23005: कालाध्वनोरत्यन्तसंयोगे¶
Padacheda: काल-अध्वनोः | S | 6 | 2 |
अत्यन्त-संयोगे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
After a word denoting time, or length, the affix of the 2nd case is used, when denoting a full duration.
Vasu English Translation¶
After a word denoting time, or length, the affix of the 2nd case is used, when denoting a full duration. मासमधीते ‘he reads for a month,’ ‘he studies full one month,’ मासं कल्याणी ‘prosperous during the month’ (uninterruptedly), संवत्सरं पुष्पाः ‘flowers during the year continually,’ क्रोशं कुटिला नदी ‘the river winding for one kos without any break,’ क्रोशं पर्वतः ‘the hill through one full kos.’ सभा वैश्रवणी राजन् शतयोजनमायता ‘O king the hall of Visravana is 100 yojanas in length.’
The word अत्यन्तसंयोग or ‘full continuity’ means the complete relation of time or space with its action, attribute or substance.
Why do we say ‘atyanta-sanyoga or complete continuity’? Observe मासस्य द्विरधीते or क्रोशस्यैकदेशे पर्वतः ॥
Bhashya¶
कालाध्वनोरत्यन्तसंयोगे 463 (कालवाचकाध्ववाचकाभ्यां विभक्तिनियमप्रकरणम्) (297 द्वितीयासूत्रम् ॥ 2.3.1 आ.5) (कालाध्वनोरुक्ततया प्रथमासाधनाधिकरणम्) (1473 वार्तिकम् ॥ 1 ॥) - अत्यन्तसंयोगे कर्मवल्लाद्यर्थम् - (भाष्यम्) अत्यन्तसंयोगे कालाध्वानौ कर्मवद्भवत इति वक्तव्यम्। किं प्रयोजनम्? लाद्यर्थम्। लादिभिरभिधानं यथा स्यात् - (लादिभिरभिहिते द्वितीया मा भूत्) आस्यते मासः, शय्यते क्रोशः ॥ अथ वत्करणं किमर्थम्?। स्वाश्रयमपि यथा स्यात् - आस्यते मासम्, शय्यते क्रोशम्, अकर्मकाणां भावे लो भवतीति भावे लो यथा स्यात् ॥ (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्?। (समाधानभाष्यम्) न वक्तव्यम्। प्राकृतमेवैतत् कर्म। यथा कटं करोति शकटं करोतीति ॥ (एकदेशिभाष्यम्) एवं मन्यते - यत्र कश्चित्क्रियाकृतो विशेष उपजायते, तन्न्याय्यं कर्मेति। न चेह कश्चित्क्रियाकृतो विशेष उपजायते ॥ (सिद्धान्तिभाष्यम्) नैवं शक्यम्। इह हि दोषः स्यात् - आदित्यं पश्यति, हिमवन्तं शृणोति, ग्रामं गच्छतीति। तस्मात्प्राकृतमेवैतत्कर्म। यथा - कटं करोति, शकटं करोतीति ॥ (आक्षेपभाष्यम्) यदि तर्हि प्राकृतमेवैतत्कर्म, अकर्मकाणां भावे लो भवतीति भावे लो न प्राप्नोति - आस्यते मासं देवदत्तेनेति? ॥ (तृतीयाक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्? ॥ (समाधानभाष्यम्) न वक्तव्यम्। अकर्मकाणामित्युच्यते। न च केचित्कालभावादिभिरकर्मकाः। त एवं विज्ञास्यामः - क्वचिद्ये अकर्मका इति ॥ अथ वा येन कर्मणा सकर्मकाश्चाकर्मकाश्च भवन्ति तेनाकर्मकाणाम् न चैतेन कर्मणा कश्चिदप्यकर्मकः ॥ अथ वा यत्कर्म भवति, न च भवति, तेनाकर्मकाणाम् न चैतत्कर्म क्वचिदपि न भवति ॥ (सूत्रस्थापनाधिकरमम्) (आक्षेपभाष्यम्) न तर्हीदानीमिदं सूत्रं वक्तव्यम्? ॥ (समाधानभाष्यम्) वक्तव्यं च ॥ किं प्रयोजनम्?। यत्राक्रिययात्यन्तसंयोगः तदर्थम् - क्रोशं कुटिला नदी, क्रोशं रमणीया वनराजिः ॥ कालाध्वनोः ॥ 5 ॥
