23012: गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि

Padacheda: गति-अर्थ-कर्मणि | S | 7 | 1 |

द्वितीया-चतुर्थ्यौ | S | 1 | 2 |

चेष्टायाम् | S | 7 | 1 |

अनध्वनि | S | 7 | 1 |

Sutrartha


Vasu English Summary

In the case of roots implying motion, the place which the motion is directed takes the affix of the 2nd (Accusative) or the 4th (Dative) case in denoting the ‘object’, when physical motion is meant and the object is not a word expressing ‘road’.

Vasu English Translation

In the case of roots implying motion, the place which the motion is directed takes the affix of the 2nd (Accusative) or the 4th (Dative) case in denoting the ‘object’, when physical motion is meant and the object is not a word expressing ‘road’. Ex. ग्रामं or ग्रामाय गच्छति ‘he goes to the village.’ But not so in मनसा हरिं व्रजति (the verb not denoting physical motion) ‘he goes mentally to Hari’ अध्वानं गच्छति ‘he goes over the way’ (the object being the ‘way’). But not so in ओदनं पचति ‘he cooks rice;’ (the verb not denoting ‘motion’) nor in अश्वेन व्रजति (the verb not denoting ‘the object.’)

Note.- The word adhvan includes the synonyms of road (1.1. 68) as पन्थानं गच्छति, मार्गं गच्छति.

Note.- The prohibition applies with regard to the going over or occupying the road; so that where a person from a wrong road goes to the right road, there the fourth case-affix will be employed as पथे गच्छति.

Bhashya

गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि 470 302 द्वितीयाचतुर्थीसूत्रम् ॥ 2.3.1 आ.10) (अनुपपत्तिवारणाधिकरणम्) (1480 पर्यायग्राहकवार्तिकम् ॥ 1 ॥) - अध्वन्यर्थग्रहणम् - (भाष्यम्) अध्वन्यर्थग्रहणं कर्तव्यम्। इह मा भूत् - पन्थानं गच्छति, वीवधं गच्छतीति ॥ (1481 नियमवार्तिकम् ॥ 2 ॥) - आस्थितप्रतिषेधश्च - (भाष्यम्) आस्थितप्रतिषेधश्चायं वक्तव्यः। यो ह्युत्पथेन पन्थानं गच्छति, पथे गच्छति इत्येव तत्र भवितव्यम् ॥ (सूत्रप्रयोजनाधिकरणम्) (पूर्वपक्षिणआक्षेपभाष्यम्) किमर्थं पुनरिदमुच्यते?। (समाधानभाष्यम्) चतुर्थी यथा स्यात् ॥ (आक्षेपभाष्यम्) अथ द्वितीया सिद्धा? ॥ (समाधानभाष्यम्) सिद्धा कर्मणि इत्येव ॥ (पूर्वपक्ष्याक्षेपसाधकभाष्यम्) चतुर्थ्यपि सिद्धा ॥ कथम्?। संप्रदाने इत्येव ॥ (आक्षेपबाधकभाष्यम्) न सिध्यति। कर्मणायमभिप्रैति स संप्रदानम् इत्युच्यते। क्रियया चासौ ग्राममभिप्रैति ॥ कया क्रियया?। गमिक्रियया ॥ (पूर्वपक्ष्याक्षेपसाधकभाष्यम्) क्रियाग्रहणमपि तत्र चोद्यते ॥ (सूत्रारम्भे दोषवारणाधिकरणम्) (1482 पूर्वपक्षवार्तिकम् ॥ 3 ॥) - चेष्टायामनध्वनि स्त्रियं गच्छत्यजां नयतीत्यतिप्रसङ्गः - (भाष्यम्) चेष्टायामनध्वनीति स्त्रियं गच्छति अजां नयति इत्यतिप्रसङ्गो भवति ॥ (1483 समाधानवार्तिकम् ॥ 4 ॥) - सिद्धं त्वसंप्राप्तवचनात् - (भाष्यम्) सिद्धं त्वसंप्राप्तवचनात् - (भाष्यम्) सिद्धमेतत् ॥ कथम्?। असंप्राप्ते कर्मणि द्वितीयाचतुर्थ्यौ भवत इति वक्तव्यम् ॥ (1484 लाघवप्रदर्शकवार्तिकम् ॥ 5 ॥) - अध्वनश्चानपवादः - (भाष्यम्) एवं च कृत्वा अनध्वनीत्येतदपि न वक्तव्यं भवति। संप्राप्तं ह्येतत्कर्माध्वानं गच्छतीति ॥ गत्यर्थ ॥ 12 ॥

