23001: अनभिहिते

Padacheda: अनभिहिते | S | 7 | 1 |

Sutrartha


Vasu English Summary

The word अनभिहिते meaning ‘not being specified’ is to be understood as the governing word.

Vasu English Translation

The word अनभिहिते meaning ‘not being specified’ is to be understood as the governing word. Whatever will be taught from this point forward, should be understood to apply to those cases which have not been specified otherwise. The case-affixes like those denoting ‘object’ ‘instrument’ &c., are applied to a noun, only then, when the force of the case-affix is not otherwise denoted or mentioned or exhibited. The force of a case-affix may be so denoted either by first, the conjugational affixes तिङ्; secondly, by the Primary affixes or कृत्, thirdly, by the secondary affixes तद्धित; or lastly by compounds. Thus sutra 2 declares that the second case-affix is applied in denoting the object, as कटं करोति ‘he makes the mat’; ग्रामं गच्छति ‘he goes to the village.’ But the object can otherwise be denoted. Thus by the passive conjugational affix, as कृयते कटः ‘the mat is made.’ Here the termination of the verb denotes the object. See sutra (1.3.18). and (3.4.69). So also by the krit affix, as कृतः कटः ‘the mat is made,’ see Sutra (3.4.70). So also by a Taddhita affix as शत्य or शतिकः meaning ‘purchased with a hundred’ = शतेन क्रीतः. Similarly by samasa, as प्राप्तमुदकं ग्रामम् = प्राप्तोदको ग्रामः ॥

