23020: येनाङ्गविकारः¶
Padacheda: येन | S | 3 | 1 |
अङ्ग-विकारः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
By whatsoever limb, being defective, is pointed out the defect of the person after that the 3rd case-affix is used.
Vasu English Translation¶
By whatsoever limb, being defective, is pointed out the defect of the person after that the 3rd case-affix is used. As, अक्ष्णा काणः ‘blind of one eye’ पादेन खंजः ‘lame of foot.’ पाणिना कुण्ठः &c. The word anga in this sutra applies to the whole body, whatsoever by reason of being a member of the body is defective is indicated here.
Bhashya¶
येनाङ्गविकारः 478 (308 तृतीयानियमसूत्रम् ॥ 2.3.2 आ.3) (अङ्गशब्दस्यावयविपरत्वनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) इह कस्मान्न भवति - अक्षि काणमस्येति? ॥ (1494 समाधानवार्तिकम् ॥ 1 ॥) - अङ्गाद्विकृतात्तद्विकारश्चेदङि्गनो वचनम् - (भाष्यम्) अङ्गाद्विकृतात्तृतीया वक्तव्या तेनैव चेद्विकारेणाङ्गी द्योत्यत इति तेनैव चेद्विकारेणाङ्गी द्योत्यत इति वक्तव्यम् ॥ (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्? ॥ (समाधानभाष्यम्) न वक्तव्यम्। अङ्गशब्दोयं समुदायशब्दः। येनेति च करणे एषा तृतीया। येनावयवेन समुदायोङ्गी द्योत्यते तस्मिन् भवितव्यम्। न चैतेनावयवेन समुदायो द्योत्यते ॥ येनाङ्ग ॥ 20 ॥
Kashika¶
अङ्गशब्दोऽत्राङ्गसमुदाये शरीरे वर्तते, येनेति च तदवयवो हेतुत्वेन निर्दिश्यते। येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते, ततस्तृतीयाविभक्तिर्भवति। अक्ष्णा काणः। पादेन खञ्जः। पाणिना कुण्ठः। अवयवधर्मेण समुदायो व्यपदिश्यते। अङ्गविकार इति किम्? अक्षि काणमस्य॥
Siddhanta Kaumudi¶
येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते ततः तृतीया स्यात् । अक्ष्णा काणः । अक्षिसम्बन्धिकाणत्वविशिष्ट इत्यर्थः । अङ्गविकारः किम् ? अक्षि काणमस्य ॥
Balamanorama¶
येनाङ्गविकारः - येनाङ्गविकारः । अङ्गान्यस्य सन्तीत्यङ्गं=शरीरम् । अर्शाअद्यच् । तस्य विकार इति विग्रहः । येनेत्यनेन प्रकृत्यर्थभूतमङ्गं परामृश्यते । नह्रविकृतेन अङ्गेन अङ्गिनो विकारः संभवति । तदाह — येनाङ्गेनेत्यादिना । अक्ष्णा काण इति । काणशब्दः काणत्ववति वर्तते । संबन्धस्तृतीयार्थः । स च काणत्वेऽन्वेति । तदाह — अक्षिसंबन्धीति । संबन्धश्च विकारप्रयुक्तत्वरूपः । अक्षिविकारप्रयुक्तकाणत्ववानिति यावत् । यद्यपि एकमक्षि विकलं काणमित्युच्यते, तथाप्यवयवधर्मस्य शरीरे तदवच्छिन्नात्मनि व्यवहारो निरूढः । द्वौ विप्रावितिवत् अक्ष्णेति पदस्य प्रयोगः समर्थ्यः ।
Tattvabodhini¶
येनाङ्गविकारः - येनाङ्गेति । येनेति सर्वनाम्ना प्रकृत्यर्थभूतोऽवयव एव गृह्रते, संनिधानात् । स चाऽर्थद्विकृत एव । न ह्रविकृतेनावयवेन शरीरस्य विकारः संभवति, तदेतदाह — येनाङ्गेन विकृतेनेति । अङ्गिन इति । सूत्रेऽङ्गशब्दोऽर्शाअद्यजन्त इति भावः ।
Padamanjari¶
येनाङ्गविकारः॥ अङ्गशब्दोऽवयववाची प्रसिद्ध; ततश्चायं सूत्रार्थः स्याद् - येन गुणेनाङ्गस्याक्ष्यादेर्विकारस्ततस्तृतीयेति, ततश्चाक्षि काणमस्येत्यादावेव तु स्यात्, काणादेर्गुणवचनादेव च स्याद्; अक्ष्णा काण इत्यादावक्ष्यादेर्न स्यादित्यालोच्यान्यथा व्याचष्टे - अङ्गशब्दोऽत्रेत्यादि। अर्श आद्यच्प्रत्ययान्तः शरीरवचनोऽङ्गशब्दः सूत्रे उपात इत्यर्थः। येनेति च यदपेक्षमङ्गिनोऽङ्गित्वं स हेतुत्वेन निर्द्दश्यते, हेतुत्वेनेतिवदन्येनेति हेतौ तृतीयेति दर्शयति। विकृतेनेति। सामर्थ्यादेवैतल्लभ्यते, न