Kashika

गत्यर्थानां धातूनां चेष्टाक्रियाणां परिस्पन्दक्रियाणां कर्मणि कारकेऽध्ववर्जिते द्वितीयाचतुर्थ्यौ भवतः। ग्रामं गच्छति। ग्रामाय गच्छति। ग्रामं व्रजति। ग्रामाय व्रजति। गत्यर्थग्रहणं किम्? ओदनं पचति। कर्मणीति किम्? अश्वेन व्रजति। चेष्टायामिति किम्? मनसा पाटलिपुत्रं गच्छति। अनध्वनीति किम्? अध्वानं गच्छति ॥ अध्वनीत्यर्थग्रहणम्॥ पन्थानं गच्छति। मार्गं गच्छति॥ आस्थितप्रतिषेधश्चायं विज्ञेयः॥ आस्थितः संप्राप्तः, आक्रान्त उच्यते। यत्र तूत्पथेन पन्थानं गच्छति, तत्र भवितव्यमेव चतुर्थ्या — पथे गच्छतीति। द्वितीयाग्रहणं किम्,न चतुर्थ्येव विकल्प्येत? अपवादविषयेऽपि यथा स्यात्। ग्रामं गन्ता। ग्रामाय गन्ता। कृद्योगलक्षणा षष्ठी न भवति॥

Siddhanta Kaumudi

अध्वभिन्ने गत्यर्थानां कर्मणि एते स्तश्चेष्टायाम् । ग्रामं ग्रामाय वा गच्छति । चेष्टायां किम् ? मनसा हरिं व्रजति । अनध्वनीति किम् ? पन्थानं गच्छति । गन्त्राधिष्ठितेऽध्वन्येवायं निषेधः । यदा तूत्पथात्पन्था एवाक्रमितुमिष्यते तदा चतुर्थी भवत्येव । उत्पथेन पथे गच्छति ॥ इति चतुर्थी ॥

Balamanorama

गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि - गत्यर्थ । शारीरपरिस्पन्दः-चेष्टा । मनसेति । अत्र शारीरचेष्टाया अभावान्न द्वितीयाचतुथ्र्यौ, किन्तु द्वितीयैवेति भावः ।आस्थितप्रतिषेधो वक्तव्यः॑ इति वार्तिकमर्थतः सङ्गृह्णाति-गन्त्राऽधिष्ठिते इति । गन्त्राक्रान्ते अध्वन्येव अनध्वनीत्ययं निषेध इत्यर्थः । यथा-पन्थानं गच्छतीति । पन्थानं प्राप्नोतीत्यर्थः । अत्र पथः प्राप्त्याश्रयत्वेन गन्त्राधिष्ठित्वान्निषेधः । अस्य वार्तिकस्य प्रयोजनमाह-यदा त्विति । उत्पथादिति । अमार्गादित्यर्थः । ल्यब्लोपे पञ्चमी । उज्जयिनीं प्राप्तुं प्रस्थितो मोहात्तन्मार्गात्प्रच्युतो मार्गान्तरं प्रविष्टः । तं परित्यज्य पुनरुज्जयिनीमार्ग आक्रमितुमिष्यते, तदाऽनध्वनीति निषेधाऽभावाच्चतुथ्र्यपि भवत्येवेत्यर्थः । तादृशं लक्ष्यं दर्शयति — उत्पथेन पथे गच्छतीति ।उत्पथेने॑त्यनन्तरं ‘गन्तुमशक्त’ इति शेषः । उत्पथेन उज्जयिनीं प्राप्तुमशक्त उत्पथं परित्यज्य उज्जयिनीमार्गं प्रवेष्टुं तदीयं मार्गमनुसरतीत्यर्थः । अत्र उज्जयिनीमार्गस्य गन्त्राधिष्ठितत्वाऽभावादनध्वनीति निषेधो न भवति, अतश्चतुर्थी भवति, पक्षे द्वितीया चेति भावः । इति चतुर्थी ।

Tattvabodhini

गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि - गत्यर्थकर्मणि । गत्यर्थेति किम् । ओदनं पचति । कर्मणीति किम् । अओन व्रजति ।अनध्वनि॑ इत्यत्राध्वनीति न स्वरूपग्रहणम् । तथा हि सतिअनध्वनः॑ इत्येवाऽवक्ष्यत् । किं त्वर्थग्रहणं, सप्तमीनिर्देशात्, कर्मणीत्यनेन सामानाधिकरण्यात् । अर्थेस्यैव हि कर्मत्वं संभवति न शब्दस्वरूपस्य, तेनाऽध्ववचिनां सर्वेषामेव निषेधः । तथा च वार्तिकम् -अध्वन्यर्थग्रहणमिति । गन्त्राधिष्ठित एवेति ।आस्थितप्रतिषेधो वक्तव्यः॑ इति वार्तिकादिति भावः । आस्थितः — संप्राप्तः । पन्थानां गच्छतीत्यत्र हि पन्थाः प्राप्त एवेति न पक्षे चतुर्थी । यदा त्वप्राप्तत्वेन विवक्षा तदा पक्षे भवत्येव सा । इह अनध्वनीत्यपनीयअसंप्राप्ते॑ इति पूर्यते । तेनस्त्रियं गच्छती॑त्यत्र स्त्री प्राप्तैवेति न चतुर्थी । अत्र व्याचक्षते — ॒अजां नयति ग्राम॑मित्यत्र तु न भवत्येव चतुर्थी, अगत्यर्थत्वात् । आक्षेपादिना ह्यत्र प्रतीयते गतिर्न त्वसौ नयतेरर्थः, प्रापणवाचित्वादिति ।गत्यर्थकर्मणि [चतुर्थी] वा॑ इति वक्तव्ये द्वितीयाग्रहणमपवादविषयेऽपि द्वितीया यथा स्यादित्येतदर्थं, तेनग्रामं गन्ते॑ त्यत्र कृद्योगलक्षणा षष्ठी न भवतीति वृत्तिकृतोक्तम् । इति चतुर्थी ।

