21004: सह सुपा¶
Padacheda: सह | S | 0 | 0 |
सुपा | S | 3 | 1 |
Sutrartha¶
सुबन्तस्य समर्थसुबन्तेन सह समासः भवति ।
Sutrartha (English)¶
A समास is formed when one सुबन्त combines with another related सुबन्त.
Vasu English Summary¶
The words सह सुपा meaning ‘with a word ending in a case-affix’, are to be understood in each of the succeeding aphorisms.
Vasu English Translation¶
The words सह सुपा meaning ‘with a word ending in a case-affix’, are to be understood in each of the succeeding aphorisms. In this aphorism the word ay is understood from sutra, so that it consists of three words vis, सुप्, सह, सुपा. All these three words jointly and severally, one at a time or two at a time, should be understood as governing the succeeding aphorisms, as the contingency of each sutra may require. This aphorism will constantly be applied in translating the sutras that follow.
Why have we used the word सह? Well, without it the sútra would have stood thus: सह सुपा’a noun may be compounded with another noun.’ But this overlooks the case of a compounding with a verb. The word is therefore used so that we may be able to break this composite sútra into two separate and simple sútras, namely:-
(1). सह, सुप्, समस्यते समर्थेन’ a case-ipflected word may be com. pounded with a word with which it is connected in sense’. Here the word or with the help of the three words सुप् taken from sútra 2, समस्यते from sútra 3, and समर्थेन from sútra i, forms one complete aphorism, and applies to compounds like अनुव्यचलत् अनुप्रावर्षत . The accent will depend upon these being considered as samasa.
(2). सुपा सह समस्यते a case-inflected word is compounded with another sup-inflected word. The compound which does not fall within any of the various sorts of compounds to be treated of hereafter, will fall under this general head of compounds; as, पुनरुत्स्यूतं वासो देवं पूनर्निष्ठतो स्थः.. This also is for the sake of accents.
Bhashya¶
