Sutras 1 - 20¶
- 21001: समर्थः पदविधिः
- 21002: सुबामन्त्रिते पराङ्गवत् स्वरे
- 21003: प्राक् कडारात् समासः
- 21004: सह सुपा
- 21005: अव्ययीभावः
- 21006: अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु
- 21007: यथासादृश्ये
- 21008: यावदवधारणे
- 21009: सुप्प्रतिना मात्रार्थे
- 21010: अक्षशलाकासंख्याः परिणा
- 21011: विभाषा
- 21012: अपपरिबहिरञ्चवः पञ्चम्या
- 21013: आङ् मर्यादाभिविध्योः
- 21014: लक्षणेनाभिप्रती आभिमुख्ये
- 21015: अनुर्यत्समया
- 21016: यस्य चायामः
- 21017: तिष्ठद्गुप्रभृतीनि च
- 21018: पारे मध्ये षष्ठ्या वा
- 21019: संख्या वंश्येन
- 21020: नदीभिश्च