Padamanjari

गत्यर्थकर्मणि द्वितीयाचतुथ्याé चेष्टायामनध्वनि॥

Nyaas

यदि क्रियामात्रमिह चेष्टाशब्देनोच्यते तदा चेष्टाग्रहणमपार्थकम्। सर्वो हि धातुः क्रियावचनः। तस्माद्विशेषणं पादानसामर्थ्यात् परिस्पन्दवचनोऽयं चेष्टाशब्दो विज्ञायते, इत्याह - परिस्पन्दक्रियाणाम् इति। परिस्पन्दः = शरीरव्यापारः, सा क्रिया येषां ते तथोक्ताः। अध्वनीत्यर्थग्रहणम् इति। अर्थप्रधानत्वन्निर्देशस्य, सप्तमीनिर्देशाच्च। यदीह स्वरूपग्रहणं स्यात् अनध्वनः इति कुर्यात्। आस्थितप्रतिषेधश्चायं {विज्ञेयः- काशिका।} विज्ञायते इति। येन देशविशेषेण प्राप्यं ग्रामादिकं प्राप्यते स देशविशेषो लोकेऽध्वेति रूढः। केन च प्राप्यं प्राप्यते? यः पन्था आक्रान्तस्तेन। तस्मात् तस्यैवायं प्रतिषेधः। यदा तु स एवोत्पथेन प्राप्यते तदा तस्य पथोऽध्वव्यपदेशो न भवतीति भवत्येव तत्र चतुर्थी। `द्वितीयाग्रहणं किम् इति। कर्मणि कारके चतुर्थ्यां विकल्पितायां पक्षे न्यायप्राप्तैव द्वितीयेति भावः। तत् क्रियते बाधकबाधनार्थम्। अपवादविषयेऽपि यथा स्यात् इति। अथार्थग्रहणं किमर्थम्, न गतिकर्मणीत्येवोच्येत, यावता गतिरर्थ एव? नैतदस्ति; या गतिर्गमिनैव शब्दान्तरसन्निधानाद्यनपेक्षतयोच्यते तत्र यथा स्यात्। पादविहरणात्मिका च या गतिः प्रधानभूता तस्या एवग्रहणं यथा स्यादित्येवमर्थम्। तेनेह न भवति - स्त्रियं गच्छति, अजां ग्रामं नयति। अत्र हि गमेमँथुनमथः स्त्रीशब्दसन्निधानाद्गम्यते, न तु गमेः केवलात्। नयतेश्च प्रापणमेवार्थः प्रदानभूतः, तद्विशेषणन्तु प्रादविहणमप्रधानम्। यद्येवम्,ग्रामं गमयति ग्रामाय गमयतीति णन्ते गुणभूतत्वाद्गमर्न सिध्यति, गमेरत्र प्रेषणाध्येषणादिको ह्रर्थः प्राधान्यमनुगच्छति, नैष दोषः ; न ह्यत्र ग्रामो ण्यन्तस्य कर्म, किं तर्हि? गमेरेव॥

Prakriyasarvasvam

अध्ववर्जिते गत्यर्थकर्मणि चेष्टायां सत्यामेते स्तः । व्रजं व्रजाय वा व्रजति कृष्णः । चेष्टायामित्युक्तेः स्पन्दनाभावे न । मनसा व्रजं व्रजति । अध्वनि तु-मार्गं याति । आस्थितेऽध्वन्येव प्रतिषेधः । उन्मार्गगतो मार्गाय याति ।।

Sutra Prayogas

  • मातामहाऽऽवासमुपेयिवांसं (भट्टिकाव्यम्): गत्यर्थकर्मणि इति चतुर्थी ।

  • पतत्रिभ्यः (भट्टिकाव्यम्): पञ्चमी विभक्ते इति पञ्चमी।

  • मन्दिराय (भट्टिकाव्यम्): गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि इति चतुर्थी।