Kashika¶
कालशब्देभ्योऽध्वशब्देभ्यश्च द्वितीया विभक्तिर्भवत्यत्यन्तसंयोगे गम्यमाने। क्रियागुणद्रव्यैः साकल्येन कालाध्वनोः संबन्धोऽत्यन्तसंयोगः। मासमधीते। संवत्सरमधीते। मासं कल्याणी। संवत्सरं कल्याणी। मासं गुडधानाः। संवत्सरं गुडधानाः। अध्वनः खल्वपि — क्रोशमधीते। योजनमधीते। क्रोशं कुटिला नदी। योजनं कुटिला नदी। क्रोशं पर्वतः। योजनं पर्वतः। अत्यन्तसंयोग इति किम्? मासस्य द्विरधीते। क्रोशस्यैकदेशे पर्वतः॥
Siddhanta Kaumudi¶
इह द्वितीया स्यात् । मासं कल्याणी । मासमधीते । मासं गुडधानाः । क्रोशं कुटिला नदी । क्रोशमधीते । क्रोशं गिरिः । अत्यन्तसंयोगे किम् ? मासस्य द्विरधीते । क्रोशस्यैकदेशे पर्वतः ॥ इति द्वितीया ॥
Balamanorama¶
कालाध्वनोरत्यन्तसंयोगे - कालाध्वनोः । इहेति । कालाध्वनोरत्यन्तसंयोगे इत्यर्थः । निरन्तरसंयोगः=अत्यन्तसंयोगः । अन्तो विच्छेदः, तमतिक्रान्तोऽत्यन्तः, स चासौ संयोगश्चेति विग्रहः । गुणक्रियाद्रव्यैरित्यौचित्याद्गम्यते । गुणक्रियाद्रव्यैः कालाध्वनोरविच्छिन्नसंयोगे गम्ये द्वितीया स्यादित्यर्थः । सा च कालाध्वभ्यामेव भवति, श्रुतत्वात् । तत्र गुणात्यन्तसंयोगे उदाहरति — मासं कल्याणीति ।भवती॑ति शेषः । तिंरशद्दिनात्मको मासः । तस्मिन्नविच्छिन्नमङ्गलवानित्यर्थः । क्रियात्यन्तसंयोगे उदाहरति — मासमधीते इति । तिंरशद्दिनात्मके प्रतिदिनमुचितकाले निरन्तरमधीत इत्यर्थः । द्रिव्यात्यन्तसंयोगे उदाहरति — मासं गुडधाना इति । मासे प्रतिदिनं निरन्तरं गुडधानाः सन्तीत्यर्थः । कालात्यन्तसंयोगमुदाहृत्य अध्वात्यन्तसंयोगे उदाहरति — क्रोशं कुटिलेत्यादि । मासस्य द्विरिति । मासे तिंरशद्दिनात्मके द्वयोर्दिनयोः प्रतिदिनमेकवारमित्येव द्विरधीत इत्यर्थः ।द्वित्रिचतुभ्र्यः सुच् इति द्विशब्दात्कृत्वोऽर्थे सुच् ।कृत्वोऽर्थप्रयोगे कालेऽधिकरणे॑ इति षष्ठी । शेषषष्ठीति केचित् ।शिवरात्रौ जागृयात् इत्यत्र त्वधिकरणत्वस्य विवक्षितत्वात्सप्तमीत्याह#उ#ः । उपपदविभक्तीनां शेषत्वविवक्षायामेव प्रवृत्तेरिति तदाशयः । इति द्वितीया ।
Tattvabodhini¶
कालाध्वनोरत्यन्तसंयोगे - तालाध्वनोः । अन्तं विराममतिक्रान्तोऽत्यन्तः, स चासौ संयोगश्चाऽत्यन्तसंयोगः । निरन्तरसंन्निकर्ष इत्यर्थः । केनेत्याकाङ्क्षायां गुणक्रियाद्रव्यैरित्यौचित्याद्बोध्यम् । द्वितीया स्यादिति । श्रुतत्वात्कालाध्ववृत्तिभ्यामेव । स्वरूपग्रहणं त्विह न भवति,कालाः,॑अत्यन्तसंयोगे च ॑इति समासविधायकेकालाः॑इति बहुवचननिर्देशेन द्वितायाविधौ स्वरूपविधिर्नेति ज्ञापनात् । अतएवमासप्रमितः,॑मुहूर्तसुख॑मिति द्वितीयासमासविधावुदाहरिष्यति । मासं कल्याणीत्यादी । अकर्मकधातुभिर्योग एव देसकालादीनां कर्मसञ्ज्ञाविधानान्नेहकर्मणि द्वितीय॑इति द्वितीया प्राप्नोतीति भावः । मासस्य द्विरिति ।कृत्वोर्थप्रयोगे कालेऽधिकरणे॑इत्यनेन षष्ठीति प्राञ्चः । तन्न । तत्र शेषग्रहणाऽनुवृत्त्याद्विरह्नो भोजन॑मिति कृदन्तेन सह समासनिवृत्तेरेव फलत्वात् । तस्मादिहषष्ठी शेषे॑इति सूत्रेणैव षष्ठी भवत्यन्तरङ्गत्वादित्याहुः । अन्यर्थमारब्धस्याऽपिकृत्वोर्थप्रयोगे॑इति सूत्रस्य द्विरह्नो भुङ्क्त इत्यत्र विशेषविहितत्वात्प्रवृत्तौ बाधकं नास्तीति केचित् । इति द्वितीया ।
