23016: नमःस्वस्तिस्वाहास्वधालम्वषड्योगाच्च¶
Padacheda: नमः-स्वस्ति-स्वाहा-स्वधा-अलम्-वषट्-योगात् | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The 4th case-affix is used in conjunction with the words नमः ‘salutation’, स्वस्ति ‘peace’, स्वाहा , स्वधा (terms used in offering oblations to Gods and पित्रि-s, respectively), अलम् , ‘a match for’, ‘sufficient for’ and वषट् , a term for oblation.
Vasu English Translation¶
The 4th case-affix is used in conjunction with the words नमः ‘salutation’, स्वस्ति ‘peace’, स्वाहा , स्वधा (terms used in offering oblations to Gods and पित्रि-s, respectively), अलम् , ‘a match for’, ‘sufficient for’ and वषट् , a term for oblation. Ex. नमो देवेभ्यः, स्वस्ति प्रजाभ्यः, स्वादाऽग्नये, स्वधा पितृभ्यः, अलं मल्लो मल्लाय ‘Salutation to Gods’; ‘peace to the people’; ‘svaha to fire’; ‘svadha to the Pitris’; ‘an athlete is a match for an athlete’ &c. The word अलं includes its synonyms also, as प्रभुः, शक्तः &c.; so वषडिन्द्राय, वषडग्नये.
The च indicates that the Dative will debar Genitive, in spite of (2.3.73), in the case of these words, though used benedictivley; as स्वस्ति गोभ्यो भूयात् ॥
Bhashya¶
नमः स्वस्तिस्वाहास्वधालंवषड्योगाच्च 474 (304 उपपदचतुर्थीसूत्रम् ॥ 2.3.1 आ 12) (अनिष्टवारणाधिकरणम्) (1489 विकल्पवारणवार्तिकम् ॥ 1 ॥) - स्वस्तियोगे चतुर्थी कुशलार्थैराशिषि वाविधानात् - (भाष्यम्) स्वस्तियोगे चतुर्थी कुशलार्थैराशिषि वाविधानाद् भवति विप्रतिषेधेन। स्वस्तियोगे चतुर्थ्या अवकाशः - स्वस्ति जाल्माय स्वस्ति वृषलाय। कुशलार्थैराशिषि वाविधानस्यावकाशः - अन्ये कुशलार्थाः - कुशलं देवदत्तस्य कुशलं देवदत्ताय। इहोभयं प्राप्नोति - स्वस्ति गोभ्यः स्वस्ति ब्राह्मणेभ्य इति। चतुर्थी भवति विप्रतिषेधेन ॥ (1490 नियमवार्तिकम् ॥ 2 ॥) - अलमिति पर्याप्त्यर्थग्रहणम् - (भाष्यम्) अलमिति पर्याप्त्यर्थग्रहणं कर्तव्यम्। इह माभूत् - अलं कुरुते कन्यामिति ॥ अपर आह - अलमिति पर्याप्त्यर्थग्रहणं कर्तव्यम्। इहापि यथा स्यात् - अलं मल्लो मल्लाय, प्रभुर्मल्लो मल्लाय, प्रभवति मल्लो मल्लायेति। नमः स्वस्ति ॥ 16 ॥
Kashika¶
