23008: कर्मप्रवचनीययुक्ते द्वितीया

Padacheda: कर्मप्रवचनीय-युक्ते | S | 7 | 1 |

द्वितीया | S | 1 | 1 |

Sutrartha


Vasu English Summary

The 2nd case-affix is employed after a word which is joined with a कर्मप्रवचनीयाः (1.4.83).

Vasu English Translation

The 2nd case-affix is employed after a word which is joined with a कर्मप्रवचनीयाः (1.4.83). Ex. शाकल्यस्य संहितामनुप्रावर्षत् ‘It rained on (hearing) the reading of the Veda by Sakalya.’ So also आगस्त्यमन्वसिंचत् प्रजाः ॥

Bhashya

कर्मप्रवचनीययुक्ते द्वितीया 466 (कर्मप्रवचनीययोगे विभक्तिनियमप्रकरणम्) (300 द्वितीयासूत्रम् ॥ 2। 3। 1 आ. 8 ॥ (अर्थनियमाधिकरणम्) (1476 अर्थनियमवार्तिकम् 1) - कर्मप्रवचनीययुक्ते प्रत्यादिभिश्च लक्षणादिषूपसंख्यानं सप्तमीपञ्ञ्चम्योः प्रतिषेधार्थम् - (भाष्यम्) कर्मप्रवचनीययुक्ते प्रत्यादिभिश्च लक्षणादिषूपसंख्यानं कर्तव्यम्। वृक्षं प्रति विद्योतते विद्युत्, वृक्षं परि विद्योतते विद्युत्, वृक्षमनु विद्योतते विद्युत्। साधुर्देवदत्तो मातरं प्रति। साधुर्देवदत्तो मातरं परि। साधुर्देवदत्तो मातरमनु ॥ किं प्रयोजनम्?। सप्तमीपञ्ञ्चम्योः प्रतिषेधार्थम्। सप्तमीपञ्ञ्चम्यौ मा भूतामिति। साधुनिपुणाभ्यामर्चायां सप्तमी इति सप्तमी, पञ्ञ्चम्यपाङ्परिभिः इति पञ्ञ्चमी। तत्रायमप्यर्थः - अप्रतेरिति न वक्तव्यं भवति ॥ (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्? ॥ (समाधानभाष्यम्) न वक्तव्यम् ॥ उक्तं वा। किमुक्तम्?। एकत्र तावदुक्तम् - अप्रतेरिति ॥ इतरत्रापि - यद्यपि तावदयं परिर्दृष्टापचारो वर्जने चावर्जने च। अयं खल्वपशब्दोऽदृष्टापचारो वर्जनार्थ एव। तस्य कोन्यो द्वितीयः सहायो भवितुमर्हति - अन्यदतो वर्जनार्थात्। तद्यथा - अस्य गोर्द्वितीयेनार्थ इति गौरेवानीयते नाश्वो न गर्दभः ॥ कर्मप्रवचनीययु ॥ 8 ॥

Kashika

कर्मप्रवचनीयैर्युक्ते द्वितीया विभक्तिर्भवति। अनुर्लक्षणे (१.४.८४) — शाकल्यस्य संहितामनु प्रावर्षत्। अगस्त्यमन्वसिञ्चन् प्रजाः॥

Siddhanta Kaumudi

एतेन योगे द्वितीया स्यात् । जपमनु प्रावर्षत् । हेतुभूतजपोपलक्षितं वर्षणमित्यर्थः । परापि हेताविति तृतीयाऽनेन बाध्यते । लक्षणेत्थंभूत (SK552) इत्यादिना सिद्धे पुनः संज्ञाविधानसामर्थ्यात् ॥

Balamanorama

कर्मप्रवचनीययुक्ते द्वितीया - कर्मप्रवचनीय । युक्ते इति भावे क्तः । तदाह — एतेन योगे इति जपमन्विति । कदा पर्जन्योऽवर्षदिति प्रश्ने उत्तरमिदम् । अत्र वृष्टिकाल उपदेश्यः, स च दुज्र्ञानत्वात्शाखाग्रं प्रति द्विकलश्चन्द्र॑ इतिवत्प्रज्ञानं किंचिदवलम्ब्यैव ज्ञाप्यः । जपोऽत्र प्रज्ञानम्, तत्र जपकाले पर्जन्यः प्रावर्षदिति संभवति । हेतुभूतजपो ह्यत्र लक्षणम् । हेतुत्वं च पूर्वकालवृत्तित्वघटितम् । एवंच वर्षहेतुभूतवरुणजपोत्तरकाले पर्जन्यः प्रावर्षदित्युत्तरं पर्यवस्यति । तत्र लक्षणत्वं हेतुत्त्वं चेति द्वयं द्वितीयार्थः । तदुभयमनुना द्योत्यते । लक्षणत्वं च ज्ञानजनकज्ञानविषयत्वम् । जपज्ञानेन तदुत्तरकालविशिष्टा वृष्टिज्र्ञाप्यते । ततस्च जपात्मकहेतुज्ञानजन्यज्ञानविषयो वर्षणमिति बोधः । तदाह — हेतुभूतेति । अनभिहिताधिकारान्न पर्जन्यात्तृतीया, तस्य तिङा अभिहितत्वात् । ननु हेतुत्वाऽविवक्षायांवृक्षमनु विद्योतते विद्यु॑दित्यत्रअनुर्लक्षणे॑इत्यत्र तदनुपादानात् । एवंच हेतुत्वाऽविवक्षायांवक्षमनु विद्योतते विद्यु॑दित्यत्र ‘अनुर्लक्षणे’ इति सावकाशम् । ‘हेतौ’ इति तृतीया तुधनेन कुल॑मित्यादौ सावकाशा ।पर्जन्यो जपमनु प्रावर्ष॑दित्यत्र तु तदुभयमपि प्रसक्तम् । तत्र परत्वाद्धेतुतृतीयैव स्यादित्यत आह — परापीति । ‘अनुर्लक्षणे’ #इति कर्मप्रवचनीयत्वप्रयुक्तद्वितीयाविधिनेत्यर्थः । पुनः संज्ञेति ।वृक्षमनु विद्योतते विद्यु॑ दित्यत्र हि ‘अनुर्लक्षणे’ इत्यस्य न प्रयोजनम्,लक्षणेत्थ॑मित्येव सिद्धेः । ततश्च ‘अनुर्लक्षणे’ इत्यारम्भसामर्थ्याद्धेतुभूते लक्षणेऽनोः कर्मप्रवचनीयत्वलब्धया द्वितीयया हेतौतृतीया बाध्यत इति विज्ञायते इत्यर्थः । ततश्च हेतुत्वमपि शाब्दबोधे विषय इति फलति ।

Nyaas

शाकल्यस्य संहितामनु प्रावर्षत् इति। अनुर्लक्षणे (1.4.84) इति कर्मप्रवचनयीसंज्ञा।

Praudhamanorama

सामर्थ्यादिति। अत एव हेतुत्वपर्यन्तमपि शाब्दबोधे विषय इति स्वीक्रियत इति भावः।

Prakriyasarvasvam

वेणुरवमनु प्राधावद् राधा ॥

Sutra Prayogas

  • सुप्ताम् (रघुवंशम्): कर्मप्रवचनीययुक्ते द्वितीया इति द्वितीया।

  • मुनिम् (शिशुपालवधम्): कर्मप्रवचनीययुक्ते द्वितीया इति द्वितीया।

  • अद्रिं (भट्टिकाव्यम्): कर्मप्रवचनीययुक्ते इति द्वितीया।