21005: अव्ययीभावः

Padacheda: अव्ययीभावः | S | 1 | 1 |

Sutrartha

इतः परम् **तत्पुरुषः (2.1.22) इति यावत् उक्ताः समासाः अव्ययीभावसंज्ञकाः भवन्ति ।**

Sutrartha (English)

The समासाः told till 2.1.22 are called अव्ययीभावसमासाः ।

Vasu English Summary

From this point forward whatever we shall describe will get the name अव्ययीभाव समास or adverbial compound.

Vasu English Translation

From this point forward whatever we shall describe will get the name अव्ययीभाव समास or adverbial compound. This is also an adhikara aphorism like the last. As far as sūtra 21, the compounds treated of, will get the designation of Avyayibhava. The word अव्ययीभाव like the word कर्मप्रवचनीय is a self-descriptive term, and not an arbitrary term like डि,धि &c. When that which was not an indeclinable becomes an indeclinable, it is called stain or ‘becoming an indeclinable’. In the Avyayibhava compound the sense of the first of its elements is the main one or the independent one on which the other depends.

Bhashya

अव्ययीभावः (354) (अव्ययीभावसमासप्रकरणम्) (225 अधिकारसूत्रम् ॥ 2.1.2 आ.4.सू.) (महासंज्ञाप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) अन्वर्थसंज्ञा यथा विज्ञायेत - अनव्ययमव्ययं भवतीत्यव्ययीभावः। अव्ययीभावोव्ययसंज्ञो भवतीत्येतन्न वक्तव्यं भवति ॥ अव्ययीभावः ॥ 5 ॥ (226 अव्ययीभावसमाससंज्ञासूत्रम् ॥ 2.1.2 आ.5 सू.)

Kashika

अव्ययीभाव इत्यधिकारो वेदितव्यः। यानित ऊर्ध्वमनुक्रमिष्यामः, अव्ययीभावसंज्ञास्ते वेदितव्याः। वक्ष्यति — यथासादृश्ये (२.१.७) — यथावृद्धं ब्राह्मणानामन्त्रयस्व। अन्वर्थसंज्ञा चेयं महती पूर्वपदार्थप्राधान्यमव्ययीभावस्य दर्शयति। अव्ययीभावप्रदेशाः — अव्ययीभावश्च (२.४.१८) इत्येवमादयः॥

Siddhanta Kaumudi

अधिकारोऽयम् ॥

Laghu Siddhanta Kaumudi

अधिकारोऽयं प्राक् तत्पुरुषात् ॥

Balamanorama

अव्ययीभावः - अव्ययीभावः । अधिकारोऽयमिति । एकसंज्ञाधिकारेऽपि अनया संज्ञया समास संज्ञा न बाध्यते इति ‘प्राक्कडारात्’ इत्यत्रोक्तम् ।

Padamanjari

इह लघ्वर्थ संज्ञाकरणमित्येकाक्षरा संज्ञां कार्या, किमर्थं महती क्रियते इत्याहृ-अन्वथसंज्ञा चेयमिति। अनवव्ययमव्ययं भवतीत्यव्ययीभावः,’भेवतेर्ण उपसंख्यानम्’ इति णप्रत्ययः। अन्वर्थत्वे किं सिध्यतीत्यत आहतेनेति। पूर्वपदग्रङ्णमव्ययस्योपलक्षणार्थम्। सूपप्रति, शाकप्रतीत्यादावुतरपदार्थप्रधान्यान्न स्यातस्मादव्ययीभावेऽव्ययार्थः प्रधानमिति सूत्यते। एवं ह्यव्ययानव्ययसमुदायोऽव्ययधर्मभादव्ययं भवतीति। किं सिध्दं भवति? समृध्दा मद्राः समद्रा इत्यादावुतरपदार्थप्रधान्येऽव्ययीभावस्यातिप्रसङ्गः परिहृतो भवति। पारेगङ्गम्, द्विमुनि, उन्मतगङ्गमित्यादौ चच वचनादव्ययीभावः। एवं चानव्ययमव्ययं भवतीत्यन्वर्थतयैवाव्ययकार्यस्यापि लाभाद् ठव्ययीभावश्चऽ इत्येतदपि न तदिति चोत्, न; अत्रैव परिगणय्यान्वर्थत्वेन वा विशिष्टकार्यविषयमव्ययत्वमनुनीयताम्॥

Nyaas

यथावृद्धम् इत्यत्राव्ययीभावत्वे सति अव्ययीभावश्च (2.4.18) इति नपुंसकत्वे नाव्ययीभावादतोऽम्त्वपञ्चम्याः (2.4.83) इत्येष विधिर्भवति। अन्वर्थसंज्ञा चेयम् इति। अनव्ययमव्ययं भवतीत्यव्ययीभावः। पूर्वपदार्थप्राधान्यम् इत्यादिना अन्वर्थसंज्ञायाः फलमाह। प्रायेण ह्रव्ययीभावे पूर्वपदमव्ययम्, परपदमन्यव्ययम्; समुदायो नाव्ययम्। स यदि पूर्वपदवशेन तस्य पूर्वपदस्य यो धर्मोऽव्ययत्वं तत्प्रतिपद्यते ततो।ञनव्ययस्वभावः सन्नव्ययस्वभावो भवति। एवञ्च पूर्वपदवशेन तद्धर्मं प्रतिपद्यते यदि पूर्वपदं प्रधानं भवति, नान्यथा। प्रधानवशेन हि वस्तुनः स्वधर्मपरित्यागेन धर्मान्तरापत्तिर्युक्ता। तदेवमन्वर्थसंज्ञेयं भवन्ती पूर्वपदार्थप्राधान्यमव्ययीभावस्य दर्शयति। तेन यदा पूर्वपदार्थस्य प्राधान्यं भवति तदाव्ययीभावो भवति, नान्यथेत्युक्तं भवति॥

Prakriyasarvasvam

इतःपरमुच्यमानः समास एतत्संज्ञः ॥