21003: प्राक् कडारात् समासः

Padacheda: प्राक् | S | 0 | 0 |

कडारात् | S | 5 | 1 |

समासः | S | 1 | 1 |

Sutrartha

इतः परम् **कडाराः कर्मधारये (2.2.38) इतिपर्यन्तम् समाससंज्ञकाः वक्ष्यन्ते ।**

Sutrartha (English)

The समास term is discussed from this sutra onwards till the end of second पाद of the second chapter.

Vasu English Summary

From this point up to the aphorism कडाराः कर्मधारये (2.2.38), all the terms that we shall say, describe will get the designation of समास or compound

Vasu English Translation

From this point up to the aphorism कडाराः कर्मधारये (2.2.38), all the terms that we shall say, describe will get the designation of समास or compound Thus it will be stated. ‘The indeclinable word यया when not meaning like unto.’ Here the word समास must be read into the sutra to complete the sense. • In fact this chapter and the second chapter treat of compounds and therefore the word compound must be read in all those aphorisms.

The word prák is employed for the same purpose as it was used in (1.4.56) that is to give the designation of समास to various technical terms like अव्ययीभाव &c. which otherwise would not have got the name of समास.

Bhashya

प्राक्कडारात्समासः (352) (223 अधिकारसूत्रम् ॥ 2.1.2 ॥ अ.2.सू.) (प्राग्ग्रहणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) प्राग्वचनं किमर्थम्? ॥ (1233 समाधानवार्तिकम् ॥ 1 ॥) ॥ प्राग्वचनं समाससंज्ञाऽनिवृत्त्यर्थम् ॥ (व्याख्याभाष्यम्) प्राग्वचनं क्रियते समाससंज्ञाया अनिवृत्तिर्यथा स्यात्। अक्रियमाणे प्राग्वचने अनवकाशा अव्ययीभावादयः संज्ञाः समाससंज्ञां बाधेरन्, ता मा बाधिषतेति प्राग्वचनं क्रियते ॥ (एकदेशिनआक्षेपभाष्यम्) अथ क्रियमाणेपि प्राग्वचने यावता अनवकाशा अव्ययीभावादिसंज्ञाः कस्मादेव न बाधन्ते? ॥ (एकदेशिनःसमाधानभाष्यम्) क्रियमाणे हि प्राग्वचने सत्यां समाससंज्ञायामेता अवयवसंज्ञा आरभ्यन्ते। तत्र वचनात्समावेशो भविष्यति ॥ (समाधानबाधकभाष्यम्) समाससंज्ञाप्यनवकाशा। सा वचनाद्भविष्यति ॥ (समाधानसाधकभाष्यम्) सावकाशा समाससंज्ञा ॥ कोवकाशः? विस्पष्टादीन्यवकाशः। विस्पष्टं पटुः विस्पष्टपटुः। व्यक्तं पटुः व्यक्तपटुः ॥ (समाधानबाधकभाष्यम्) नैषोवकाशः। एषा ह्याचार्यस्य शैली लक्ष्यते - येनैवावयवकार्यं भवति तेनैव समुदायकार्यमपि भवतीति। येनैव चात्रावयवकार्यं स्वरः क्रियते, तेनैव समुदायवकार्यं समासोपि भविष्यति - विस्पष्टादीनि गुणवचनेषु इति ॥ (प्रयेजनसमाधानान्तरभाष्यम्) इदं तर्हि - काकतालीयमजाकृपाणीयम्। (प्रयोजननिरासभाष्यम्) एतदपि नास्ति प्रयोजनम्। अत्रापि येनैवावयवकार्यं प्रत्ययोत्पत्तिः क्रियते, तेनैव समुदायकार्यं समाससंज्ञा भविष्यति समासाच्च तद्विषयाद् इति ॥ (प्रयोजनान्तरभाष्यम्) इदं तर्हि - पुनाराजः पुनर्गवः ॥ (प्रयोजननिरासभाष्यम्) अत्राप्यवश्यं तत्पुरुषसंज्ञा वक्तव्या। तत्पुरुषाश्रयः समासान्तो यथा स्यात् ॥ (प्रयोजनभाष्यम्) इदं तर्हि - पुनराधेयम् ॥ (प्रयोजननिराकरणभाष्यम्) अत्राप्यवश्यं गतिसंज्ञा वक्तव्या गतिकारकोपपदात्कृद् इत्येष स्वरो यथा स्यात् ॥ (प्रयोजनभाष्यम्) इदं तर्हि - पुनरुत्स्यूतं वासो देयम् ॥ (प्रयोजननिरासभाष्यम्) अत्राप्यवश्यं गतिसंज्ञा वक्तव्या गतिर्गतौ इति निघातो यथा स्यात्। यदि तन्नास्ति । पुनश्चनसौ छन्दसि। इति ॥ सति तस्मिंस्तेनैव सिद्धम् ॥ (प्रयोजनभाष्यम्) एवमप्येका संज्ञेति वचनान्नास्ति यौगपद्येन संभवः। पर्यायः प्रसज्येत। तस्मात्प्राग्वचनं कर्तव्यम् ॥ प्राक्कडारात् ॥ 3 ॥

