23003: तृतीया च होश्छन्दसि

Padacheda: तृतीया | S | 1 | 1 |

च | S | 0 | 0 |

होः | S | 6 | 1 |

छन्दसि | S | 7 | 1 |

Sutrartha


Vasu English Summary

In the छन्दस् (Veda), the object of the verb हु ‘to sacrifice’ takes the affix of the 3rd case and of the 2nd case as well.

Vasu English Translation

In the छन्दस् (Veda), the object of the verb हु ‘to sacrifice’ takes the affix of the 3rd case and of the 2nd case as well. This ordains the third case-affix, and by force of the word च ‘and’ the second case-affix is also employed as यवाग्वाग्निहोत्रं जुहोति ‘he satisfies or pleases Agni with barley-powder,’ or यवागुमग्निहोत्रं जुहोति ‘he throws barley-powder into the fire as oblation.’

Why do we say ‘in the vedas?’ In the classical Sanskrit, the accusative only must be used and not the instrumental.

Bhashya

तृतीया च होश्छन्दसि 431 (295 द्वितीयातृतीयासूत्रम् ॥ 2। 3। 1 आ.3 ॥) (प्रयोजनाधिकरणम्) (प्रत्याख्यानायपूर्वपक्षिणआक्षेपभाष्यम्) किमर्थमिदमुच्यते?। (सिद्धान्तिनः सूत्रप्रयोजनभाष्यम्) तृतीया यथा स्यात् ॥ (पूर्वपक्षिणआक्षेपभाष्यम्) अथ द्वितीया सिद्धा?। (सिद्धान्तिनः समाधानभाष्यम्) सिद्धा ॥ कथम्?। कर्मणि इत्येव ॥ (पर्वपक्षिणः सूत्रवैर्यथ्यभाष्यम्) तृतीयापि सिद्धा ॥ कथम्? सुपां सुपो भवन्ति() इत्येव (सिद्धान्तिनःसूत्रसार्थक्यभाष्यम्) असत्येतस्मिन् - ()सुपां सुपो भवन्ति() इति तृतीयार्थोयमारम्भः। यवाग्वाग्निहोत्रं जुहोति ॥ (एकदेशिनः पूर्वपक्षिणो वा प्रत्याख्यानभाष्यम्) एवं तर्हि तृतीयापि सिद्धा ॥ कथम्?। कर्तृकरणयोः इत्येव ॥ अयमग्निहोत्रशब्दोस्त्येव ज्योतिषि वर्तते। तद्यथा - अग्निहोत्रं प्रज्वलितमिति ॥ अस्ति हविषि वर्तते। तद्यथा - अग्निहोत्रं जुहोतीति ॥ जुहोतिश्चास्त्येव प्रक्षेपणे वर्तते। अस्ति प्रीणात्यर्थे वर्तते ॥ तद्यदा तावद्यवागूशब्दात्तृतीया,तदाग्निहोत्रशब्दो ज्योतिषि वर्तते, जुहोतिश्च प्रीणात्यर्थे। तद्यथा - यवाग्वाग्निहोत्रं जुहोति अग्निं प्रीणाति ॥ यदा यवागूशब्दाद् द्वितीया तदाग्निहोत्रशब्दो हविषि वर्तते जुहोतिश्च प्रक्षेपणे। तद्यथा - यवागूमग्निहोत्रं जुहोति यवागूंहविरग्नौ प्रक्षिपति ॥ तृतीया च ॥ 3 ॥

Kashika

कर्मणीति वर्तते। द्वितीयायां प्राप्तायां तृतीया विधीयते, चशब्दात् सा च भवति। छन्दसि विषये जुहोतेः कर्मणि कारके तृतीया विभक्तिर्भवति, द्वितीया च। यवाग्वाग्निहोत्रं जुहोति। यवागूमग्निहोत्रं जुहोति (शां०श्रौ० ३.१२.१५,१६)। छन्दसीति किम्? यवागूमग्निहोत्रं जुहोति॥

Siddhanta Kaumudi

जुहोतेः कर्मणि तृतीया स्याद्द्वितीया च । यवाग्वाऽग्निहोत्रं जुहोति । अग्निहोत्रशब्दोऽत्र हविषि वर्तते । यस्याग्निहोत्रमधिश्रितममेध्यमापद्येतेत्यादिप्रयोगदर्शनात् । अग्नये हूयत इति व्युत्पत्तेश्च । यवाग्वाख्यं हविर्देवतोद्देशेन त्यक्त्वा प्रक्षिपतीत्यर्थः ॥

Padamanjari

तृतीया च होश्च्छन्दसि॥ यवाग्वाग्निहोत्रमिति। क्व पुनरग्निहोत्रशब्दो वर्तते? हविषि; तेष्वग्निहोत्रमधिश्रयेत्, अग्निहोत्रं शरशरायत्, तदाहुर्यस्याग्निहोत्रमधिश्रितममेध्यमापद्येतेत्यादिषु दर्शनात्। जुहोतिरपि प्रक्षेपे। एकस्मिन्नेव प्रयोगे यवागूशब्दात् तृतीया, अग्निहोत्रशब्दाद् द्वितीया; यवाग्वाख्यं हविर्देअवतोद्देशेन प्रक्षिपतीत्यर्थः। अयं योगः शक्योऽवक्तुम्, कथम्? अग्निहोत्रशब्दो ज्योतिष्यति वर्तते - अग्निहोत्रं प्रज्वलितमिति। जुहोतिरपि प्रीणने। तद्यदा यवागूशब्दात् तृतीया तदा यवाग्वाग्निहोत्रं प्रीणयतीत्यर्थः, यदा तु द्वितीया तदा यवाग्वाख्यं द्रव्यमग्निहोत्रं हविरग्नौ प्रक्षिपतीत्यर्थः। मीमांसकास्त्वाहुः - अग्निहोत्रशब्दः कर्मनामधेयमिति, द्दश्यते च - स एष यज्ञ पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासावित्यादि। तस्य वा एतस्याग्निहोत्रस्य सप्त च शतानि च, एतद्वा अग्निहोत्रमन्येद्यौर्हूड्यते अजरामर्य वा एतद्यदग्निहोत्रमिति च त इत्याहुः। करणत्वात् तृतीयायां प्राप्तायां पक्षे द्वितीयार्थं वचनम्। इदं च सूत्रानुगुणं न भवति, कर्मणीति हि वर्तते॥

Nyaas

यवाग्वाऽग्नहोत्रं जुहोति इति। यद्यप्यत्र सुपां सुपो भवन्ति (वा।818) इति द्वितीयास्थाने तृतीयादेशविधानेऽप्येतत् सिध्यति; तथापि पयसा जुहोति, आज्येन जुहोतीत्येवमादि न सिध्यति। तथा हि - स्थानिवद्भावात् स्वमोर्नपुंसकात् (7.1.23) इत्येकस्य लुक् प्राप्नोति। अपरस्य अतोऽम् (7.1.24) इत्यम्भावः॥

Prakriyasarvasvam

जुहोतेः कर्मणि द्वितीया तृतीया च स्यात् । यवाग्वाग्निहोत्रं जुहोति । यवागूमग्निहोत्रं जुहोति । अत्राग्निहोत्रशब्दस्य होमनामत्वादग्निहोत्रतया जुहोतीति क्रियाविशेषणत्वेन योज्यमिति रामः । यजेर्दानार्थत्वे कर्मसम्प्रदानयोः करणकर्मत्वे वाच्ये । पशुना रुद्रं यजते । पशुं रुद्राय ददातीत्यर्थः । पूजार्थत्वे यथार्हमेव सिद्धम् ।