23015: तुमर्थाच्च भाववचनात्

Padacheda: तुम्-अर्थात् | S | 5 | 1 |

च | S | 0 | 0 |

भाववचनात् | S | 5 | 1 |

Sutrartha


Vasu English Summary

The 4th case-affix is used after a crude-form which ends in an affix denoting ‘condition’ (abstract noun – भाववचनाश्च (3.3.11)) and having the force of the affix तुम् (or Infinitive or purpose).

Vasu English Translation

The 4th case-affix is used after a crude-form which ends in an affix denoting ‘condition’ (abstract noun – भाववचनाश्च (3.3.11)) and having the force of the affix तुम् (or Infinitive or purpose). Ex. यागाय व्रजति ‘he goes to offer a sacrifice’ = यष्टुं व्रजति. So also त्यागाय व्रजति, भूतये व्रजति.

The word तुमर्थ means ‘having the same significance as the affix तुम्.’

Kashika

तुमुना समानार्थस्तुमर्थः। तुमर्थभाववचनप्रत्ययान्तात् प्रातिपदिकाच् चतुर्थी विभक्तिर्भवति। भाववचनाश्च (३.३.११) इति वक्ष्यति, तस्येदं ग्रहणम्। पाकाय व्रजति। त्यागाय व्रजति। भूतये व्रजति। संपत्तये व्रजति। तुमर्थादिति किम्? पाकः। त्यागः। रागः। भाववचनादिति किम्? कारको व्रजति॥

Siddhanta Kaumudi

भाववचनाश्च (SK3180) इति सूत्रेण यो विहितस्तदन्ताच्चतुर्थी स्यात् । यागाय याति । यष्टुं यातीत्यर्थः ॥

Balamanorama

तुमर्थाच्च भाववचनात् - तुमर्थाच्च ।तुमुन्ण्वुलौ क्रियायां क्रियार्थाया॑मिति सूत्रम् । क्रियार्थानां क्रियायामुपपदभूतायां भविष्यति काले तुमुन्ण्वुलौ स्तः । भोक्तुं व्रजति, भोजको व्रजति । भविष्यद्भुजिक्रियार्थो व्रजतिरत्रोपपदम् । अस्य तुमुनोऽर्थ इवार्थो यस्य तस्मादिति विग्रहः । भावः=क्रिया । उच्यते अनेनेति वचनः, भावस्य वचनो भाववचनः, तस्मादिति विग्रहः । क्रियावाचिन इति यावत् ।प्रत्यया॑दिति शेषः । तत्र ‘अव्ययकृतो भावे’ इति तुमुनो भाव एव विहितत्वेन तुमर्थकस्य प्रत्ययस्य भाववचनत्वे सिद्धे पुनर्भाववचनग्रहणं सूत्रविशेषपरिग्रहणार्थमित्याह — भाववचनाश्चेति ।भावे॑इत्यधिकृत्य ये घञादिप्रत्यया विहितास्ते क्रियार्थक्रियायामुपपदभूतायां भविष्यति स्युरिति तदर्थः ।यागाय याती॑त्याद्युदाहरणम् । #एवं च क्रियार्थक्रियोपपदत्वलाभार्थं तुमर्थादिति विशेषणम् । अत्र तादथ्र्यस्य तुमुनेव घञा द्योतितत्वात्उक्तार्थानामप्रयोगः॑ इति न्यायेन तादथ्र्यचतुथ्र्या अप्राप्तौ प्रथमायाः प्राप्ताविदं वचनम् । तुमर्थादिति किम् । पाकः त्याद इत्यादौ घञो भावे इत्यधिकारस्थत्वेऽपि न चतुर्थी । क्रियार्थक्रियोपपदत्वाऽभावेन तुमर्थकत्वाऽभावात् । भ#आववचनादिति किम् । पाचको व्रजति । पक्तुं व्रजतीत्यर्थः । ‘तुमुन्ण्वुलौ’ इति ण्वुल् । तस्य तुमर्थकत्वेऽपि ‘भावे’ इत्यधिकारे विध्यभावान्न चतुर्थी । तादथ्र्यस्य ण्वुलैवोक्तत्वान्न तादथ्र्यचतुर्थी, किंतु प्रथमैव ।