Kashika

कडारसंशब्दनात् प्राग् यानित ऊर्ध्वमनुक्रमिष्यामः, ते समाससंज्ञा वेदितव्याः। वक्ष्यति — यथासादृश्ये (२.१.७) — यथावृद्धं ब्राह्मणानामन्त्रयस्व। प्राग्वचनं संज्ञासमावेशार्थम्। समासप्रदेशाः — तृतीयासमासे (१.१.३०) इत्येवमादयः॥

Siddhanta Kaumudi

कडाराः कर्मधारये (SK751) इत्यतः प्राक् समास इत्यधिक्रियते ॥

Laghu Siddhanta Kaumudi

कडाराः कर्मधारय इत्यतः प्राक् समास इत्यधिक्रियते॥

Balamanorama

प्राक् कडारात् समासः - प्राक्कडारात् । ‘आकडारात्’ इत्येवप्रा॑गिति सिद्धे प्राग्ग्रहणमेकसञ्ज्ञाधिकारेपि अव्ययीभावादिसंज्ञासमुच्चयार्थमिति भाष्ये स्पष्टम् । सम्पूर्वकस्य अस्यतेरेकीकरणात्मकऋ संश्लेषोऽर्थः । समस्यते अनेकं पदमिति समासः ।अकर्तरि च कारके संज्ञाया॑मिति कर्मणि घञ् । अत एव मूले समस्यते इति वक्ष्यते । तथा च अन्वर्थेयं संज्ञा ।

Tattvabodhini

प्राक् कडारात् समासः - प्राक्कडारात्समासः । प्राग्ग्रहणमावर्तते, तेन पूर्वं समाससंज्ञा, ततः संज्ञान्तरमपीति लभ्यते । अतोऽव्ययीभावादिभिः समावेशः सिद्ध्यति । अन्यथा पर्यायः स्यात् । समसनं समासः । भावे घञ् । अनेकस्य पदस्य एकपदीभवनमित्यर्थ इत्येके । वस्तुतस्तु — ॒अकर्तरि च कारके -॑ इति कर्मणि घञ् । अन्यथा सुबन्तं समस्यत इत्युत्तरग्रन्थो न सङ्गच्छेत । नन्वन्वर्थत्वात्समाससंज्ञायाः प्रत्येतमप्रसङ्गात्सहग्रहणं व्यर्थमित्याशङ्क्याह - ।

