23011: प्रतिनिधिप्रतिदाने च यस्मात्

Padacheda: प्रतिनिधि-प्रतिदाने | S | 1 | 2 |

च | S | 0 | 0 |

यस्मात् | S | 5 | 1 |

Sutrartha


Vasu English Summary

The 5th case-affix (Ablative) is used after whatsoever is governed by a कर्मप्रवचनीयाः (1.4.83) in the sense of ‘substitute’ or ‘exchange’ – प्रतिः प्रतिनिधिप्रतिदानयोः (1.4.92).

Vasu English Translation

The 5th case-affix (Ablative) is used after whatsoever is governed by a कर्मप्रवचनीयाः (1.4.83) in the sense of ‘substitute’ or ‘exchange’ – प्रतिः प्रतिनिधिप्रतिदानयोः (1.4.92). Ex. अभिमन्युरर्जुनतः प्रति ‘Abhimanyu is the representative of Arjuna.’ माषानस्मैतिलेभ्यः प्रतियच्छति ‘he exchanges mashas for this sesamum.’ See (1.4.92) for an explanation of प्रतिनिधि and प्रतिदान.

Kashika

मुख्यसदृशः प्रतिनिधिः। दत्तस्य प्रतिनिर्यातनं प्रतिदानम्। यस्मात् प्रतिनिधिर्यतश्च प्रतिदानम्, तत्र कर्मप्रवचनीययुक्ते पञ्चमी विभक्तिर्भवति। अभिमन्युरर्जुनतः प्रति। प्रद्युम्नो वासुदेवतः प्रति। माषानस्मै तिलेभ्यः प्रति यच्छति। ननु च प्रतिनिधिप्रतिदाने कर्मप्रवचनीययुक्ते, न तु यतः प्रतिनिधिप्रतिदाने? नैष दोषः, संबन्धसंबन्धात् तस्यापि योगोऽस्त्येव॥

Siddhanta Kaumudi

अत्र कर्मप्रवचनीयैर्योगे पञ्चमी स्यात् । प्रद्युम्नः कृष्णात्प्रति । तिलेभ्यः प्रतियच्छति माषान् ॥

Tattvabodhini

प्रतिनिधिप्रतिदाने च यस्मात् - प्रतिनिधिप्रतिदाने । अस्मादेव निर्देशाल्लिङ्गादाभ्यां योगे पञ्चमी ।ज्ञापकासिद्धं न सर्वत्र॑ इतिकृष्णस्य प्रतिनिधि॑रित्यपि सिद्धमित्याहुः । मुख्यस्याऽभावे सति तत्सदृश उपादीयते स प्रतिनिधिः । देयस्य प्रतिनिर्यातनं प्रतिदानम् । #एअकर्तरि । हेतुभूतमिति ।हेतौ॑इत्यनुवर्तते इथि भावः ।

Padamanjari

प्रतिनिधिप्रतिदाने च यस्मात्॥ यस्मादित्यनेनैव सूत्रैण पञ्चमी। मुख्यसद्दशः प्रतिनिधिरिति। मुख्यः क्व चित्कार्ये रूढः, यश्च तदभावे तत्कार्ये प्रतिनिधीयते स तत्प्रतिनिधिः। कर्मणि ठुपसर्गे घोः किःऽ। एवं प्रतिदानमित्यपि, कर्मण्येवल्युट्। दतस्येति। अथात्रानेनैव सूत्रेण पञ्चमी प्राप्नोति, यथा - यस्मादिति, एवं तर्हि कर्मणि षष्ठी। ननु न दतमेव प्रत्यर्प्यते, किं तर्हि? द्रव्यान्तरम्, सत्यम्; तुल्यमूल्यत्वातदेव प्रत्यपितमिति प्रतिपतिः, प्रतिनिर्यातनमुप्रत्यपंणम्, अत्र भावे ल्युट। यस्मात्प्रतिनिधिरिति। सूत्रवदेव पञ्चमी। एवं यतश्चेत्यत्रापि। उर्जुनतः। प्रतीति। प्रतियोगे पञ्चम्यास्तसिः। अर्जुनो युद्धादौ प्रसिद्धस्तत्सद्दशोऽभिमन्युरित्यर्थः। माषानित्यादि। ये पूर्व गृहीतास्तिलास्तेभ्यो माषाः प्रतिदानम्। संबन्धिसंभबन्धादिति। प्रतिनिधिर्मुख्यमपेक्ष्य भवति, प्रतिदानमपि पूर्वदतम्, ततश्च यस्य कर्मप्रवचनीयस्य प्रतिनिधिप्रतिदानाभ्यां योगस्तस्य ताभ्यामपि मुख्यपूर्वदताभ्यां तद्द्वारको योगोऽस्तीत्यर्थः॥