Tattvabodhini

तुमर्थाच्च भाववचनात् - तुमर्थात् ।अव्ययकृतो भावे॑ इति तुमुनो भावे एव विधानात्तदर्थस्य भाववचनत्वे सिद्धे पुनर्भाववचनग्रहणं सूत्रविशेषपरिग्रहार्थमित्याह -भाववचनाश्चेतीति । न चतादर्थ्ये॑ इत्येव गतार्थता शङ्क्या । क्रियार्थक्रियोपपदकेनभाववचनादेव यथा स्यात्, पाचको व्रजतीति ण्वुलन्तान्मा भूदिति नियमार्थमिदं सूत्रमिति । तन्न, ण्वुलः कर्तृवाचकतया तुमर्थकत्वाऽभावेन नियमार्थत्वाऽयोगात् । ण्वुलन्तो कर्तुः प्राधान्यात्, कर्तारं प्रति च तादथ्र्याऽभावात्, गुणीभूत[तया]पातं प्रति तादथ्र्यसंभवेऽपि पातवाचकधातोश्चुतुथ्र्ययोगाच्च । तुमर्थात्किम् । पचनं वर्तते । भाववचनात्किम् । पाकः । त्यागः । अत्र वदन्ति — ॒क्रियार्थोपपदस्य -॑ इत्यनुवर्त्त्य पञ्चम्या विपरिणमय्य व्याख्याने बाधकाऽभावाद्भाववचनादिति त्युक्तं शक्यम् । न चैवंतुमर्थात् -॑ इत्येव वक्तव्यमिति वाच्यम् । वर्णलाघवसम्भवे गौरवाश्रयणाऽयोगादिति । उपपदविभक्तेः कारकविभक्तिर्बलियसी॥ वलीयसीति । हरये नम इत्यत्र तूद्देशनक्रियाद्वारा हरिमनस्कारयोः सम्बन्धः — हर्युद्देश्यको नमस्कार इति । एवं चोद्देशनक्रियावगतौ विलम्ब इति कारकविभक्तेर्बलीयस्त्वमित्येके । अन्ये तूपपदविङक्त्या संबन्धसामान्यमवगम्यते, तद्विशेषावगमस्त्वर्थप्रकरणादिपर्यालोचनाऽधीनः । कारकविभक्त्या तु कर्मत्वादिसंबन्धविशेषे झटित्येवाऽवगम्यत इति तस्या बलीयस्त्वमित्याहुः । षष्ठपीति । ननु प्रभ्वादियोगे षष्ठएवास्तु, अलंशब्दस्तु पर्याप्तीतरार्थक एव गृह्रतामित्याशङ्क्याह -तस्मै प्रभवतीति । न त्वां तृणमित्यादि । ननु तृणादिवद्युष्मच्छब्दादपि पक्षे चतुथ्र्या भाव्यम् । मैवम्,अनादरे॑ इत्यस्य कर्मविशेषणत्वेन अनादरद्योतकं यत्कर्म तत्र चतुर्थीति व्याख्यानात् । तृणं ह्यत्राऽनादरद्योकतं न तु युष्मदर्थः । स्यादेतत् -त्वां तृणं मन्ये तृणाय वेत्युदाह्यियतां, किमनेन नञः प्रयोगेण । अत्राहुः — ॒प्रकृष्य कुत्सित ग्रहणं कर्तव्यम् इति वार्तिकमस्ति, तेन यद्वाचिनश्चुतुर्थी विधीयते ततो निकृष्टत्वेन यदि कुत्सा प्रतिपाद्यते, तदा चतुर्थी भवति न तु साम्यविवक्षायाम् । तादृशी च कुत्साप्रतीतिर्नञः प्रयोग#ए झटित्येव भवतीतिन त्वा॑ मित्युक्तमिति ।

Padamanjari

तुमर्थाच्च भाववचनात्॥ तुमुना समानार्थस्तुमर्थ इति। वस्तुव्याख्यानमेतत्, विग्रहस्तु तुमर्थोऽस्येति तुम्शब्देन तुमर्थो लक्ष्यते। तुमर्थभाववचनप्रत्ययान्तादिति। तुमर्थो भाववचनः प्रत्ययोऽन्तेऽस्य ततथोक्तम्। तस्येदं ग्रहणमिति। स एव हि तुमर्थो भाववचनः, नान्यः। पाकाय व्रजतीति। नन्वत्र तादर्थ्यैव सिद्धम्; न चैवं पाचको व्रजतीत्यभाववचनादपि प्रसङ्गः, अत्र कर्ता प्रधानं न च तं प्रति तादर्थ्यमस्ति, किं तु प्रक-त्यर्थ प्रति; एवं तर्हि भाववचनेनैव तादर्थ्यस्य द्योतितत्वाच्चतुर्थी न सिद्ध्यतीति सूत्रारम्भः। न ह्यएतल्लक्षणनेत्रो ज्ञातुमर्हति - धञादीनां चतुर्थीसापेक्षाणामेव तादर्थ्यप्रकाशने शक्तिरिति। तुमर्थग्रहणं शक्यमकर्तुम्, कथम्? पाकः, त्यागः, राग इति क्रियार्थो पपदग्रहणमनुवर्तिष्यते। नन्वेतत् षष्ठीनिर्दिष्टम्, पञ्चमीनिर्देअषेटेन चेहार्थः; अर्थाद्विपरिणामो भविष्यति, भाववचनादित्यनेन सम्बन्धात्। न वै भाववचनस्य क्रियार्थोपपदत्वं सम्भवति, किं तर्हि? धातोः। धातोर्भाववचनस्यासम्भवादेवं विज्ञास्यते - क्रियार्थोपपदाद्धातोर्यो विहितो भाववचन इति॥

