21016: यस्य चायामः¶
Padacheda: यस्य | S | 6 | 1 |
च | S | 0 | 0 |
आयामः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The word अनु ‘alongside of’ is optionally compounded with the word indicative of that whose length the particle expresses and compound so formed is called अव्ययीभाव।
Vasu English Translation¶
The word अनु ‘alongside of’ is optionally compounded with the word indicative of that whose length the particle expresses and compound so formed is called अव्ययीभाव। As, अनुगङ्गं वाराणसी ‘the city of Benares extends alongside the river Ganges’ अनुयमुनं मथुरा Mathura, alongside of the Yamuna, the length of Mathura being measured by that of the Yamuna.’
Why do we say ‘length’? Observe वक्षमनु विद्योतते विद्युत्.
Bhashya¶
यस्य चायामः (364) (232 अव्ययीभावसंज्ञासूत्रम् ॥ 2.1.2 आ.11 सू.) (उदाहरणनिरूपणाधिकरणम्) (आक्षेपभाष्यम्) किमुदाहरणम् ? ॥ (समाधानभाष्यम्) अनुगङ्गं हास्तिनपुरम्। अनुगङ्गं वाराणसी। अनुशोणं पाटलिपुत्रम् ॥ (आक्षेपभाष्यम्) यस्य चायाम इत्युच्यते। गङ्गा चाप्यायता, वाराणस्यप्यायता, तत्र कुत एतत् - गङ्गया सह समासो भविष्यति, नपुनर्वाराणस्येति? ॥ (समाधानभाष्यम्) एवं तर्हि लक्षणेन इति वर्तते। गङ्गा चैव लक्षणम् न वाराणसी ॥ (समाधानान्तरभाष्यम्) अथ वायस्य चायामः इत्युच्यते। गङ्गा चाप्यायता वाराणस्यप्यायता। तत्र प्रकर्षगतिर्विज्ञास्यते - साधीयो यस्यायामः इति। साधीयश्च गङ्गायाः, न वारणस्याः ॥ यस्य चायामः ॥ 25 ॥
Kashika¶
लक्षेणेनेति वर्तते। आयामो दैर्घ्यम्। अनुर्यस्यायामवाची तेन लक्षणभूतेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति। अनुगङ्गं वाराणसी। अनुयमुनं मथुरा। यमुनायामेन मथुरायामो लक्ष्यते। आयाम इति किम्? वृक्षमनु विद्योतते विद्युत्॥
Siddhanta Kaumudi¶
यस्य दैर्घ्यमनुना द्योत्यते तेन लक्षणभूतेनानुः समस्यते । अनुगङ्गं वाराणसी गङ्गाया अनु । गङ्गादैर्घ्यसदृशदैर्घ्योपलक्षितेत्यर्थः ॥
Balamanorama¶
यस्य चायामः - यस्य चायामः । लक्षणेनेत्यनुवर्तते । अनुरित्यनुवर्त्त्य आवर्त्त्य तृतीयया विपरिणम्यते । तत्र एकं लक्षणेनेत्यत्र संबध्यते । द्वितीयं तु अनुनेत्येतत् — ॒यस्य चायामः॑ इत्यनन्तरं संबध्यते । द्योत्यत इति शेषः । आयामो दैघ्र्यम् । तदाह-यस्य दैघ्र्यमिति । यद्दैघ्र्यसदृशं दैघ्र्यमित्यर्थः । समस्यते इति ।सोऽव्ययीभाव॑ इत्यपि बोध्यम् । अनुगङ्गमिति-समासः । लौकिकविग्रहं दर्शयति-गङ्गाया अन्विति । इहापि लक्षणत्वं वस्तुसदेव निमित्तं न त्वनुद्योत्यम् । अतो न कर्मप्रवचनीयत्वम् । द्योत्यत्वेनान्वये तु गङ्गामन्विति युक्तम् । अनुगङ्गमित्यत्र गङ्गाशब्देन गङ्गादैघ्र्यसदृशं दैघ्र्यं लक्ष्यते । तदेवानुद्योत्यम् । तदाह — गङ्गा-दैघ्र्येति ।
Tattvabodhini¶