सह सुपा (353) (224 केवलसमाससंज्ञासूत्रम् ॥ 2.1.2 आ.3 सू.) (सहवचनप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) सहवचनं किमर्थम्? ॥ (1234 समाधानवार्तिकम् ॥ 1 ॥) ॥ सहवचनं पृथगसमासार्थम् ॥ (व्याख्याभाष्यम्) सहग्रहणं क्रियते सहभूतयोरेव समाससंज्ञा यथा स्याद् एकैकस्य समाससंज्ञा मा भूदिति ॥ (आक्षेपभाष्यम्) किं च स्यात्, यद्येकैकस्य समाससंज्ञा स्यात् ? ॥ (समाधानभाष्यम्) इह ऋक्पाद इति समासान्तः प्रसज्येत। इह राजाश्व इति द्वौ स्वरौ स्याताम्। (आक्षेपभाष्यम्) कथं च कृत्वैकैकस्य समाससंज्ञा प्राप्नोति? ॥ (आक्षेपबाधकभाष्यम्) प्रत्येकं वाक्यपरिसमाप्तिर्दृष्टा इति। तद्यथा - वृद्धिगुणसंज्ञे प्रत्येकं भवतः ॥ (आक्षेपसाधकभाष्यम्) ननु चायमप्यस्ति दृष्टान्तः - समुदाये वाक्यपरिसमाप्तिः इति। तद्यथा - गर्गाः शतं दण्ड्यन्ताम् इति अर्थिनश्च राजानो हिरण्येन भवन्ति, न च प्रत्येकं दण्डयन्ति। सत्येतस्मिन् दृष्टान्ते यदि तत्र प्रत्येकमित्युच्यते, इहापि सहग्रहणं कर्तव्यम्। अथ तत्रान्तरेण प्रत्येकमिति वचनं प्रत्येकं गुणवृद्धिसंज्ञे भवतः, इहापि नार्थः सहग्रहणेन ॥ (समाधानभाष्यम्) एवं तर्हि सिद्धे सति यत्सहग्रहणं करोति - तस्यैतत्प्रयोजनम् - योगाङ्गं यथा विज्ञायेत सति च योगाङ्गे योगविभागः करिष्यते - सह। सुप् समस्यते। केन सह?। समर्थेन। अनुव्यचलद् अनुप्राविशत् ॥ ततः सुपा सुपा च सह सुप्समस्यते। अधिकारश्च लक्षणं च। यस्य समासस्यान्यल्लक्षणं नास्ति इदं तस्य लक्षणं भविष्यति।पुनरुत्स्यूतं वासो देयम् पुनर्निष्कृतो रथः (न्यूनतापूर्त्यधिकरणम्) (1235 आक्षेपवार्तिकम् ॥ 2 ॥) ॥ इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ॥ (व्याख्याभाष्यम्) इवेन सह समासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्। वाससीःइव। कन्येःइव ॥ सह सुपा ॥ 4 ॥
Kashika¶
सुबिति वर्तते। सुबिति सहेति सुपेति च त्रयमप्यधिकृतं वेदितव्यम्। यदित ऊर्ध्वमनुक्रमिष्यामः, तत्रेदमुपस्थितं द्रष्टव्यम्। वक्ष्यति — द्वितीया श्रिता० (२.१.२४) इति। द्वितीयान्तं श्रितादिभिः सह समस्यते। कष्टं श्रितः, कष्टश्रितः। सहग्रहणं योगविभागार्थम्, तिङापि सह यथा स्यात्। अनुव्यचलत्। अनुप्रावर्षत्॥
Siddhanta Kaumudi¶
सह इति योगो विभज्यते । सुबन्तं समर्थेन सह समस्यते । योगविभागस्येष्टसिद्ध्यर्थत्वात्कतिपयतिङन्तोत्तरपदोऽयं समासः । स च छन्दस्येव । पर्यभूषयत् । अनुव्यचलत् । सुपा सुप्सुपा सह समस्यते । समासत्वात्प्रातिपदिकत्वम् ॥
Laghu Siddhanta Kaumudi¶
सुप् सुपा सह वा समस्यते ॥ समासत्वात्प्रातिपदिकत्वेन सुपो लुक् । परार्थाभिधानं वृत्तिः । कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः । वृत्त्यर्थावबोधकं वाक्यं विग्रहः । स च लौकिकोऽलौकिकश्चेति द्विधा । तत्र पूर्वं भूत इति लौकिकः । ‘पूर्व अम् भूत सु’ इत्यलौकिकः । भूतपूर्वः । भूतपूर्वे चरडिति निर्देशात्पूर्वनिपातः । इवेन समासो विभक्त्यलोपश्च (वार्त्तिकम्) । वागर्थो इव वागर्थाविव ॥ इति केवलसमासः ॥ १ ॥