Bhashya

अनभिहिते 459 (अथ विभक्त्यर्थप्रकरणम्) (293 अधिकारसूत्रम् ॥ 2.3.1 आ.1) (अनभिहितशब्दार्थनिरूपणाधिकरणम्) (आक्षेपभाष्यम्) अनभिहित इत्युच्यते। किमिदमनभिहितं नाम? ॥ (समाधानभाष्यम्) उक्तम्, निर्दिष्टम्, अभिहितम् इत्यनर्थान्तरम् ॥ यावद् ब्रूयाद् - अनुक्ते, अनिर्दिष्टे इति, तावद् अनभिहिते इति ॥ (सूत्रप्रयोजनाधिकरणम्) (1459 प्रत्याख्यानवार्तिकम् ॥ 1 ॥) - अनभिहितवचनमनर्थकमन्यत्रापि विहितस्या भावादभिहिते - (भाष्यम्) अनभिहितवचनमनर्थकम् ॥ किं कारणम्?। अन्यत्रापि विहितस्याभावादभिहिते। अन्यत्राप्यभिहिते विहितं न भवति ॥ क्वान्यत्र?। चित्रगुः, शबलगुः, बहुव्रीहिणोक्तत्वान्मत्वर्थस्य मत्वर्थीयो न भवति। गर्गाः, वत्साः, बिदाः, उर्वाः, यञ्ञञ्ञ्भ्यामुक्तत्वादपत्यार्थस्य न्याय्योत्पत्तिर्न भवति। सप्तपर्णः अष्टापद इति समासेनोक्तत्वाद्वीप्साया द्विर्वचनं न भवतीति ॥ (प्रथमदृष्टान्तनिरसनभाष्यम्) यत्तावदुच्यते - चित्रगुः शबलगुरिति बहुव्रीहिणोक्तत्वान्मत्वर्थस्य मत्वर्थीयो न भवतीति ॥ अस्तिसामानाधिकरण्ये मतुब्विधीयते। न चात्रास्तिना सामानाधिकरण्यम् ॥ (द्वितीयदृष्टान्तनिरसनभाष्यम्) यदप्युच्यते - गर्गा वत्सा बिदा उर्वा इति यञ्ञञ्ञ्भ्यामुक्तत्वादपत्यार्थस्य न्याय्योत्पत्तिर्न भवतीति ॥ समर्थानां प्रथमाद्वा इति वर्तते। न चैतत्समर्थानां प्रथमम्। किं तर्हि?। द्वितीयमर्थमुपसंक्रान्तम् ॥ (तृतीयदृष्टान्तनिरसनभाष्यम्) यदप्युच्यते - सप्तपर्णः अष्टापद इति समासेनोक्तत्वाद् वीप्साया द्विर्वचनं न भवतीति ॥ यदत्र वीप्सायुक्तं नादः प्रयुज्यते ॥ किं पुनस्तत्?। पर्वणि पर्वणि सप्त पर्णान्यस्य। पङ्क्तौ पङ्क्तावष्ठौ पदानीति ॥ (दृष्टान्तान्तरभाष्यम्) श्नम्बहुजकक्षु तर्हि। श्नम् - भिनत्ति छिनत्ति। श्नमोक्तत्वात्कर्तृत्वस्य कर्तरि शब् न भवति ॥ बहुच् - बहुकृतं बहुभिन्नमिति बहुचोक्तत्वादीषदसमाप्तेः कल्पबादयो न भवन्ति ॥ अकच् - उच्चकैः नीचकैरिति अकचोक्तत्वात्कुत्सादीनां कादयो न भवन्ति ॥ श्नमोक्तत्वादिति। भावकर्मकर्तारो विकरणार्था इति पूर्वाचार्यदर्शनमाश्रित्यैवमुक्तम् ॥ (दृष्टान्तबाधकभाष्यम्) ननु च श्नम्बहुजकचोपवादास्ते अपवादत्वाद्बाधका भविष्यन्ति ॥ (1460 दृष्टान्तसाधकवार्तिकम् ॥ 2 ॥ - श्नम्बहुजकक्षु नानादेशत्वाद् उत्सर्गाप्रतिषेधः - (व्याख्याभाष्यम्) समानदेशैरपवादैरुत्सर्गाणां बाधनं भवति। नानादेशत्वान्न प्राप्नोति ॥ (सूत्रप्रयोजनकथनाधिकरणम्) (आरम्भवादिभाष्यम्) किं पुनरिहाकर्तव्योनभिहिताधिकारः क्रियते। आहोस्विदन्यत्र कर्तव्यो न क्रियते? ॥ (प्रत्याख्यानवादिभाष्यम्) इहाकर्तव्यः क्रियते। एष एव हि न्याय्यः - यदभिहिते विहितं न स्यात् ॥ (1461 आरम्भवादिसमाधानवार्तिकम् ॥ 3 ॥ - अनभिहितस्तु विभक्त्यर्थस्तस्मादनभिहितवचनम् (अभिहिते हि प्रथमाभावः) - (भाष्यम्) अनभिहितस्तु विभक्त्यर्थः ॥ कः पुनर्विभक्त्यर्थः?। एकत्वादयो विभक्त्यर्थाः ॥ तेष्वनभिहितेषु (सत्सु) कर्मादयोभिहिता विभक्तीनामुत्पत्तौ निमित्तत्वाय मा भूवन्निति ॥ तस्मादनभिहितवचनम् ॥ तस्मादनभिहिताधिकारः क्रियते ॥ अवश्यं चैतदेवं विज्ञेयम् - एकत्वादयो विभक्त्यर्था इति ॥ अभिहिते हि प्रथमाभावः। यो हि मन्यते - कर्मादयो विभक्त्यर्थाः, तेष्वभिहितेषु सार्मथ्यान्मे विभक्तीनामुत्पत्तिर्न भविष्यतीति। प्रथमा तस्य न प्राप्नोति ॥ क्व?। वृक्षः प्लक्षः ॥ किं कारणम्?। प्रातिपदिकेनोक्तः प्रातिपदिकार्थ इति ॥ (प्रत्याख्यानवादिभाष्यम्) न क्वचित्प्रातिपदिकेनानुक्तः प्रातिपदिकार्थः। उच्यते च प्रथमा। सा वचनाद्भविष्यति ॥ तवैव तु खल्वेष दोषः - यस्य ते एकत्वादयो विभक्त्यर्थाः। अभिहिते प्रथमाऽभाव इति प्रथमा ते न प्राप्नोति। क्व? पचत्योदनं देवदत्त इति ॥ किं कारणम्? तिङोक्ता एकत्वादय इति। अनभिहिताधिकारं च त्वं करोषि, परिगणनं च ॥ (आरम्भवादिभाष्यम्) न क्वचित्तिङा एकत्वादीनामनभिधानम्। उच्यते च प्रथमा। सा वचनाद्भविष्यति ॥ (प्रत्याख्यानवाद्याक्षेपभाष्यम्) ननु चेहानभिधानम् - वृक्षः प्लक्षः इति ॥ (आरम्भवादिसमाधानभाष्यम्) अत्राप्यभिधानमस्ति ॥ कथम्?। वक्ष्यत्येतद् - अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोप्यस्तीति। वृक्षः प्लक्षः अस्तीति गम्यते ॥ तवैव तु खल्वेष दोषः - (यस्य ते कर्मादयो विभक्त्यर्थाः) अभिहेते प्रथमाभाव इति प्रथमा ते प्राप्नोति। क्व?। कटं करोति भीष्ममुदारं शोभनं दर्शनीयमिति। कटशब्दादुत्पद्यमानया द्वितीययाभिहितं कर्मेति कृत्वा भीष्मादिभ्यो द्वितीया न प्राप्नोति ॥ का तर्हि प्राप्नोति?। प्रथमा ॥ तद्यथा - कृतः कटो भीष्म उदारः शोभनो दर्शनीयः इति करोतेरुत्पद्यमानेन क्तेनाभिहितं कर्मेति कृत्वा भीष्मादिभ्यो द्वितीया न भवति। का तर्हि?। प्रथमा भवति ॥ (प्रत्याख्यानवादिभाष्यम्) नैष दोषः। न हि ममानभिहिताधिकारोस्ति। नापि परिगणनम्। सार्मथ्यान्मे विभक्तीनामुत्पत्तिर्भविष्यति। अस्ति च सार्मथ्यम्। किम्? कर्मविशेषो वक्तव्यः ॥ अथ वा कटोपि कर्म, भीष्मादयोपि। तत्र कर्मणि इत्येव सिद्धम् ॥ अथवा कट एव कर्म, तत्सामानाधिकरण्याद्भीष्मादिभ्यो द्वितीया भविष्यति ॥ अस्ति खल्वपि विशेषः - कटं करोति भीष्ममुदारं दर्शनीयं शोभनमिति च कृतः भीष्म उदारः शोभनो दर्शनीय इति च करोतेरुत्पद्यमानः क्तः अनवयवेन सर्वं कर्माभिद्यत्ते, कटशब्दात्पुनरुत्पद्यमानया द्वितीयया यत् कटस्थं कर्म तत् शक्यमभिधातुं न कर्मविशेषः ॥ तवैव तु खल्वेष दोषः (यस्य ते एकत्वादयो विभक्त्यर्थाः) ठअभिहिते प्रथमाऽभावः इति प्रथमा ते न प्राप्नोति। क्व?। एको द्वौ बहव इति। किं कारणम्?। प्रातिपदिकेनोक्ता एकत्वादय इति ॥ (आरम्भवादिभाष्यम्) कर्मादिष्वपि वै विभक्त्यर्थेषु अवश्यमेकत्वादयो निमित्तत्वेनोपादेयाः - कर्मण एकत्वे, कर्मणो द्वित्वे, कर्मणो बहुत्वे, इति। न चैकत्वादीनामेकत्वादयः सन्ति। अथ सन्ति, ममापि सन्ति। तेष्वनभिहितेषु प्रथमा भविष्यति ॥ अथ वा उभयवचना ह्येते द्रव्यं चाहुर्गुणं च। यत्स्थोसौ गुणः तस्यानुक्ता एकत्वादय इति कृत्वा प्रथमा भविष्यति ॥ अथ वा संख्या नामेयं परप्रधाना संख्येयमनया विशेष्यम्। यदि चात्र प्रथमा न स्यात्। संख्येयमविशेषितं स्यात् ॥ अथ वा वक्ष्यति तत्र वचनग्रहणस्य प्रयोजनम्-उक्तेष्वप्येकत्वादिषु प्रथमा यथा स्यादिति ॥ अथ वा समयाद्भविष्यति ॥ (आक्षेपभाष्यम्) यदि सामयिकी, न नियोगतः। अन्याः कस्मान्न भवन्ति? ॥ (समाधानभाष्यम्) कर्मादीनामभावात् ॥ (आक्षेपभाष्यम्) षष्ठी तर्हि प्राप्नोति? ॥ (समाधानभाष्यम्) शेषलक्षणा षष्ठी। अशेषत्वान्न भविष्यति ॥ (आक्षेपभाष्यम्) एवमपि व्यतिकरः प्राप्नोति - एकस्मिन्नपि द्विवचनबहुवचने प्राप्नुतः द्वयोरप्येकवचनबहुवचने प्राप्नुतः बहुष्वप्येकवचनद्विवचने प्राप्नुतः ॥ (समाधानभाष्यम्) अर्थतो व्यवस्था भविष्यति ॥ (परिगणनाधिकरणम्) (भाष्यम्) परिगणनं कर्तव्यम् ॥ (1462 परिगणनवार्तिकम् ॥ 4 ॥) - तिङ्कृत्तद्धितसमासैः परिसंख्यानम् (उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिवचनम्)- (भाष्यम्) तिङ्कृत्तद्वितसमासैः परिसंख्यानं कर्तव्यम्। तिङ् - क्रियते कटः। तिङ् ॥ कृत - कृतः कटः। कृत् ॥ तद्धितः - औपगवः कापटवः। तद्धितः ॥ समास - चित्रगुः शबलगुः। समास ॥ उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिवचनम्। उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिर्वक्तव्या। क्व?। कटं करोति भीष्ममुदारं शोभनं दर्शनीयमिति। कटशब्दादुत्पद्यमानया द्वितीययाभिहितं कर्मेति कृत्वा भीष्मादिभ्यो द्वितीया न प्राप्नोति ॥ (आक्षेपभाष्यम्) का तर्हि स्यात्? ॥ (समाधानभाष्यम्) षष्ठी ॥ (प्रत्याख्यानवादिभाष्यम्) शेषलक्षणा षष्ठी अशेषत्वान्न भविष्यति। अन्या अपि न प्राप्नुवन्ति ॥ किं कारणम्?। कर्मादीनामभावात् ॥ समयश्च कृतः - न केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्ययः इति। न चान्या उत्पद्यमाना एतमभिसंबन्धमुत्सहते वक्तुमिति कृत्वा द्वितीया भविष्यति ॥ अथवा कटोपि कर्म भीष्मादयोपि, तत्र कर्मणि इत्येव सिद्धम् ॥ अथ वा कट एव कर्म तत्सामानाधिकरण्याद्भीष्मादिभ्यो द्वितीया भविष्यति। तस्मान्नार्थः परिगणनेन ॥ (गुणप्रधानक्रिययोः प्रधानानभिहितग्रहणाधिकरणम्) (1463 आक्षेपवार्तिकम् ॥ 5 ॥) - द्वयोः क्रिययोः कारकेन्यतरेणाभिहिते विभक्त्यभावप्रसङ्गः - (भाष्यम्) द्वयोः क्रिययोः कारकेऽन्यतरेणाभिहिते विभक्तिर्न प्राप्नोति। क्व?। प्रासादे आस्ते शयने आस्त इति ॥ किं कारणम्? सदिप्रत्ययेनाभिहितमधिकरणमिति कृत्वा सप्तमी न प्राप्नोति ॥ (1464 बाधकवार्तिकम् ॥ 6 ॥ - न वान्यतरेणानभिधानात् (अनभिहिते हि विधानम् -) (भाष्यम्) न वा एष दोषः। किं कारणम्?। अन्यतरेणानभिधानात्। अन्यतरेणात्रानभिधानम्। सदिप्रत्ययेनाभिधानम्। आसिप्रत्ययेनानभिधानम्। यतोऽनभिधानं तदाश्रया सप्तमी भविष्यति ॥ कुतो नु खल्वेतत्सत्यभिधाने चानभिधाने चानभिहिताश्रया सप्तमी भविष्यति, न पुनरभिहिताश्रयः प्रतिषेध इति?। अनभिहिते हि विधानम्()। अनभिहिते हि सप्तमी विधीयते। नाभिहिते प्रतिषेधः ॥ (आक्षेपसाधकभाष्यम्) यद्यपि तावदत्रैतच्छक्यते वक्तुं यत्रान्या चान्या च क्रिया। यत्र तु खलु सैव क्रिया तत्र कथम् - आसने आस्ते शयने शेत इति! ॥ (आक्षेपबाधकभाष्यम्) अत्राप्यन्यत्वमस्ति। कुतः?। साधनभेदात्कालभेदच्च। प्रकस्यात्रासेरासिः साधनम्, सर्वकालश्च प्रत्ययः। अपरस्य बाह्यं साधनम्, वर्तमानकालश्च प्रत्ययः ॥ (साधननिर्णयाधिकरणम्) (आक्षेपभाष्यम्) किं पुनर्द्रव्यं साधनम्। आहोस्विद् गुणः?। किं चातः?। यदि द्रव्यं साधनम्, नैतदन्यद्भवत्यभिहितात्। अथ हि गुणः साधनम्, भवत्येतदन्यदभिहितात्। अन्यो हि सदिगुणः। अन्यश्चासिगुणः ॥ किं पुनः साधनं न्याय्यम्? ॥ (समाधानभाष्यम्) गुण इत्याह ॥ कथं ज्ञायते?। एवं हि कश्चित्कं चित्पृच्छति - क्व देवदत्त इति। स तस्मायाचष्टे - असौ वृक्षे इति। कतरस्मिन्?। यस्तिष्ठतीति। स वृक्षोधिकरणं भूत्वान्येन शब्देनाभिसंबन्ध्यमानः कर्ता संपद्यते ॥ द्रव्ये पुनः साधने सति यत्कर्म कर्मैव स्यात्, यत् करणं करणमेव, यदधिकरणमधिकरणमेव ॥ (प्रत्याख्यानाधिकरणम्) (1465 प्रत्याख्यानप्रतिज्ञाहेतुवार्तिकम् 7 ॥) - अनभिहितवचनमनर्थकं प्रथमाविधानस्यानवकाशत्वात् - (भाष्यम्) अनभिहितवचनमनर्थकम् ॥ किं कारणम्?। प्रथमाविधानस्यानवकाशत्वात्। अनवकाशा प्रथमा सा वचनाद्भविष्यति ॥ (प्रत्याख्यानहेतुबाधकभाष्यम्) सावकाशा प्रथमा ॥ कोवकाशः? अकारकम् - वृक्षः प्लक्ष इति ॥ (1466 प्रत्याख्यानहेतुसाधकवार्तिकम् 8 ॥) - अवकाशोऽकारकमिति चेन्नास्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोप्यस्ति- (भाष्यम्) अवकाशोऽकारकमिति चेत्। तन्न। किं कारणम्? अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोप्यस्तीति गम्यते। वृक्षः प्लक्षः अस्तीति गम्यते ॥ (1467 प्रत्याख्यानहेत्वन्तरवार्तिकम् 9 ॥) - विप्रतिषेधाद्वा प्रथमाभावः - (भाष्यम्) अथ वा द्वितीयादयः क्रियन्ताम्, प्रथमा वेति। प्रथमा भविष्यति विप्रतिषेधेन। द्वितीयादीनामवकाशः - कटं करोति भीष्ममुदारं शोभनं दर्शनीयमिति। प्रथमाया अवकाशः - अकारकं वृक्षः प्लक्ष इति। इहोभयं प्राप्नोति - कृतः कटो भीष्मः उदारः शोभनो दर्शनीय इति। प्रथमा भविष्यति विप्रतिषेधेन ॥ (हेत्वन्तरबाधकभाष्यम्) न सिध्यति। परत्वात् षष्ठी प्राप्नोति ॥ (हेत्वन्तरभाष्यम्) शेषलक्षणा षष्ठी असेषत्वान्न भविष्यति ॥ (1468 प्रत्याख्याननिराकरणवार्तिकम् 10 ॥) - कृत्प्रयोगे तु परं विधानं षष्ठ्यास्तत्प्रतिषेधार्थम्- (भाष्यम्) कृत्प्रयोगे तु परत्वात्षष्ठी प्राप्नोति। तत्प्रतिषेधार्थमनभिहिताधिकारः कर्तव्यः। कर्तव्यः कट इति ॥ स कथं कर्तव्यः?। यद्येकत्वादयो विभक्त्यर्थाः ॥ अथ हि कर्मादयो विभक्त्यर्थाः नार्थोनभिहिताधिकारेण ॥ अनभिहि ॥ 1 ॥