यस्य चायामः - यस्य चा । इहानुरित्यनुवर्त्त्य आवर्त्त्यैकं तृतीयान्तत्वेन विपरिणमय्य व्याचष्टे — अनुनेति । लक्षणभूतेनेति । लक्षणेनेत्यनुवर्तत इति भावः । अनुगङ्गमिति । इहाऽऽयामोपलक्षणत्वं चानुना द्योत्यते, लक्ष्यं तु समासार्थः । अतएव वाराणस्याः सामानाधिकरण्यम् । एवं स्थिते फलितमाह — गङ्गादैध्र्येति । वाराणसीति । वरं च तदनश्च वरानः=श्रेष्ठोदकम् ।अनः क्लीबं जले शोके मातृस्यन्दनयोद्र्वयोः॑ इति रुद्ररभसौ । तस्याऽदूरे भवा ।अदूरभवश्च॑ इत्यण् । आदिवृद्धिः ।पूर्वपदात्संज्ञायाम्इति णत्वम् । गङ्गाया अन्विति । समासाऽभावपक्षे प्रागुक्तरीत्या गङ्गामन्वित्युदाहार्यमित्याहुः । (५८६) तिष्ठद्गुप्रभृतीनि च ।२.१.१७ ।तिष्ठद्गुप्रभृतीनि च । चकार एवकारार्थेष । तेनैषां वृत्त्यन्तरं न भवति । परमतिष्ठद्गु इत्यादि न भवतीत्यर्थः । तिष्ठद्गु इति ।गोस्त्रियो॑रिति ह्रस्वः । प्रथमासमानाधिकरणे शत्रादेशस्याऽसंभवादाह — इह शत्रादेश इति । इत्यादीति । आदिशब्देन — खलेयवम् । खलेबुसम् । सप्तम्या अलुक् । लूनयवम् । लूयमानयवमित्यादि ग्राह्रम् ।
Padamanjari¶
लक्षणेनेति वर्तत इति। अन्यथा आयामो गङ्गाया इत्यस्यार्थेऽनुगङ्गमिति स्यात्। अत्राप्यायामवाचित्वादनुरेवायामशब्देनोच्यते, इत्याह अनुर्यस्यायामवाचीति। अनुगङ्ग वाराणसीति। षष्ठ।ल्न्तेन गङ्गाशब्देन समासः। गङ्गाया अन्विति। आयामो लक्षमत्वं चानुना द्योत्यते, लक्षणस्य लक्ष्यापेक्षत्वाल्लक्ष्यं समासार्थ इत्यर्थादुपमानोपमेयभावे समास इति वाराणस्या सामानाधिकरण्यम्-गङ्गाया इवायामो यस्याः, गङ्गेवायता वाराणसीत्यर्थः। तद्वदत्यन्तायतेत्यर्थ इति केचित्। तथा च ठनुगङ्गमेतत्सुत्रम्ऽ इत्येकशेषसूत्रे भागवृत्तिकारः प्रयुङ्क्ते। नेति वयम्। किं प्रागायता वाराणसी? उतोदगायता? इति संदेहे इदमुच्यते-अनुगङ्गं वाराणासीति, यथोदगायता गङ्गा तथोदगायता वारामसीत्यर्थः। गङ्गायामानुसारेण वाराणस्यायाम इत्यर्थः। यमुनायामेन मथुरायामो लक्ष्यत इति। न यमुना स्वरूपेण लक्षणम्, किं तर्हि? आयामेन, मथुरापि न स्वरूपेण लक्ष्यम्, किं तर्हि? आयामेन। तत्र प्राप्ताप्तविवेकेनेदमुच्यते-यमुनायामेन मथुरायामो लक्ष्यत इति॥
Nyaas¶
अत्राप्युपचारेणायामवाचित्वादनुरेवायामशब्दनोक्तः। अनुगङ्गं वाराणसी इति। यद्यपि गङ्गावाराणस्यावुभे अप्यायमवत्यौ, तथाप्यायामवत्तया गङ्गायाः प्रसिद्धत्वाद्? गङ्गैवात्र लक्षणम्, न वाराणसी। प्रसिद्धं हि लक्षणं भवति, नाप्रसिद्धम्। तस्माद्ग्ङ्गयैवात्र समासो भवति, न वाराणस्या। यमुनायामेन गथुरायामः लक्ष्यते इति। यमुनया तद्वत्या लक्षणभूतयेति वेदितव्यम्। यस्माद्यस्यायामवाच्यनुशब्दस्तेन लक्षणभूतेन सुबन्तेन समस्यते। युमनायाश्चायामवाच्यनुशब्दः, न यमुनायामस्य। न ह्रायामस्यापर आयामोऽस्ति, तस्माद्यमुनायामेति हेतावियं तृतीया। यमुनायामेन हेतुना तद्वत्या यमुनया लक्षणयभूतया करणभावमापन्नया वा मथुरायामो लक्ष्यत इत्ययमर्थो वेदितव्यः॥
Praudhamanorama¶
अनुगङ्गमिति। इहाऽयामो लक्षणत्वं चानुना द्योत्यते। लक्ष्यं तु समासार्थः। अत एव वाराणस्याः सामानाधिकरण्यम्। एवं स्थिते फलितमाह- वाराणसीति। वरं च तदनश्च वरानः श्रेष्ठोदकं, तस्यादूरभवा। ‘अदूरभवश्च’ इत्यण्, आदिवृद्धिः, ‘पूर्वपदात्संज्ञायाम्’ इति णत्वम्, अणन्तत्वान्ङीप्।