21015: अनुर्यत्समया

Padacheda: अनुः | S | 1 | 1 |

यत्समया | S | 0 | 0 |

Sutrartha


Vasu English Summary

The word अनु ‘near to’ is optionally compounded with that word, nearness to which is indicated by the particle and the resulting compound is अव्ययीभाव।

Vasu English Translation

The word अनु ‘near to’ is optionally compounded with that word, nearness to which is indicated by the particle and the resulting compound is अव्ययीभाव। As, अनुवनमशनिर्गतः ‘the thunder bolt fell near the forest.’

Why do we say अनु ? Observe वनं समया ‘near the forest.’

Why do we say ‘when compounded with the word, nearness to which is indicated’? Observe वृक्षमनु विद्योतते विद्युत् ‘it lightens towards the tree.’

Though this compounding was valid even by sūtra 6, because nearness is mentioned there also; it is repeated here in order to show that an Avyayibháva compound mentioned here is an optional compound after all, and not an invariable compound like others.

Kashika

समया समीपम्। अनुर्यस्य समीपवाची, तेन लक्षणभूतेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति। अनुवनमशनिर्गतः। अनुरिति किम्? वनं समया। यत्समयेति किम्? वृक्षमनु विद्योतते विद्युत्। अव्ययं विभक्तिसमीप० (२.१.६) इत्येव सिद्धे पुनर्वचनं विभाषार्थम्॥

Siddhanta Kaumudi

यं पदार्थं समया द्योत्यते तेन लक्षणभूतेनानुः समस्यते सोऽव्ययीभावः । अनुवनमशनिर्गतः । वनस्य समीपं गत इत्यर्थः ॥

Balamanorama

अनुर्यत्समया - अनुर्यत्समया । लक्षणेनेत्यनुवर्तते ।य॑दिति समयायोगे ‘अभितःपरितः’ इति द्वितीयान्तम् । सामान्ये नपुंसकम् । तदाह — पदार्थमिति । अनुवनमिति । अत्र वनशब्दः वनसमीपदेशे लाक्षणिकः । वनसमीपस्य लक्षणत्वं वस्तुसदेव निमित्तम् । तदाह — वनस्य समीपं गत इत्यर्थ इति । वस्तुतो लक्षणीभूतस्य वनस्य समीपंगत इति यावत् ।अव्ययं विभक्ती॑त्यादिना सिद्धे विभाषार्थमिदं सूत्रम् । ततश्च ‘वनस्यानु’ इति लौकिकविग्रहवाक्यमुदाहार्यम् । नात्र कर्मप्रवचनीयसंज्ञा शङ्क्या, वस्तुसत एवात्र लक्षणत्वस्य निमित्तत्वाश्रयणात् । लक्षणत्वस्य ज्ञातस्य निमित्तत्वे तु ‘वनमनु’ इत्येववाक्यमुदाहार्यम् ।

Tattvabodhini

अनुर्यत्समया - अनुर्यत्, । यदिसि समयायोगे द्वितीयेति ध्वनयति-यं पदार्थमिति । यस्य पदार्थस्य समीपमित्यर्थः । लक्षणेनेत्यनुवर्तत इत्याह — लक्षणभूतेनेति । चिह्नवाचिनेत्यर्थः ।अव्यय विभक्ती॑ त्यनेन सिद्धे विभाषार्थं सूत्रम् । तेन पक्षेवनस्यानु॑इत्युदाहार्यमिति मनोरमायां स्थितम् । अत्र वदन्ति — वनस्येति षष्ठीह दुर्लभा, कर्मप्रवचनीययुक्ते द्वितीयाया दुर्वारत्वात्, तत्सामर्थ्यात्समया लङ्कामितिवत्समासबाधे प्रसक्ते अस्य विध्यर्थत्वात् । न चायमनुः सामीप्यमात्रद्योतको, न लक्ष्यलक्षमभावस्येति वाच्यम् । लक्षणेनेत्यवृत्तिवैयथ्र्यात् । न चैवमपि लक्षणमात्रद्योतकत्वं नास्तीति वाच्यम् ।लक्षणेत्थ॑मित्यत्र मात्रपदाऽभावात् । अग्निमभि, अग्न प्रतीति पूर्वसूत्रस्थोदाहरणा[प्रत्युदाहरण]वाक्यविरोधाच्च । अतोऽत्र पक्षेवनमनु॑इत्युदाहार्यम् ।वनस्य समीपं गत॑ इति मूलस्थं विवरणवाक्यं तुलक्षण भूतस्य वनस्य समीपं गत॑ इति व्याख्येयमिति । अन्विति किम् । ग्रामं समया । यत्समयेति किम् । वृक्षमनुविद्योतते विद्युत् । लक्षणेन किम् । अनुव[च]नम् । उपकृष्णमितिवदत्र नित्यमव्ययीभावः ।

Padamanjari

यत्समयेति षष्ठीसमासोऽयम्। कथं पुनः समायाशब्देन योगे षष्ठी, यावता ठभितः परितः समयाऽ इति द्वितायया भवितव्यम्? नैष दोषः; समयाश्बदस्य मुख्योऽर्थः सामीप्यम्, तद्योगे द्वितीया। इह तु समयाशब्दवाचिन्यनुशब्दे समयाशब्दो वर्तते, तदाह - अनर्यत्समया। समयावाचीति। यस्य समयेति कोऽर्थः? समयावाचीत्यर्थः, तदिह मुख्येनार्थेनायोगद् द्वितीया न भवति, षषठ।लेव तु भवति, तस्याश्च समासः। न च पूरणगुणेति प्रतिषेधः; अनव्ययत्वात्। सामीप्ये हि वर्तमान- समयाशब्दोऽसतववाचित्वादव्ययम्। इह त्वनूशब्दार्थे वर्तते, तत्र यथा ठभिराभागेऽ इत्यादावनुकरणस्याव्ययसंज्ञा न भवति, तथास्यापि। एवं च यत्समयेत्यविभक्तिकः सौत्रो निर्देशः। वृतावपि यत्समयेति सूत्रानुकरणेन विभक्त्यभावः। तेनेति। तद्वाचिना शब्देनेत्यर्थः। अनुवनमिति। वनस्यान्विति सामूप्यसम्बन्धे षष्ठीसमासः, अस्यार्थमाह-वनं समयेति॥

Praudhamanorama

यं पदार्थमिति। सूत्रे यदिति सामान्ये नपुंसकम्। ‘अव्ययं विभक्ति’ इत्यनेन सिद्धे विभाषार्थं सूत्रम्। तेन पक्षे वनस्यानु इत्युदाहार्यम्।

Prakriyasarvasvam

अनुर्यस्य दैर्घ्यवाची तेन लक्षणेन वा समस्यते । अनुगङ्गं काशी । काशीवीथी गङ्गावत् प्रागायातेत्यर्थः । गङ्गादैर्घ्यमत्र काशीदैर्घ्यस्य लक्षणतयोच्यते । अनुगङ्गं सूत्रम् । तद्वदत्यन्तायतमित्येवार्थ इत्यन्ये ।