23010: पञ्चम्यपाङ्परिभिः¶
Padacheda: पञ्चमी | S | 1 | 1 |
अप-आङ्-परिभिः | S | 3 | 3 |
Sutrartha¶
Vasu English Summary¶
The 5th case-affix (Ablative) is used when a word is governed by the following कर्मप्रवचनीयाः (1.4.83) i.e. अप , आङ् and परि।
Vasu English Translation¶
The 5th case-affix (Ablative) is used when a word is governed by the following कर्मप्रवचनीयाः (1.4.83) i.e. अप , आङ् and परि। Ex. अप or आ or परि पाटलिपुत्रादावृष्टो देवः ‘It rained off or upto or with the exclusion of, Pataliputra.’
The परि here has the meaning of ‘exclusion’ (1.4.88) being read along with अप, therefore, not here वृक्षं परि विद्योतते विद्युत् (1.4.90).
Kashika¶
अप आङ् परि इत्येतैः कर्मप्रवचनीयैर्योगे पञ्चमी विभक्तिर्भवति। अप त्रिगर्तेभ्यो वृष्टो देवः। आ पाटलिपुत्राद् वृष्टो देवः। परिपरि त्रिगर्तेभ्यो वृष्टो देवः। अपेन साहचर्यात् परेर्वर्जनार्थस्य ग्रहणम्। तेनेह न भवति — वृक्षं परि विद्योतते विद्युत्॥
Siddhanta Kaumudi¶
एतैः कर्मप्रवचनीयैर्योगे पञ्चमी स्यात् । अप हरेः, परि हरेः संसारः । परिरत्र वर्जने । लक्षणादौ तु हरिं परि । आमुक्तेः संसारः । आसकलात् ब्रह्म ॥
Balamanorama¶
पञ्चमी अपाङ्परिभिः - पञ्चम्यपाङ्परिभिः । एतैरिति । अप आङ् परि-इत्येतैरित्यर्थः । कर्मप्रवचनीयैरिति ।कर्मप्रवचनीययुक्ते॑ इत्यतस्तदनुवृत्तेरिति भावः । अप हरेः परि हरेः संसार इति । अपहरेः संसारः, परिहरेः संसार इत्यन्वयः । हरिं वर्जयित्वा जनिमृतिचक्रात्मकं संसरणमित्यर्थः । ननुवृक्षं प्रति विद्योतते॑, ‘भक्तो हरिं प्रति’ इत्यादौलक्षणेत्थंभूते॑ति कर्मप्रवचनीयत्वात्कर्मप्रवचनीययुक्ते द्वितीया॑ इति द्वितीयां परत्वादपवादत्वाच्च बाधित्वापञ्चम्यपाङ्परिभि॑रिति पञ्चमी स्यादित्यत आह — परिरत्रेति ‘पञ्चम्यपाङ्परिभिः’ इत्यत्र वर्जनार्थकेनाऽपेन साहचर्यात् परिरपि वर्जनार्थकं एव गृह्रत इत्यर्थः । आ मुक्तेरिति । मुक्तेः प्रागिति यावत् । आ सकलादिति । ब्राहृ सकलमभिव्याप्य वर्तत इत्यर्थः ।
Tattvabodhini¶
पञ्चमी अपाङ्परिभिः - परिहरेरिति । हरिं वर्जयित्वेत्यर्थः ।परेर्वर्जने वा वचनम् इति वार्तिकात्पक्षे द्विर्वचनाऽभावः । परिरत्रेति । अत्र=पञ्चमीविधौ । वर्जनार्थेनाऽपेन साहचर्यादिति भावः । आ मुक्तेरिति । मुकिंत मर्यादीकृत्येत्यर्थः । आ सकलादिति । सकलमभिव्याप्येत्यर्थः ।
Nyaas¶
अपपरिशब्दयोः अपपरी वर्जने (1.4.88) इत्यनेन कर्मप्रवचनीयसंज्ञा विहिता, आङश्च आङ् मर्यादावचने (1.4.89) इत्यनेन। वृक्षं परि विद्योतते इति। परिः लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः (1.4.90) इत्यादिना॥
Praudhamanorama¶
परि हरेरिति। ‘परेर्वर्जने वा वचनम्’ इतिवार्तिकात्पक्षे द्विर्वचनाभावः। परिरत्रेति। अत्र पञ्चमीविधौ वर्जनार्थेनापेन साहचर्यादिति भावः।
Prakriyasarvasvam¶
एतैः कर्मप्रवचनीयैर्योगे पञ्चमी स्यात् । अप ग्रामात् सेना स्थिता । परि ग्रामात् । आ समुद्रात् क्षितिः । आ कोलेभ्यः केरळाः ॥
Sutra Prayogas¶
अपलोकेभ्यो (भट्टिकाव्यम्): पञ्चम्यपाङ्परिभिः इति पञ्चमी।