Padamanjari¶
कालाध्वनोरत्यन्तसंयोगे॥ मासमधीत इति। ननु कर्मत्वादेवात्र द्वितीया सिद्धा, कथम्?’कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्’ । अवश्यं कर्मसंज्ञैवाश्रयणीया - आस्यते मासः, आसितव्यः आसित इति कर्मणि लकृत्यक्तखलर्था यथा स्युरिति, सत्यम्; इदमप्यवश्यं वक्तव्यम् - द्रव्यगुणाभ्यामत्यन्तसंयोगे द्वितीयायथा स्यादिति। तत्र क्रियात्यन्तसंयोगेऽपि परत्वादनेनैव युक्ता द्वितीया। मासस्येतिठ्कृत्वोऽर्थप्रयोगे कालेऽधिकरणेऽ इति षष्ठी॥
Nyaas¶
कालाध्वनोरित्यर्थग्रहणम्। अत आह - कालशब्देभ्योऽध्वशब्देभ्यश्च इत्यादि। मासस्य द्विरधीते। क्रोशस्यैकदेशे पर्वतः। योजनस्यैकदेशे पर्वतः इति। नात्र कालाध्वनोरत्यन्तसंयोगे इति द्वितीया भवति॥
Praudhamanorama¶
अन्तं- विराममतिक्रान्तोऽत्यन्तः स चासौ संयोगो निरन्तरसन्निकर्षः इत्यर्थः। द्वितीया स्यादिति। श्रुतत्वात् कालाध्ववृत्तिभ्यामेव। मासस्येति। ‘कृत्वोऽर्थप्रयोगे कालेऽधिकरणे’ इति षष्ठीत्याहुः, तन्न, तत्र शेषग्रहणानुवृत्त्या ‘द्विरह्नो भोजनम्’ इति कृदन्तेन सह समासाप्रवृत्तेरेव फलत्वात्। तस्मादिह ‘षष्ठी शेषे’ इति सूत्रेणैव षष्ठीति तत्त्वम्। ॥ इति द्वितीया॥
Prakriyasarvasvam¶
गुणक्रियाद्रव्यैः कालाध्वनोः साकल्येन योगे द्योत्ये द्वितीया स्यात् । मासमातुरः । मासमधीते । मासमपूपाः । क्रोशं कुटिला नदी । क्रोशं गायति । क्रोशं तरवः ।
Sutra Prayogas¶
तत्क्षणं (रघुवंशम्): कालाध्वनोरत्यन्तसंयोगे इति द्वितीया।
वसतीः (रघुवंशम्): कालाध्वनोरत्यन्तसंयोगे इति द्वितीया।
क्षणम् (रघुवंशम्): कालाध्वनोरत्यन्तसंयोगे इति द्वितीया।
समाः (रघुवंशम्): कालाध्वनोरत्यन्तसंयोगे इति अत्यन्तसंयोगे द्वितीया।
वर्षाणि (रघुवंशम्): कालाध्वनोरत्यन्तसंयोगे इति द्वितीया।
चिरं (कुमारसम्भवम्): कालाध्वनोरत्यन्तसंयोगे इति द्वितीया।
मासमात्रम् (कुमारसम्भवम्): कालाध्वनोरत्यन्तसंयोगे इति द्वितीया।
वासराणि (कुमारसम्भवम्): कालाध्वनोरत्यन्तसंयोगे इति द्वितीया।
प्रियोपकण्ठं (किरातार्जुनीयम्): कालाध्वनोरत्यन्तसंयोगे इति द्वितीया।
त्रयीम् (किरातार्जुनीयम्): कालाध्वनोरत्यन्तसंयोगे इति द्वितीया।
क्षणं (शिशुपालवधम्): कालाध्वनोरत्यन्तसंयोगे इति द्वितीया।
क्षणम् (शिशुपालवधम्): कालाध्वनोरत्यन्तसंयोगे इति द्वितीया।
तत्क्षणम् (शिशुपालवधम्): कालाध्वनोरत्यन्तसंयोगे इति द्वितीया।
सर्वरात्रम् (शिशुपालवधम्): कालाध्वनोरत्यन्तसंयोगे इति द्वितीया।
तत्क्षणं (शिशुपालवधम्): कालाध्वनोरत्यन्तसंयोगे इति द्वितीया।
तत्क्षणं (शिशुपालवधम्): कालाध्वनोरत्यन्तसंयोगे इति द्वितीया।
कतिपयपदं (शिशुपालवधम्): कालाध्वनोरत्यन्तसंयोगे इति द्वितीया।
तत्क्षणं (शिशुपालवधम्): कालाध्वनोरत्यन्तसंयोगे इति द्वितीया।
समकालम् (शिशुपालवधम्): कालाध्वनोरत्यन्तसंयोगे इति द्वितीया।
रजनीं (भट्टिकाव्यम्): कालाध्वनोः इति द्वितीया।
चिर-कालोषितं (भट्टिकाव्यम्): कालाध्वनोः इति द्वितीयां विधाय।
अहर्-निशम् (भट्टिकाव्यम्): कालाध्वनोरत्यन्तसंयोगे इति द्वितीया।
क्षणमूचे (भट्टिकाव्यम्): कालाध्वनोः इति द्वितीया।