Nyaas

तुमुना समानार्थः इति। वृत्तौ गम्यमानत्वात् समानशब्दो न प्रयुक्तः। तुमर्थभाववचनप्रत्ययान्तात् इति। तुमर्थो भाववचनप्रत्ययोऽन्तो यस्य स तथोक्तः। भाववचनाश्चेति वक्ष्यति, तस्येदं ग्रहणम् इति। स एव हि तुमर्थो भाववचनः सम्भवति, नान्यः। पाकाय व्रजति इति। यद्यप्यत्र तादथ्र्यं गम्यते तथापि चतुर्थी न भवति; तस्मिन्नेव तादथ्र्यं विहितेन भावप्रत्ययेन तस्योक्तत्वात्,यथा - पाचको व्रजतीत्यत्र न भवति। तेन चतुर्थीविधानार्थमिदमारब्धम्। अथ वा - भाववचनादेव यथा स्यात्, इह मा भूत् - पाचको व्रजतीति नियमार्थंमेतत्। पाकः, त्यागः, रागः इति भावे घञ्। ननु च क्रियार्थोपपदग्रहणमनुवर्तिष्यते, तदर्थाद्विभक्तेर्विपरिणामं कृत्वैवमभिसम्बन्धः करिष्यते - क्रियार्थोपपदाद्भाववचनादिति। यस्तु क्रियार्थोपपदो भाववचनः स तुमर्थ एवेति किं तुमर्थग्रहणेन? नैतदस्ति; न हि क्रियार्थोपपदग्रहणं भाववचनस्य विशेषणं सम्भवति। किं तर्हि? धातोरेव। तस्मात् तुमर्थग्रहणं कर्तव्यमेव। कारको व्रजति`इति - `तुमुन्ण्वुलौ (3.3.10) इति ण्वुल्। भवत्ययं तुमर्थो न तु भाववचनः, किं तर्हि? कर्त्तृवचनः, तेन तदन्तान्न भवति॥

Praudhamanorama

इति सूत्रेणेति। न च तादर्थ्ये इत्येव गतार्थता शङ्क्या, भाववचनेनैव तुमुनेव तादर्थ्यस्य द्योतिततया प्रातिपदिकार्थमात्रे प्रथमाप्रसङ्गात्। यत्तु प्राचोक्तम्— भाववचनादेव यथा स्यात्, पाचको व्रजतीति ण्वुलन्तात् मा भूदिति नियमार्थमिदं सूत्रमिति; तन्न, ण्वुलन्ते कर्तुः प्राधान्यात् कर्तारं प्रति च तादर्थ्याभावात्, गुणीभूतयानस्य च विभक्त्यर्थानन्वयात्। ननु

Prakriyasarvasvam

भाववचनात् तुमूनर्थाच्चतुर्थी स्यात् । पाकाय व्रजति । भोजनाय व्रजति । पक्तुं भोक्तुमित्यर्थः ॥

Sutra Prayogas

  • क्रियाविथाताय (रघुवंशम्): तुमर्थाञ्च भाववचनात् इति चतुर्थी।

  • कार्मुकाभिहरणाय (रघुवंशम्): तुमर्थाच्च भाववचनात् इति चतुर्थी।

  • पतनाय (कुमारसम्भवम्): तुमर्थाच्च भाववचनात् इति चतुर्थी।

  • विघाताय (किरातार्जुनीयम्): तुमर्थाच्च भाववचनात् इति चतुर्थी ।

  • विपक्षनिर्जयाय (किरातार्जुनीयम्): तुमर्थाच्च- इत्यादिना चतुर्थी ।

  • प्रतिक्रियायै (किरातार्जुनीयम्): तुमर्थाच्च भाववचनात् इति चतुर्थी।

  • सीता-लाभाय (भट्टिकाव्यम्): तुमर्थाच्च भाववचनात् इति चतुर्थी।

  • भयाय (भट्टिकाव्यम्): तुमर्थाच्च भाववचनात् इति चतुर्थी।