Nyaas

मुख्यसदृशः प्रतिनिधिः इति। मुख्यो यः कश्चित् कार्ये रूढः = समर्थः, प्रसिद्धः = प्रधानभूतस्तेन सदृशो यस्तदभावे तस्य कार्यस्य सिद्ध्यर्थमुपादीयते स प्रतिनिधिः। अभिमन्युरर्जुनतः प्रति इति। मुख्यादर्जुनादभिमन्युः प्रतिनिधिस्ततः पञ्चमीविभक्तिर्भवति। प्रतियोगे पञ्चम्यास्तसिः। माषानस्मै तिलेभ्यः प्रतियच्छति इति। ये तिलाः पूर्वं दत्तास्तेभ्यो माषाणां प्रतिदानम्। तिलेभ्य इति पञ्चमी भवति। तिलान् गृहीत्वा माषान् ददातीत्यर्थः।ननु च प्रतिः प्रतिनिधिप्रतिदानयोः (1.4.92) इति प्रतेः प्रतिनिधिप्रतिदानरोरेवार्थयोः कर्मप्रवचनीयसंज्ञा, तयोरेव प्रतिना योग उपपद्यते, न तु यतस्ते तस्येति मन्यमान आह - ननु च इत्यादि। सम्बन्धसम्बन्धात् इति। सम्बध्यत इति सम्बन्धः=प्रतिनिधिः, प्रतिदानञ्च, तदुभयमयि कर्मप्रवचनीयेन प्रतिना युज्यते। तेन सम्बन्धेन यः सम्बन्धः स सम्बन्धसम्बन्धः। कस्यपुनस्तेन सम्बन्धः? यतः प्रतिनिधिः प्रतिपादनञ्च तस्य। सम्बन्धिशब्दौ हि प्रतिनिधिप्रतिदानशब्दौ। तौ च नासति पूर्वविज्ञाते मुख्ये पूर्वदत्ते च भवतीति प्रतिनिधिप्रतिदानाभ्यां यस्य सम्बन्धस्तस्य ताभ्यां सम्बन्धोऽस्तीति ते अपि कर्मप्रवचनीयैर्युक्ते भवत इति। क्वचित् सम्बन्धिसम्बन्धात् इति पाठः। तत्रापि प्रतिनिधिः हूतिदानञ्च सम्बन्धिशब्देनोच्यते; तदुभयस्यापि कर्मप्रवचनीयेन सम्बन्धात्। तेन सम्बन्धिना यः सम्बन्धः स सम्बन्धिसम्बन्ध इति स एवार्थः॥

Praudhamanorama

अस्मादेव निर्देशादाभ्यां योगे पञ्चमीत्याहुः। मुख्यस्याऽभावे तत्सदृश उपादीयते स पञ्चमी स्यादिति। तृतीयापवादोऽयम्।

Prakriyasarvasvam

यत्सम्बन्धिनी प्रतिनिधिप्रत्यर्पणे कर्मप्रवचनीयेनोच्येते तस्मात् पञ्चमी स्यात् ॥

Sutra Prayogas

  • नारायणतः (भट्टिकाव्यम्): प्रतिनिधि- प्रतिदाने च यस्मात् इति पञ्चमी।