Kashika

अनभिहित इत्यधिकारोऽयं वेदितव्यः। यदित ऊर्ध्वमनुक्रमिष्यामोऽनभिहित इत्येवं तद् वेदितव्यम्। अनभिहितेऽनुक्तेऽनिर्दिष्टे कर्मादौ विभक्तिर्भवति। केनानभिहिते? तिङ्कृत्तद्धितसमासैः परिसंख्यानम्। वक्ष्यति — कर्मणि द्वितीया (२.३.२) — कटं करोति। ग्रामं गच्छति। अनभिहित इति किम्? तिङ् — क्रियते कटः। कृत् — कृतः कटः। तद्धित — शत्यः। शतिकः। समास — प्राप्तमुदकं यं ग्रामम्, प्राप्तोदको ग्रामः। परिसंख्यानं किम्? कटं करोति भीष्ममुदारं दर्शनीयम्। बहुषु बहुवचनम् (१.४.२१) इत्येवमादिना संख्या वाच्यत्वेन विभक्तीनामुपदिष्टा, तत्र विशेषणार्थमिदमारभ्यते — अनभिहितकर्माद्याश्रयेष्वेकत्वादिषु द्वितीयादयो वेदितव्या इति॥

Siddhanta Kaumudi

इत्यधिकृत्य ॥

Balamanorama

अनभिहिते - अनभिहिते । इत्यधिकृत्येति । द्वितीयादि वक्ष्यत इत्यर्थः ।

Tattvabodhini

अनभिहिते - अनभिहिते इतचि । ननुबहुपटु॑रित्यादौ बहुच्प्त्र्ययेनोक्तार्थत्वात्कल्पबादयो यथा न प्रवर्तन्ते तथाक्रियते कट॑इत्यादावपि तिङादिभिरुक्तार्थत्वाद्द्धितीया न भविष्यति । किञ्चकटं करोती॑त्यादौ सावकाशा द्वितीयाकृतः कट॑इत्यादौ निरवकाशया प्रथमाया बाधिष्यते । न च वृक्षः प्लक्ष इत्यादौ प्रथमाया अवकाशः, तत्रापि प्रतीयमानामस्तिक्रियां प्रति कर्तृत्वेन तृतीयाप्रसङ्गात् । अथोच्यते -॒नीलमिदं न तु रक्त॑मित्यादौ विशेषणान्तरनिवृत्तितात्पर्यके अस्ति क्रियाया अनावश्याकत्वात्प्रथमाया अस्त्येवाऽवकाश इति, तर्हि उभयोः सावकशत्वे परत्वात्प्रथमैव स्यात् ।तथा चाऽनभिहिताधिकारो वृथैवेति चेत् । अत्राहुः — ॒सङ्ख्या विभक्त्यार्थः॑इति पक्षे सूत्रारम्भ आवश्यकः । तथाहि सूत्रारम्भेकर्मणि द्वितीये॑त्यस्याऽनभिहिते कर्मणि यदेकत्वं तत्र द्वितीयैकवचनमित्यर्थः । सूत्राऽनारम्भे च कर्मणि यदेकत्वं तत्र द्वितीयैकवचनमिति हि वाक्यार्थः । तथा च सति कृतः कट इत्यादौ क्तेन कर्ममात्रोक्तावपि तदेकत्वस्याऽनुक्ततया अम् दुर्वारः स्यचात् । न च परत्वात्प्रथमैव स्यादित वाच्यम् ।कर्यव्यः कट॑इत्यादौ ततोऽपि परत्वेन कृद्योगलक्षणषष्ठीप्रसङ्गात् ।कारकं विभक्त्य्रथः॑इति पक्षे तु कारकस्य क्तप्रत्यया दिनैवोक्तत्वात्प्रातिपदिकार्थे प्रवृत्तायाः प्रथमाया एकत्वादिबोधनसम्भवाच्चाऽमादिविभक्तेरप्रवृत्तौअनभिहिते॑इति सूत्रं प्रत्याख्यातमाकरे इति.पक्षे तु कारकस्य क्तप्रत्ययादिनैवोक्तत्वात्प्रातिपदिकार्थे प्रवृत्तायाः प्रथमाया एकत्वादिबोधनसम्भवाच्चाऽमादिविभक्तेरप्रवृत्तौअद्योत्ये ॑इत्यर्थः । तथा च क्तप्रत्ययादिभिरद्योत्ये कर्मणि द्वितीयत्येदिवाक्यार्थः । तत्राप्येकेन द्योतिते द्योतकान्तरं न प्रवर्तत इत्यभ्युपगमेत्वनभिहिताऽधिकारो नातीवोपयुज्यत इति दिक् ।