Balamanorama¶
सह सुपा - सह सुपा । ‘सुबामन्त्रिते’ इत्यतःसु॑बित्यनुवर्तते । सुबन्तं सुबन्तेन सहोच्चारितं समाससंज्ञं भवतीति फलति । एवं सतिपर्यभूषय॑दित्यादौ सुबन्तस्य तिङन्तेन समासो न स्यात् । तत्राह — सहेति योगो विभज्यत इति । समाससंज्ञायां अन्वर्थत्वादेकस्याऽप्रसङ्गात्सुपेत्येतावतैव सहेति सिद्धे तद्ग्रहणं योगविभागार्थमिति भावः ।सहे॑त्यत्र ‘सुबामन्त्रिते’ इत्यतः सुबित्यनुवर्तते । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । ‘समर्थः पदविधिः’ इत्यतः समर्थग्रहणमनुवृत्तं तृतीयया विपरिणम्यते । तदाह — सुबन्तमित्यादिना । समस्यत इति । एकीक्रियते प्रयोक्तृभिरित्यर्थः । समाससंज्ञां लभत इति यावत् । केचित्तु सुबन्तं कर्तृ समर्थेन समस्यते, एकीभवतीत्यर्थः । कर्तरि लट् ।उपसर्गादस्यत्यूह्रो॑रित्यात्मनेपदम् । समासशब्दोऽपि कर्तरि बाहुलकाद्घञन्तएव, कर्मणि घञन्तो वा । तथा सति समस्यत इति कर्तरि तिङन्तं फलितार्थकथनपरमित्याहुः । ननुघटो भवती॑त्यत्र समासे घट-भवतीत्यपि लोके प्रयोगः स्यादित्यत आह — योगविभागस्येति । कतिपयेति । कतिपयानि तिङन्तानि उत्तरपदानि यस्येति विग्रहः ।पर्यभूषयदिति । समासान्तोदात्तत्वे शेषनिघात इति ‘कुगति’ इति सूत्र#ए कैयटः ।देवो देवान् क्रतुना पर्यभूषय॑दित्यत्र तु स्वरव्यत्ययो बोध्यः । अनुव्यचलदिति ।अचल॑दित्यनेन वेः पूर्वं समासे सति तेन अनोः समासः । नत्वनुव्योर्युगपत्समासः, सुबित्येकत्वस्य विवक्षित्वात् । अत एवमहिष्या अजायाश्च क्षीर॑मित्यत्र क्षीरशब्देन सुबन्तयोर्न समास इति कैयटः । सुपा । ‘सुबामन्त्रिते’ इत्यतः सुबित्यनुवर्तते । ‘समास’ इत्यधिकृतम् । तदाह — सुप्सुपेति । सुबन्तं सुबन्तेनेत्यर्थः । ततश्च पूर्वं भूत इति विग्रहे समाससंज्ञा स्थिता । समासत्वात्प्रातिपदिकसंज्ञेति ।कृत्तद्धितसमासाश्च इत्यनेने॑ति शेषः ।
Tattvabodhini¶
सह सुपा - योगो विभज्यत इति ।सुबामन्त्रितो -॑ इत्यतः सुबित्यनुवर्तते, तदाह -सुबन्तमिति । समस्यत इति । सपूर्वादस्यतेः कर्णि तङ् । आचार्येणेति शेषः । समर्थेनेति तु सहयोगे तृतीया । समसनक्रियां प्रति सुबन्तं कर्म, न तु कर्तृ । यद्यपि सुबन्तस्य कर्तृत्वाभ्युपगमेऽपिउपसर्गादस्यत्यूह्योः॑ इति वार्तिकेन समस्यत इत्यत्रात्मनेपदं लभ्यते, तथापि समास इति व्याख्येयग्रन्थे कर्तरि घञ् दुर्लभः । बाहुलकं तु अगतिकगतिरिति कर्मत्वाभ्युपगम एव ज्यायान् । स चेति । एतदपि योगविभागस्येष्टसिद्ध्यर्थत्वादेव लभ्ते । छन्दस्येवेति । यदि लोकेऽपि स्यात्तर्हि यत्प्रकुरुते इत्यादौ स्वाद्युत्पत्तिः स्यात् । लिङ्गसर्वनामनपुंसकतामभ्युपेत्यस्वमोर्नपुंसकात् इति लुकि कृतेऽपिह्रस्वो नपुंसके -॑इति ह्रस्वः स्यादित्यादि दूषणंकर्मणा यमभिप्रैती॑ति सूत्रेऽस्माभिरुद्भावितम् । अनुव्यचलदिति । सुबित्येकत्वस्य विवक्षितत्वात्पर्यायेण समासो बोध्यः । समासान्तोदात्तत्वे शेषनिघात इतिकुगति -॑ इति सूत्रे कैयटः ।