Padamanjari

ठ्यथाऽसादृश्येऽ इति अनन्तरसूत्रातिक्रमे न किञ्चत्कारणम्। ननु’प्रत्ययः’ इत्यादिवत्समास इत्येव स्वरितत्वादध्कारोऽस्तु, किं प्राग्वचनेन? तत्राह-प्रागावचनमिति। प्राक्कडारादित्यवधितनिर्देश इत्यर्थः। संज्ञासमावेशार्थमिति। अन्यथैकसंज्ञाध्कारात्पर्यायः स्यात्। अवधिनिर्देशे तु सति तत्सामर्थ्यात्प्राग्ग्रहणमावर्तते। तेन प्राक् समाससंज्ञा भवन्ति, समासाः सन्तोऽव्ययीभावादिसंज्ञा इति समावेशसिध्दिः। अथ वा-कडारादिति पञ्चम्यैव प्रागिति दिक्शब्दोऽध्याहरिष्यते। न च प्रागित्यस्याध्याहारप्रसङ्गः, तदध्याहारे हि’दिक्समासे बहुव्रीहौ’ ‘तृतीयासमासे’ ‘द्वन्द्वे च ‘ समास इत्याद्यनुपपन्नं स्यात्; कडारात्प्राङ्निर्दिष्टानां समाससंज्ञाया अबावात्। तस्मात्प्रागित्येवाध्याहरिष्यते, नार्थः प्राग्वचनेन, तत्राह-प्राग्वचनमिति॥

Nyaas

यथावृद्धम् इति। अत्र समाससंज्ञायां सत्याम् कृत्तद्धितसमासाश्च (1.2.46) इत्येवमादि कार्यं भवति। अथ किमर्थं प्राग्वचनम्? यावता पञ्चमीनिर्देंशादेव प्रागित्यस्याध्याहारो भविष्यति; न च परागित्ययमपि दिक्छब्दोऽस्ति, अतस्तस्याप्यध्याहारः स्यादित्यशङ्कनीयम्, तदध्याहारे कडारसंशब्दनात् परे येऽनुक्रंस्यन्ते तेषां समाससंज्ञा स्यात्; तथा च कडारसंशब्दनादनन्तरमेव समासाधिकारं कुर्यात्, इह तु कृतः, तस्मादिह करणसामर्थ्यात् समासाधिकारस्य प्रागित्यस्याध्याहारो भविष्यति, ततो नार्थः प्राग्वचनेनेत्याह - ` प्राग्वचनम्` इत्यादि। उत्तरत्राव्ययीभावादिसंज्ञाभिः सह समाससंज्ञायाः समावेशो यथा स्यादित्येवमर्थ प्राग्वचमनम्। असति तु तस्मिन्, ताभिरनवकाशाभिरियं संज्ञाल बाध्येत। अस्यास्तु समाससंज्ञायाः सह सुपा (2.1.4) इत्यत्र सहेति योगविभागेन यः समासः क्रिते सोऽवकाशः स्यात् - अनुप्रावर्षत्, अनुव्यचलदिति, तिङन्तेनात्र समासः; असत्यपि सावकाशत्व एकसंज्ञाधिकारे वचनप्रमाण्यात् पर्यायेण वृत्तिः स्यात्, न तु समावेशः। साक्षात् सूत्रेणोपात्ते तु प्राग्वचने सति भवति समावेशः, कथम्? एवं हि सम्बन्धः क्रियते - कडारात् प्राग्यावन्तो व्यवस्थितः सर्वे ते समाससंज्ञका भवन्ति, समाससंज्ञकाः सन्तोऽव्ययीभावादिसंज्ञां लभन्त इत। तेन निमित्तमेव समाससंज्ञाऽव्ययीभावादिसंज्ञानाम्। नच निमित्तिना निमित्तं विहन्यते; अन्यथा तस्य निमित्तत्वमेव न स्यादिति युक्तः सूत्रोपात्तेन प्राग्वचनेन समावेशः। अध्याह्मते तु तस्मिन् कडारसंशब्दनात्प्राग्यावन्तो व्यवस्थिताः सर्वे ते समाससंज्ञका भवन्ति इत्येषोऽर्थो लभ्यते, न तु समाससंज्ञकाः सन्तोऽव्ययीभावादिसंज्ञकाः इत्येषोऽपि। साक्षात् सूत्रोपात्ते तु तस्मिन्नेषोऽपि लभ्यते; अन्यथा तस्य सूत्रे साक्षादुपादानमनर्थकं स्यात्॥

Prakriyasarvasvam

‘कडाराः कर्मधारये’ (२-२-३८) इत्यतः प्राग्भवाः समासाख्याः ॥