ह्यविकृतमङ्गमङ्गिनो विकारं प्रति हेतुः। अक्ष्णा काण इति। कथं पुनः पुरुषः काणः यावताक्षिधर्मः काणता, तेनाक्ष्येव काणं भवति न पुरुषः? इत्याह - अवयवधर्मेणेति। तदेवं यदङ्गगतो विकारोऽवयवधर्मः समुदाय आरोपादङ्गिनः प्रतिपाद्यते, तत्र यदङ्गगतो विकारस्ततस्तृतीया भवति। कथं पुनरक्षिशब्दः प्रयुज्यते, यावता काणशब्दोऽक्षिगतमेव विकारमाचष्टे, तत्र काणो देवदत इत्युक्ते नैव संदेहो भवति - किं स्वयमेव काणः, किं वाक्ष्णः काणतयेति,नाप्येवं संदेहः - किमक्ष्णः काणतयासौ काणः, किं वा पादस्येति,तदनर्थकोऽक्षिशब्दस्य प्रयोगः? एवं पादेन खञ्जः, पाणिना कुणिरित्यादौ पादादीनाम्? उच्यते - अक्ष्याद्यौपक्रमे वाक्येऽक्ष्णेत्युक्ते न ज्ञायते किं निरूपयति? किं वा काण इति? तत्र निरूपयत्यादिनिवृतये काणशब्दप्रयोगः, यथा - द्वावानय कौ तौ द्वावित्युक्ते ब्राह्मणावति। अङ्गविकार इति किमिति। अङ्गगहणं प्रति प्रश्नः। क्वचितु तथैव पाठः। अक्षि काणमस्येति। नन्वत्र परत्वात्प्रथमा भविष्यति, न; असत्यङ्ग्रहणेऽवैव स्यात् मुख्यो ह्यत्र विकारः। उदाहरणे तु गौणः, अवयवधर्मस्यावयविन्यारोपात्॥
Nyaas¶
अयमङ्गशब्दोऽवयवे प्रसिद्धः। स यदि तत्रैव वर्तमान इह गृह्रते तदाऽत्रैव स्यात् - अक्षि काणमस्येति; अत्र ह्रक्ष्णः शरीरावयवस्य विकारः काणेन गुणेन द्योत्यत इति। इह तु न स्यात् - अक्ष्णा काण इति। न ह्यत्रावयवस्याक्ष्णो विकारो लक्ष्यते, किं तर्हि? अङ्गनः समुदायस्येत्यत आह - अङ्गशब्दोऽत्र`इत्यादि। अङ्गमस्यास्तीत्यङ्गः, अर्श आदित्वादच्प्रत्ययान्तोऽङ्गशब्द उपात्त इति दर्शयति; अङ्गिनोऽङ्गापेक्षत्वात्। यदपेक्षयाऽङ्गिनोऽङ्गित्वं तदेव येनेत्यनेन निर्दिश्यत इति दर्शयितुमाह - `येन इत्यादि। विकृतेनेति सामर्थ्याल्लब्धमर्थं दर्शयति। न ह्रविकृतेनाङ्गनिनोऽङ्गेन विकारो लक्ष्यते। लक्ष्यते इति। द्योत्यत इत्यर्थः। अक्ष्णा काणः इति। अत्राक्ष्णाऽवयवेन विकृतेनाङ्गिनो देवदत्तस्य विकारो लक्ष्यत इति तत्सतृतीया। विभक्तिर्भवति। कथं पुनरवयवेन विकृतेन समुदायस्तथा व्यपदिश्यत इत्याह - अवयवधर्मेण इत्यादि। याथाऽढमिदं नगरमित्यवयवधर्मेणाढत्वेनात्र समुदायो व्यपदिश्यते, तथेहाप्यवयवेन विकृतन समुदायो व्यपदिश्यत इति। कथं पुनरत्राक्षिशब्दस्य प्रयोगः क्रियते, यावता विनाऽपि तेन काणत्वं गुणः समुदायस्य प्रत#ईयत एव? सत्यमेतत्; लौकिके शब्दप्रयोगे गुरुलाघनं प्रत्यनादरात्। यस्तु तदाद्रियते सोऽक्षिशब्दं न प्रयुङ्क्त एव।अक्षि काणमस्य इति। अत्रासत्यङ्गग्रहणे काणशब्दात् तृतीया स्यात्। लक्ष्यते हि काणत्वेन गुणेनाक्ष्णो विकारः समुदायस्यावयवस्य॥
Praudhamanorama¶
अङ्गशब्दोऽर्शआद्यजन्तस्तदाह— अङ्गिन इति। येनेति सर्वनाम्ना प्रकृत्यर्थभूतोऽवयव एव गृह्यते, सन्निधानात्। स चार्थाद् विकृत एव, न ह्यविकृतेनावयवेन शरीरस्य विकारः संभवति। तदेतदाह— पञ्चम्या इति। कथं तर्हि ततः पश्चादिति। ततः पश्चात् स्रंस्यते, ध्वंस्यते चेति भाष्यप्रयोगात् पश्चाद् योगे पञ्चम्यपि। प्रत्ययग्रहणं चिन्त्यप्रयोजनम्।
Prakriyasarvasvam¶
येनाङ्गेन विकृतेनाङ्गिनो विकारस्ततस्तृतीया स्यात् । अक्ष्णा काणः । पदा खञ्जः । हानिवदाधिक्यमप्यङ्गानां विकार इति वामनोक्त्या मुखेन त्रिलोचन इत्याद्यपि । मुखेन भीता राक्षसीति विकारमात्रेऽप्याह भट्टिः ॥
Sutra Prayogas¶
वपुषा (शिशुपालवधम्): येनाङ्गविकारः इति तृतीया।
मुखेन (शिशुपालवधम्): येनाङ्गविकारः इति तृतीया।
सितकरवपुषा (शिशुपालवधम्): येनाङ्गविकारः इति तृतीया।
वक्त्रैः (शिशुपालवधम्): येनाङ्गविकारः इति तृतीया। विकासस्यापि विकारत्वात्।
मुखैर्भीमा (भट्टिकाव्यम्): येनाङ्गविकारः इति तृतीया।