Padamanjari¶
सहवचनं किमर्थम्, यावता तृतीयैव सहार्थमाक्षेप्स्यति, यथा’वृध्दो यूना’ इति? सहभूतयोः समाससंज्ञा यथा स्याद् एकैकस्य मा भूद्; अन्यथा पूत्रेण सहागतः पितेत्यत्र यथा द्वयोरप्यागमनेन सम्बन्धः, एवं समाससंज्ञापि प्रत्येकमेव स्यात्, सहग्रहणे तु सहभूतयोरेका संज्ञा भवति। किं च स्याद् यद्येकैकस्य संज्ञा स्यात्? इह ऋक्पाद इति समासान्तः प्रसज्येत, द्वौ च स्वरौ स्याताम्।’कृतध्दितसमासाश्च’ इत्यत्र तु समासश्च समासश्चोत्योकशेषो व्याख्यास्यते, तेन समाससमूहस्य संज्ञाविधिनियमार्थ इति वाक्यस्य न भविष्यति; अन्यथा त्वेकैकस्य समासस्य प्रत्ययान्तत्वाद्विध्यर्थं समासकग्रहणं स्यत्।’समासाञ्च तद्विषयात्’ इत्यत्रापि प्रातिपदिकादित्यनुवर्तते, समूहस्य च प्रातिपदिकत्वम्, न त्वेकाकस्य समासस्येति समासादित्येकत्वादिवक्षया समूहादेव सिध्दः प्रत्ययः। तदेवं समुदायस्य यथा स्यादेकैकस्य मा भूदिति सहग्रहणम्। नैतदस्ति प्रयोजनम्,’समासः’ इति महती संज्ञा क्रियते-अन्वर्थसंज्ञा यथा विज्ञायेत। यस्मिन्समुदायो दपद्वयं परस्परं समस्यते स समासः।’हलश्च’ इत्यधिकरणे घञ्। तस्मादनर्थकं सहग्रहणम् तत्राह-सहग्रहणं योगविभागार्थमिति। सहेत्येको योगः, सुबित्येव, सुप् सह समस्यते, केन? पदविधित्वात्समर्थेन। अनुव्यचलदिति। तत्र सुबित्येकत्वस्य विवक्षितत्वाध्देः पूर्वं समासः, पश्चादनोः, तत्र नित्यसमासत्वाध्देः शाकलाभावः। समासान्योदातत्वं तु न भवति;ठ्तिङ्ङतिङःऽ इति निघातात्। अनोः’गतिर्गतौ’ इति निघातः, वेèर्यणादेशे ठुदातस्वरितयोःऽ इत्यटः स्वरितत्वम्। अन्ये तु-सतिशिष्ट्ंअ समासान्योदातत्वं भवतीत्याहुः। विभक्तिस्तु सत्यपि समासत्वेन प्रातिपदिकत्वेन भवति; तिण्èóकत्वस्योक्तत्वात्। यद्वा-वचनग्रहणमुक्तेष्वप्येकत्वादिषु यथा स्यादिति प्रथमैकवचनम्, हल्ङ्यादिलोपः। एवं चैकपद्यादामनुव्यचलद्देवदतेति ठाम एकन्तरमामन्त्रितमनन्तिकेऽ इति निघातप्रतिषेधो भवति। यौगविभागश्चेष्टसिध्द्यर्थ इत्यतिप्रसङ्गो नीद्भावनीयः॥
Praudhamanorama¶