Padamanjari

अनभिहिते॥ अनभिहितशब्दोऽयमनेकार्थः, तथा हि - अभिपूर्वस्य दधातेर्हिनोतेश्चैतद्रूपं सम्भवति; अभिपूर्वश्च दधातिर्बन्धनेऽपि द्दष्टः - अश्वाभिधानीमादत इति, उच्चारणेऽपि - अभिहितः श्लोक इति, प्रतिपादनेऽपि - अभिहितोऽर्थ इति; हिनोतिरपि गतौ वृद्धौ च वर्तते, इह तु वक्ष्यमाणानां कर्मादीनां बन्धनाद्यर्थचतुष्टयासम्भवात्प्रतिपादनवचनोऽभिहितशब्द इत्याह - अनभिहिते अनिर्दिष्टे अनुक्त इति। वचिरत्र प्रतिपादनवचनः। उक्तार्थानामप्रयोग इति यथा सामान्येन ठभिहितेऽ इत्येतावत्युच्यमाने कट्ंअ करोति भीष्णमुदारं दर्शनीयमित्यत्र कटशब्दाद्विशेष्यवाचिन उत्पद्यमानया द्वितीययाऽनवयवेन कटगतस्य कर्मत्वस्याभिहितत्वाद्भीष्मादिभ्यो द्वितीया न स्यादिति मन्यमानः पृच्छति - केनानभिहित इति। इतरोऽपि विदिताभिप्राय आह - तिङ्कृतद्धितसमासैरिति। बहुषु प्रयुक्तेषु केषाञ्चिद्वर्जनेन केषाञ्चित्कार्यान्वप्रतिपादनमूउपरिसंख्यानम्, प्रत्युदाहरणेषु सर्वत्र द्वितीया न भवति। कट्ंअ करोति भीष्ममित्यादि। कटः कृतो भीष्म उदारो दर्शनीय इति करोतेरुत्पद्यमानः क्तप्रत्ययोऽनवयवेन सर्वकर्माभिधते तद्वद् द्वितीयापीति यो मन्दधीर्मन्यते तं प्रतीदं परिगणनभ्, सूक्ष्मद्दशस्तु प्रति न वक्तव्यमेव। तथा हि प्रातिपदिकादुत्पद्यमाना द्वितीया यदाकारविशिष्टोऽर्थः प्रातिपदिकेनाभिधीयते तदाकारविशिष्टस्यैव कर्मभावमाचष्टे। कठशब्देन कटत्वजातिविशिष्टोऽर्थोऽभिधीयते,न भीष्माद्याकारविशिष्ट इति तत्प्रतिपादनाय यथा भीष्मादिशब्दप्रयोगो भवति तथा तदाकारविशिष्टस्य कर्मत्वाभिधानाय द्वितीया भविष्यति। क्तप्रत्ययस्तु प्रकृत्यर्थस्य न कर्मतामाचष्टे, किन्तु प्रकृत्यर्थं प्रति यस्य कर्मभावः तमिति युक्तं यदनवयवेन सर्वकर्माभिधते। ननु च कर्मादयो विभक्त्यर्थास्तेषां च तिङदिभिरभिरितवचनमनर्थकम्, अन्यत्रापि विहितस्याभावादभिहिते, यत्राप्यनभिहिताधिकारो न क्रियते तत्रापि शब्दान्तरप्रतिपादितेऽर्थे नैव विहितं भवति, तद् यथा - बहुपटुअरिति बहुचोक्तत्वादीषदसमाप्तेः सत्यपि सम्भवे कल्पबादयो न भवन्ति, द्विर्दश द्विदशाः - समासेनोक्तत्वात्सुजर्थस्य सुज्न भवति, पटुअगुप्तौ - द्वन्द्वेनोक्तत्वाच्चार्थस्य च - शब्दो न प्रयुज्यते; तद्वदत्रापि तिङदिभिरभिहितत्वादेव द्वितीयादयो न भविष्यन्ति। नन्वभिहितार्थस्यापि प्रयोगो द्दष्टः - अपूपौ द्वाविति, सत्यम्; अयं तु न्यायः यदुताभिहिते विहितं न स्यात्, न हि व्यसनितया शब्दः प्रयुज्यते, अपि त्वर्थाभिधानाय, स चेदर्थः शब्दान्तरेणाभिहितः किमिति शब्दान्तरं प्रयुज्यते, अक्षिनिकोचादिभिरप्यवगतेऽर्थे शब्दो नैव प्रयुज्यते, किं पुनः शब्देनैवाभिहिते। अपूपौ द्वावित्यादौ तु द्वावानय कौ द्वौ ताविति सामान्योपक्रमे वाक्यमिति यथाकथञ्चिदुपपादनीयम्, तस्मान्नार्थ एतेनेत्याशङ्क्य संख्यापि विभक्त्यर्थ इति दर्शयन्नाह - बहुषु बहुवचनमित्येवमादिनेति। अयमर्थः -‘त्रिकः प्रातिपदिकार्थः’ इत्यस्मिन्दर्शने कर्मादिवदेकत्वादिसंख्याविभक्त्यर्थः, तत्र कर्मादीनां युगपद्विभक्तिभिरभिधीयमानानां परस्परं विशेषणविशेष्यभावमनापन्नानां केवलप्रातिपदिकार्थगतानामभिधानं वृक्ष एको वृक्षः कर्म पशुरेकः पशुः करणमिति वाभिधानम्, पश्चाच्चैकक्रियान्वयबलेन परस्परसम्बन्ध इति प्राभाकरा मन्यन्ते। भाट्टास्तु परम्परासम्बद्धस्य स्वतन्त्रस्यानेकार्थस्याक्षाः, पादाः, माषा इत्यादावभिधानदर्शनेऽप्येकशेषमन्तरेणादर्शनात् यजेतेत्यादौ च कृतिकार्ययोर्युगपल्लिङभिधीयमानयोरपि विशेषणविशेष्यभावस्य प्राभाकरैरप्यभ्युपगमातद्वदेव विशिष्टाभिधानं मन्यन्ते। अस्माकमप्ययमेव पक्षः। तत्र कर्मादयो विशेषणम्, एकत्वादयो विशेष्याः, कर्मणि यदेकत्वं तत्र द्वितीयैकवचनमिति। विपर्ययो वा - एकत्वादिविशिष्ट्ंअ यत्कर्म तत्र द्वितीयेति। तत्र यद्यपि कर्मादिप्राधान्यपक्षे तिङदिभिः प्रधानभूतानां कर्मादिनामभिहितत्वादप्रसङ्गः, द्वितीयादीनां संख्याप्राधान्यपक्षे कर्मादिष्वभिहितेष्वपि प्रधानभूतसंख्याभिधानाय द्वितीयादयः स्युरेव। प्राभाकरे तु पक्षे