदेवः कृष्णः । क्वचिन्निपाताभिहितेऽपि न । कृष्ण इति त्वां जाने ।।

Vartika

उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु । द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते ।

Sutra Prayogas

  • पर्णशालाम् (रघुवंशम्): कर्मणि द्वितीया इति द्वितीया विभक्तिः।

  • विषवृक्षोऽपि (कुमारसम्भवम्): कर्मणि द्वितीया (तथा अनभिहिते) इति वचनात् अत्र निपातेन कर्मणः उक्तत्वात् द्वितीया न भवति।

  • गुरुम् (किरातार्जुनीयम्): अभितःपरितः इत्यादिना वार्त्तिकेन द्वितीया।

  • कचकं (शिशुपालवधम्): अभितःपरितः (वा०) इत्यादिना द्वितीया।

  • निकेतान् (शिशुपालवधम्): अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि (वार्तिक) इति द्वितीया।