नमः स्वस्ति स्वाहा स्वधा अलं वषट् इत्येतैर्योगे चतुर्थी विभक्तिर्भवति। न॑मो॒ दे॒वे॑भ्यः॒ (मै०सं० १.२.१३)। स्वस्ति प्रजाभ्यः। स्वाहा॒ अ॒ग्नये॒ (तै०सं० १.८.१३.३)। स्व॒धा॑ पि॒तृ॑भ्यः॒ (मै०सं० १.२.१३)। अलं मल्लो मल्लाय। अलमिति पर्याप्त्यर्थग्रहणम्। प्रभुर्मल्लो मल्लाय। शक्तो मल्लो मल्लाय। वषडग्नये। वषडिन्द्राय। चकारः पुनरस्यैव समुच्चयार्थः। तेनाशीर्विवक्षायामपि षष्ठीं बाधित्वा चतुर्थ्येव भवति। स्वस्ति गोभ्यो भूयात्। स्वस्ति ब्राह्मणेभ्यः॥
Siddhanta Kaumudi¶
एभिर्योगे चतुर्थी स्यात् । हरये नमः । [(परिभाषा - ) उपपदविभक्तेः कारकविभक्तिर्बलीयसी] ॥ नमस्करोति देवान् । प्रजाभ्यः स्वस्ति । अग्नये स्वाहा । पितृभ्यः स्वधा । अलमिति पर्याप्त्यर्थग्रहणम् । तेन दैत्येभ्यो हरिरलं प्रभुः समर्थः शक्त इत्यादि । प्रभ्वादियोगे षष्ठ्यपि साधुः । तस्मै प्रभवति (SK1765) स एषां ग्रामणीः (SK1878) इति निर्देशात् । तेन प्रभुर्बुभूषुर्भुवनत्रयस्येति सिद्धम् । वषडिन्द्राय । चकारः पुनर्विधानार्थः । तेनाशीर्विवक्षायां परामपि चतुर्थी चाशिषीति षष्ठीं बाधित्वा चतुर्थ्येव भवति । स्वस्ति गोभ्यो भूयात् ॥
Laghu Siddhanta Kaumudi¶
एभिर्योगे चतुर्थी। हरये नमः। प्रजाभ्यः स्वस्ति। अग्नये स्वाहा। पितृभ्यः स्वधा। अलमिति पर्याप्त्यर्थग्रहणम्। तेन दैत्येभ्यो हरिरलं प्रभुः समर्थः शक्त इत्यादि॥ इति चतुर्थी॥
Balamanorama¶
नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च - नमःस्वस्ति । युज्यत इति योगः । कर्मणि घञ् । ‘नमस्’ इत्यादिभिर्युक्तादित्यर्थः । फलितमाह — एभिर्योगे इति । न च तादथ्र्यचतुथ्र्या गतार्थत्वं शङ्क्यं, तादथ्र्यस्य शेषत्वविवक्षायां षष्ठीनिवारणार्थत्वात् । तादथ्र्यं हि उपकार्योपकारकभावः, तस्य यदा सम्बन्धत्वेन भानं तदा षष्ठी, यतागुरोरिदं गुर्वर्थ॑मिति भाष्ये स्पष्टम् । एवंच नमःस्वस्त्यादियोगे तादथ्र्यस्य शेषत्वविक्षायामपि चतुर्थ्येवेत्येतदर्थमिदं सूत्रम् । ननु नमस्करोति देवानित्यत्रापि चतुर्थी स्यादित्यत आह — उपपदविभक्तेरिति । पदान्तरयोगनिमित्तिका विभक्तिः-उपपदविभक्ति, तदपेक्षया कारकविभक्तिर्बलीयसीत्यर्थः ।अन्तरान्तरेणे॑ति सूत्रे भाष्ये पठितमिदं वचनम् । तच्च न्यायसिद्धम् । क्रियाकारकयोर्हि सम्बन्धः-अन्तरङ्गः । उपपदार्थेन तु यत्किञ्चित्क्रियाकारकभावमूलकः सम्बन्ध इति तन्निमित्ता विभक्तिर्बहिरङ्गेति कैयटः । अन्ये तूपपदविभक्त्या सम्बन्धसामान्यमवगम्यते, विशेषावगमस्तु प्रकरणादिपर्यालोचनया लभ्यः । कारकविभक्त्या तु कर्मत्वादिसम्बन्धविशेषो झटित्येवावगम्यत इति सा बलीयसीत्याहुः । नमस्करोति देवानिति । कारशिरःसंयोगादिना तोषयतीत्यर्थः । करशिरःसंयोगादिमात्रार्थत्वेऽकर्मकत्वापातात् । प्रजाभ्यः स्वस्तीति । प्रजासम्बन्धि कुशलमित्यर्थः । अग्नये स्वाहेति । अग्न्युद्देश्यकं द्रव्यदानमित्यर्थः । पितृभ्यः स्वधेति । पित्तुद्देश्यकं द्रव्यदानमित्यर्थः । स्वं रूपं शब्दस्य॑ इति अलशब्दस्यैव ग्रहणे ‘कुमारीणामलङ्कार’ इत्यत्रातिव्याप्तिः । किंच दैत्येभ्यो हरिरलमित्यत्रैव स्यात्,दैत्येभ्यो हरिः प्रभु॑रित्यादौ न स्यादित्यत आह — अलमितीति । वार्तिकमेतत् । अलमित्यनेन पर्याप्त्यर्थकशब्दानां ग्रहणमित्यर्थः । तेनेति । पर्याप्त्यर्थग्रहणेनेत्यर्थः । इत्यादीति । आदिना ‘कुमारीणामलङ्कार’ इत्यत्रातिव्याप्तिनिराससङ्ग्रहः । ननुप्रभुर्बुभूषुर्भुवनत्रयस्ये॑त्यादौ कथं षष्ठीत्यत आह — प्रभ्वादियोगे षष्ठीति । कुत इत्यत आह — स एषां ग्रामणारात निर्देशादिति । नन्वेवं सतिदैत्येभ्यः प्रभु॑रिति चतुर्थी न स्यात् । अलंशब्दस्तु पर्याप्तीतरार्थक एव भविष्यतीत्यत आह — तस्मै प्रभवतीति । वषडिन्द्रायेति । इन्द्रोद्देश्यकं हविर्दानमित्यर्थः । ननु स्वस्ति गोभ्यो भूयादित्याशीर्वाक्ये चतुर्थ्येवेष्यते । तत्रचतुर्थी॑चाशिष्यायुष्ये॑त्यादिना परत्वात्पक्षे षष्ठीप्रसङ्गः इत्यत आह — चकारः पुनर्विधानार्थ इति । तेनेति । पुनर्विधानसामर्थ्येनेत्यर्थः ।
Padamanjari¶
नमः स्वस्तिस्वाहास्वधालंवषड।लेगाच्च॥ अलमिति पर्याप्त्यर्थग्रहणमिति। अलमित्यर्थग्रहणं तत्रापि पर्याप्तिग्रहणमित्यर्थः। तत्र तावदर्थग्रहणं तस्मै प्रभवतीति निर्देशात्, इह चालं कुरुते कन्यामिति ठुपपदविभक्तेः कारकविभक्तिर्बलीयसीऽ इति द्वितीया भविष्यति। एवमलमोदनेनेत्यत्रापि करणे तृतीया, ओदनेन न किञ्चित्साध्यमित्यर्थावगमात्, तेन भूषणप्रतिषेधयोरग्रहणात्पर्याप्तेरेवग्रहणम्। चकारः पुनरित्यादि। अन्यथा स्वस्तियोगे चतुर्थ्या अवकाशः - स्वस्ति जाल्माय, जाल्मत्वादाशीरभावाद् भूतकथनमेतत्; कुशलार्थैराशिषि चतुर्थी चेत्यस्यावकाशः - अन्ये कुशलार्थाः, कुशलं देवदतस्य कुशलं देवदताय; स्वस्ति गोभ्यो भूयात्, उभयप्रसङ्गे परत्वात्पक्षे षष्ठी स्यात्॥
Nyaas¶
अलमिति पर्याप्त्यर्थस्य ग्रहणम् इति। तस्मै प्रभवति संतापादिभ्यः (5.1.101) इत्यलंशब्दसमानार्थेन प्रभवतिशब्देन योगे चतुर्थीनिर्देशाल्लिङ्गात्। ननु चास्माल्लिङ्गादर्थस्येदं ग्रहणम्, न तु शब्दस्येत्येषोऽर्थः प्रतीयते; न तु पर्याप्त्यर्थस्येत्येषोऽर्थः। तथा च भूषणप्रतिषेदयोरपि ग्रहणं स्यात्। एवञ्च कन्यामलंकुरुते, अलं बाले रोदनेनेत्यादावपि चतुर्थी स्यात्; नैष दोषः; सामर्थ्यात् पर्याप्त्यर्थस्यैव ग्रहणं भविष्यति, कथम्? कन्यामलङकुरुते इत्यत्र उपपदविभक्तेः कारकविभक्तिर्बलीयसी (चां।प।