कर्माद्यंशाभिधानेऽपि संख्यांशस्यानभिहितस्याभिधानाय द्वितीयादयः स्युरिति। अनभिहितकर्माश्रयेष्विति। अनभिहितानि कर्मादीन्याश्रयो येषां तेष्वित्यर्थः। एतेन कर्मणीत्यादिसप्तमीनिर्द्देश एकत्वादीनामाधारतया, न पुनरभिधेयतयेति दर्शितम्। अनभिहित इति। यदि प्रसज्यप्रतिषेधः स्याततो द्वयोः क्रिययोः कारकेऽन्यतरेणाभिहितेऽपि विभक्त्यभावप्रसङ्गः, प्रासाद आस्ते इत्यत्र सदिक्रियाया आसिक्रियायाश्चैकमधिकररगं प्रासादाख्यं तच्चान्यतरेण सदिप्रत्ययेन घञाभिहितम् - प्रसीदन्त्यस्मिन्प्रासाद इति, तत्राभिहिते न भवतीत्युच्यमाने सप्तमी न स्यात्। पर्युदासे त्वासिप्रत्ययेन यदनभिधानं तदाश्रया सप्तमी सिद्व्यति। ननु च प्रासादाख्यस्य द्रव्यस्य कारकत्वादभिहितत्व दन्यत्वं नास्ति? नैष दोषः; शक्तिः कारकम्, तत्र सदिक्रियाशक्त्यभिधानेऽप्यासिक्रियाशक्तेरनभिधानम्। नन्वेवं प्रसज्यप्रतिषेधेऽपि या शक्तिरभिहिता तत्र मा भूद्विभक्तिः, या त्वनभिहिता तत्र भविष्यति? उच्यते - अनभिहिते कर्मणीत्येकत्वादीनामाधारनिर्द्देशः संख्या च द्रव्यधर्मः, अतोऽनभिहिते कर्मणीत्यादिभिरपि शक्तिद्वारेण द्रव्यमेवोच्यते - अनभिहिता या कर्मादिशक्तिस्तदाधारभूतं यद् द्रव्यं तस्यैकत्वादिषु विभक्तय इति। एवं च यदि प्रसज्यप्रतिषेधः स्याततोऽभिहितशक्तिद्वारेण द्रव्यस्याभिहितत्वात्प्रतिषेधः स्यात्; पर्युदासे तु अनभिहितशक्तिद्वारे विधिरिति स्पष्ट एव फलभेदः। यत्र तर्हि शक्तिभेदो नास्ति तत्र कथम् - आसने आस्ते, शयने शेत इति? अत्राप्यासनशयनादिशब्दैरासनादिक्रियायोग्यं वस्तुमात्रमनुद्भुतशक्तिकमभिहितमिति तस्य शक्त्युद्भवप्रतिपादनाय विभक्तिर्भविष्यति। यदि तर्हि पर्युदासोऽयमिति निर्मीयते, इह पक्त्वा भुज्यत ओदना इति भुजिप्रत्ययेनाप्यभिहित ओदने क्त्वाप्रत्ययेनानभिधानमाश्रित्य द्वितीया प्राप्नोति, भावे हि क्त्वाप्रत्ययः; प्रसज्यप्रतिषेधे तु भुजिप्रत्ययेनाभिधानमाश्रित्य प्रतिषेधः सिद्ध्यति? उच्यते; नात्रौदनस्य युगपदुभाभ्यां शाब्द एवान्वयः, किं तर्हि? भुजिनैव, सन्निधानातु पचिनान्वयः। केवलशब्दव्यापारनिरूपणे तु किमिष्टकाः पक्त्वौदनो भुज्यते, उतौदनमेवेति न ज्ञायते, अतः शब्दव्यापारापेक्षयाभिधानमेवेति द्वितीया न भविष्यति। अनभिहितवचनमनर्थकम्; प्रथमाविधानस्यानवकाशत्वात्। कृतः कट इत्यादिषु द्वितीयादयो मा भूविन्निति सूत्रारम्भः। यदि चात्रापि स्युः, क्वेदानीं प्रथमा स्यात्। नन्वनवकाशत्वात्प्रथमा भवन्ती कृतः कट इत्यादावेव भवतीति न पुनः कट्ंअ करोतीत्यादावपीति कुतोऽयं नियमः? उच्यते - कृतः कट इत्यादौ यद्यपि कृतशब्दसन्निधाने कटस्य कर्मता प्रतीयते, तथापि तत्र वाक्यार्थत्वादव्यतिरिक्त एव प्रातिपदिकार्थ इति प्रथमा भविष्यति, यथा - विरः पुरुष इति। कट्ंअ करोतीत्यत्र तु कटशब्देनैव कर्मशक्तिमानर्थोऽभिधीयत इति व्यतिरिक्तत्वात्प्रातिपदिकार्थस्य प्रथमा न भविष्यति। नन्वकारकेषु सावकाशा प्रथमा,यथा - वृक्ष इति? अत्राप्यस्तीति प्रतीतेः कर्तृ त्वातृतीयाप्रसङ्गः। यत्र ह्यन्यत्क्रियापदं न श्रूयते तत्रान्तरङ्गत्वादस्तीति गम्यते, लब्धसताकस्य हि विशेषणान्तरयोगो भविष्यति। अथापि यत्र विशेषणान्तरनिवृतौ तात्पर्यम्, न क्रियासम्बन्धे, यथा - नीलमुत्पलं न रक्तम्, राज्ञोऽयं पुरुषो न देवदतस्येति, न ह्यत्र नीलमुत्पलमुत्पलमस्ति, राज्ञः पुरुषोऽस्तीति प्रतीतिः, अतोस्त्येवाकारकमवकाश इत्युच्येत? एवमपि विप्रतिषेधात्प्रथमा भविष्यति। द्वितीयादीनामवकाशो यत्र प्रातिपदिकार्थस्य व्यतिरेकः - कट्ंअ करोतीति; प्रथमायास्त्वकारकमवकाशः - नीलमुत्पलमिति; कृतः कट इत्यत्रोभयप्रसंगे परत्वात्प्रथमैव भविष्यति। ननु तामपि बाधित्वा परत्वात्, षष्ठी प्राप्नोति, शेषलक्षणा षष्ठी प्रातिपदिकार्थमात्रस्य प्रथमाविधावुपयोगादशेषत्वान्न भविष्यति। इह तर्हि कर्तव्यः कट इति कृत्प्रयोगे प्रथमां बाधित्वा’कर्तृ कर्मणोः कृति’ इति षष्ठि स्यात्, तत्प्रतिषेधार्थमनभिहिताधिकारः कर्तव्यः। तदेवं संख्याविभक्त्यर्थ इत्यस्मिन्पक्षे कर्तव्यं सूत्रमिति स्थितम्॥