कतिपयेति। यद्यपि उदात्तवता, गतिमता च तिङा गतेः समासो नित्याधिकारे वार्तिककृतोक्तस्तथाऽपि नासौ नियतः, ‘य आनयत्’ ‘अभिप्रभरधृषते’ इत्यादौ समासादर्शनात्। अत एव भाष्यकृता ‘सह’ इति योगविभागेनाऽयं साधितः। यथोत्तरं मुनीनां प्रामाण्यमिति भावः। स चेति। एतदपि योगविभागस्येष्टसिद्ध्यर्थत्वादेव लभ्यते। एतच्च सम्प्रदानसंज्ञासूत्रे पदमञ्जर्यां स्पष्टम्। यदि हि लोकेऽपि स्यात् तर्हि ‘अभिप्रैति’ इत्यादौ समासात्स्वादयः स्युः, पचतिकल्पमित्यादौ तद्धितान्ताद्यथा। न च लिङ्गसर्वनामनपुंसकताऽभ्युपगमेन निर्वाहः, ‘प्रकुरुते’ इत्यादौ ह्रस्वापत्तेः, ‘प्रकुर्वीरन्’ इत्यत्र नलोपापत्तेश्च।
Prakriyasarvasvam¶
सुबन्तं सुबन्तेन सह समस्यत इति सर्वत्र ज्ञेयम् । स च समासश्चतुर्धा । पूर्वपदार्थप्रधानोऽव्ययीभावः, उत्तरपदार्थप्रधानस्तत्पुरुषः, द्विगुः कर्मधारयश्च तस्यैव भेदौ, अन्यपदार्थप्रधानो बहुव्रीहिः, उभयपदार्थप्रधानो द्वन्द्व इति ॥
Vartika¶
इवेन समासो विभक्त्यलोपश्च ।
Sutra Prayogas¶
यथाविधिहुताग्नीनां (रघुवंशम्): सह सुपा (सुप्सुपा) इति समासः।
नातिप्रमनाः (रघुवंशम्): सुप्सुपा इति समासः।
नातिशीतोष्णो (रघुवंशम्): सह सुपा (सुप्सुपा) इति समासः।
नात्यायतकृष्टशार्ङ्गः (रघुवंशम्): सह सुपा (सुप्सुपा) इति समासः।
कृतपूर्व (रघुवंशम्): सह सुपा (सुप्सुपा) इति समासः।
कृतपूर्वम् (रघुवंशम्): सह सुपा (सुप्सुपा) इति समासः।
आक्रान्तपूर्वम् (रघुवंशम्): सह सुपा (योगविभागात् सुप्सुपा) इति समासः।
नातियत्नतः (रघुवंशम्): सह सुपा (सुप्सुपा) इति समासः।
प्रत्यर्थिभूताम् (कुमारसम्भवम्): सह सुपा (योगविभागात् सुप्सुपा) इति समासः।
कलान्तराणि (कुमारसम्भवम्): सुप्सुपा (सह सुपा) इति समासः।
विनाकृता (कुमारसम्भवम्): सह सुपा (सुप्सुपा) इति समासः।
ननिर्वृतं (किरातार्जुनीयम्): सह सुपा (सुप्सुपा) इति समासः।
त्रिःसप्तकृत्वो (किरातार्जुनीयम्): सह सुपा (सुप्सुपा) इति समासः।
नातिदूरात् (किरातार्जुनीयम्): सुप्सुपा (सह सुपा) इति समासः।
विगाढमात्रे (किरातार्जुनीयम्): सह सुपा (टीकायाम् ‘सुपसुपा’ इति निर्दिश्यते) इति समासः।
नैकरूपरसताम् (किरातार्जुनीयम्): सह सुपा (सुप्सुपा) इति समासः।
ननुन्नेनो (किरातार्जुनीयम्): सह सुपा (सुप्सुपा) इति समासः।
अयातपूर्वा (किरातार्जुनीयम्): सह सुपा (योगविभागः) इति सुप्सुप्समासः।
माभीदा (किरातार्जुनीयम्): सुप्सुपा इति समासः।
स्वयङ्ग्रह (शिशुपालवधम्): सुप्सुपा इति समासः।
भुवनान्तरेषु (शिशुपालवधम्): सुप्सुपा इति समासः।
निकामभीषणं (शिशुपालवधम्): सुप्सुपा इति समासः।
जलान्तराणि (शिशुपालवधम्): सुप्सुपा (सह सुपा) इति समासः।
नेच्छन्ती (शिशुपालवधम्): सुप्सुपा (सह सुपा) इति समासः।
शिष्यभूतम् (शिशुपालवधम्): सुप्सुपा इति नित्यसमासः।
नात्तगन्धम् (शिशुपालवधम्): सह सुपा (सुप्सुपा) इति समासः।