69) इति कर्मणि द्वितीया (2.3.2) इति द्वितीययैव भवितव्यम्। अलं बाले रोदनेन इत्यत्राप्यत एव हेतोः करणे तृतीययैव। अत्र हि रोदनं करणभावमापन्नमेव प्रतिषेधेन सम्बध्यत इति सामर्थ्यात् पर्याप्त्यर्थस्य ग्रहणं सम्पद्यते। चकारः पुनरस्यैव समुच्चयार्थः इति। यदेतन्नमःप्रभृतियोगे चतुर्थीविधानं तत्समुच्चयार्थश्चकारः। तेन पुनर्विध्नात् चतुर्थी चाशिष्यायुष्य (2.3.73) इत्यादिनाशीर्विवक्षायां पक्षे या षष्ठी विधीयते तामपि बाधित्वा चतुर्थ्येव भवति। यद्यवम्, कारकविभक्तिमपि बाधित्वा कन्यामलङ्कुरुते इत्यादौ चतुर्थ्येव स्यात्, ततश्च यदुक्तम्- सामर्थ्यात् पर्याप्त्यर्थस्यैव ग्रहणं भविष्यतीति, तन्नोपपद्यते? नैष दोषः; कारकविभक्तेर्बलीयस्त्वात्, पुनर्विधानस्य चान्यत्र चरितार्थत्वात्। अथ वा - वक्ष्यमाणा विभाषा सिंहावलोकितन्यायेनेहाप्युपतिष्ठते। तेन `कन्यामलङ्कुरुते इत्यादौ चतुर्ती न भवति॥
Praudhamanorama¶
षष्ठ्यपीति कुतःॽ षष्ठ्येवास्तु, अलंशब्दस्तु पर्याप्तीतरार्थक एव गृह्यतामित्याशङ्क्याह—
Prakriyasarvasvam¶
एभिर्योगे चतुर्थी स्यात् । कृष्णाय नम इत्यादि । अलमित्यर्थग्रहः । तेन दैत्येभ्यो हरिरलमितिवत् समर्थः शक्तः प्रभवतीत्याद्यपि । नमस्करोति देवानित्यत्र तु ‘उपपदविभक्तेः कारकविभक्तिर्बलीयसी’ति न्यायात् करोत्यपेक्षया कर्मविभक्तिः । कृष्णाय नमतीत्यादौ तु क्रियया यमभिप्रैतीति सम्प्रदानता ।।
Vartika¶
अलमिति पर्याप्त्यर्थग्रहणम् ।
Sutra Prayogas¶
तृप्त्यै (रघुवंशम्): नमःस्वस्तिस्वाहास्वधालम्वषड्योगाच्च इति अलमर्थयोगे चतुर्थी।
ते (रघुवंशम्): नमःस्वस्तिस्वाहास्वधालम्वषड्योगाच्च इति चतुर्थी।
तुभ्यं (कुमारसम्भवम्): नमःस्वस्तिस्वाहास्वधालम्वषड्योगाच्च इति चतुर्थी।
विशुद्धये (कुमारसम्भवम्): नमःस्वस्तिस्वाहास्वधालम्वषड्योगाच्च इति अलमर्थयोगात् चतुर्थी।
त्वत्कुलोद्भूतये (कुमारसम्भवम्): नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च इति अलमर्थयोगे चतुर्थी।
परितोषाय (कुमारसम्भवम्): नमःस्वस्तिस्वाहास्वधालम्वषड्योगाच्च इति सूत्रेण अलमर्थयोगाच्चतुर्थी।
भवते (किरातार्जुनीयम्): नमःस्वस्तिस्वाहास्वधाअलंवषड्योगाच्च इति सूत्रेण चतुर्थी विभक्तिः।
दिशे (शिशुपालवधम्): नमःस्वस्ति- इत्यादिना चतुर्थी ।
मुदे (शिशुपालवधम्): नमःस्वस्तिस्वाहास्वधालम्वषड्योगाच्च इति अलम्-योगे चतुर्थी।
तिष्ठते (शिशुपालवधम्): नमःस्वस्तिस्वाहास्वधालम्वषड्योगाच्च इति चतुर्थी।
स्वस्ति वो (भट्टिकाव्यम्): नमः-स्वस्ति इत्यादिना चतुर्थी।
रावणाय (भट्टिकाव्यम्): नमःस्वस्तिस्वाहास्वधाअलंवषड्योगाच्च इति चतुर्थी।
अस्मै (भट्टिकाव्यम्): नमः स्वस्ति इत्यत्र अलंशब्दस्य पर्याप्त्यर्थग्रहणात् तदर्थयोगे चतुर्थी।