Nyaas

दधातेर्हिनोतेर्वाऽनभिहित इत्यस्य रूपम्; समानत्वात्, अनेकार्थत्वाच्च धातूनाम्। न ज्ञायते किमर्थस्यानभिहितशब्दस्य ग्रहणमिति सन्देहः स्यात्, अतस्तं निराकर्त्तुमाह - अनभिहितेऽनुक्ते इत्यादि। यद्यनभिहिते कर्मादौ द्वितीयादयो विभक्तयो भवन्तीति सामान्येनोच्येत; ततो यथा कृतः कटः इत्यत्र क्तप्रत्ययेन कर्मणोऽभिहितत्वात् कटशब्दाद्द्वितीया न भवति, तथा कटं करोति, भीष्ममूदारं शोभनं दर्शनीयम् इत्यत्र कटशब्दादुत्पद्यमानया द्वितीयया भीष्मादिगतस्य कर्मणोऽभिहितत्वाद्भीष्मादिभ्यो द्वितीया न प्राप्नोति। तस्मात् कश्चिद्विशेषोऽत्राभिमत इति मत्वा तं विशेषं पृच्छति - केनानभिहितते? इति। इतरो विदिताभिप्राय आह - तिङकृत्तद्धितसमासैः इत्यादि। क्रियत इति कर्मणि लकारः। सार्वधातुके यक् (3.1.67) । रिङ शयग्लिङशु (7.4.28) इति रिङादेशः। शत्यः, शतिकः इति। शताच्च ठन्यतावशते (5.1.21) इति ठन्यतौ भवतः।बहुषु बहुवचनम् इत्येवमादि। तत्रेदमुक्तम्- कर्मादयोऽव्यपरे विभक्तीनां वाच्याः, अत स्तदीये बहुत्वे बहुवचनं भवतीति। एवञ्च ब्राउवता वृत्तिकृता कर्माद्याश्रितायां संख्यायां द्वितीयादयो विभक्तयो भवन्तीत्येतदुक्तं भवति। न च तत्र कश्चिद्विशेष उपात्तः। सन्ति च कर्मादयोऽभिहिताः, अनभिहिताश्च। तत्र विशेषानुपादान्त, यथा अनभिहितकर्माद्याश्रयेष्वेकत्वादिषु द्वितीयादयो विभक्तयो भवन्ति, तथाऽभिहितकर्माद्याश्रयेष्वपि स्युः। अतोऽनभिहिता ये कर्मादयस्तदाश्रयेष्वेकत्वादिषु यथा विभक्तयः स्युरन्यत्र मा भूवन्नित्यनभिहित इत्येतद्विशेषणमारभ्यते। अनभिहितकर्माद्याश्रयेषु इति। अनभिहिताः कर्मादय आश्रया येषामिति बहुव्रीहिः। एतेन बहुषु बहुवचनम् (1.4.21) इत्यादेः शास्त्रस्य, अनभिहित इत्येतस्य च कर्मणि द्वितीया (2.3.2) इत्येवनमादिभिः सहैकवाक्यतां दर्शयति - अनभिहिते कर्मणि द्वितीया बहुषु बहुवचनमिति। एवमन्यत्राप्येकवाक्यता वेदितव्या। एकवाक्यता च गुणप्रधानभावमन्तरेण न सम्भवतीत्येकस्य गुणभावेन भवितव्यम्, अपरस्य प्रधानभावेन। तत्र विशेषणत्वादनभिहित इत्यस्य कर्माद्येपेक्षया गुणबावः, कर्मादीनां तु विशेष्यत्वात् प्राधान्यम्, एकत्वाद्यपेक्षया कर्मादीनान्तु विशेषणत्वादप्राधान्यम्। एकत्वादीनां विशेष्यत्वात् प्रधानभावः। अथ कथं कटशब्दादुत्पद्यमाना द्वितीया मीष्मादिपदानुगतं कर्माभिदधाति, यथा - निष्ठेति चेत्? स्याददत् - यथा कटः कृतो भीष्म उदारः शोभनो दर्शनीय इत्यत्र करोतेः कर्मण्युत्पद्यमाना निष्ठा सर्व भीष्मादिकमपि कर्माभिदधाति,तथा कटशब्दादुत्पद्यमाना द्वितीया इति, वार्तमेतत्; कृत इति क्रियाकारकसम्बन्धनिमित्तकभिधानम्। क्रिया चोत्पद्यमाना सामर्थ्यात् सर्वाणि कारकद्रव्याण्याक्षिपति। ततः कृञ उत्पद्यमानः क्तः साधारणतया यावत् करोतेरुयाति कर्मतां तावत् सर्वमेवाभिदधातीति युक्तम्। भीष्मादिगताया अपि कर्मतायाः क्तप्रत्ययेनाभिधानम्। कटस्तु विशिष्टद्रव्यवचनः, तत उत्पद्यमाना द्वितीया तद्गतमेव कर्म शक्नोत्यभिधातुम्, नान्यगतं किञ्चित्, तत्कथं तया भीष्मादिगतमपि कर्माभिधीयते? तथा च निरर्थकं परिगणनम्। तस्मात् तिङकृत्तद्धितसमासैरेवाभिधानं सम्भवतीति सम्भवदुदाहरणप्रदर्शनमपरमेतत् परिसंख्यानं वेदितव्यम्, न परिगणनम्॥

Praudhamanorama

ननु बहुपटुरित्यादौ बहुचा उक्तार्थत्वाद्यथा कल्पबादयो न, एवं क्रियते कटः इत्यादावपि तिङादिभिरुक्तार्थत्वाद् द्वितीया न भविष्यति, किं च कटं करोतीत्यादौ सावकाशा द्वितीया ‘कृतः कटः’ इत्यादिषु प्रथमया बाधिष्यते, निरवकाशत्वात्। न च वृक्ष इत्यादिरवकाशः, तत्रापि प्रतीयमानामस्तिक्रियां प्रति कर्तृत्वेन तृतीयाप्रसङ्गात्। अथ नीलमिदं न तु रक्तमित्यादौ विशेषणान्तरनिवृत्तितात्पर्यके अस्तिक्रियाया अनावश्यकत्वात् प्रथमाया अवकाशं ब्रूषे, तर्हि विप्रतिषेधात् प्रथमास्तु। एवं चानभिहिताधिकारो वृथेति चेत्? मैवम्, संख्या विभक्त्यर्थ इति पक्षे सूत्रारम्भात्। तथा चाऽनभिहिते कर्मणि यदेकत्वं तत्र द्वितीयैकवचनममित्यर्थः। सूत्रानारम्भे च कर्मणि यदेकत्वं तत्र द्वितीयैकवचनमम् इति हि वाक्यार्थः। तथा सति ‘कृतः कटः’ इत्यादौ च क्तेन कर्ममात्रोक्तावपि तदेकत्वस्यानुक्ततया अम् दुर्वारः। परत्वात्प्रथमेत्यपि न, ‘कर्तव्यः कटः’ इत्यादौ ततोऽपि परत्वेन कृद्योगलक्षणषष्ठीप्रसङ्गात्। कारकं विभक्त्यर्थ इति पक्षे सूत्रं प्रत्याख्यातमाकरे।

Prakriyasarvasvam

तिङ्कृत्तद्धितसमासैरनभिहित एव कारके विभक्तय उच्यन्ते ।।

Vartika

तिङ्कृत्तद्धितसमासैः परिसंख्यानम् ।