21009: सुप्प्रतिना मात्रार्थे¶
Padacheda: सुप् | S | 1 | 1 |
प्रतिना | S | 3 | 1 |
मात्रा-अर्थे | S | 7 | 1 |
Sutrartha¶
‘मात्रा’ अस्मिन् अर्थे प्रयुक्तेन ‘प्रति’ शब्देन सह समर्थं सुबन्तं समस्यते , अव्ययीभावसमासः च भवति ।
Sutrartha (English)¶
The word ‘प्रति’ when used in the meaning of ‘मात्रा’ (little, a small amount) undergoes a समास with related सुबन्त, and the समास is called अव्ययीभाव.
Vasu English Summary¶
A word ending in a case-affix is compounded with the indeclinable word प्रति , when meaning ‘a little’ and the compound so formed is called अव्ययीभाव।
Vasu English Translation¶
A word ending in a case-affix is compounded with the indeclinable word प्रति , when meaning ‘a little’ and the compound so formed is called अव्ययीभाव। The word नाना means a drop,’ ‘a little,’ ‘wee bit;’ as, शाकप्रति “a little of vegetable,’ सूपप्रति ‘a little of soup.’
Why do we say ‘when meaning a little’? Observe वृक्षं प्रति विद्योतते विद्युत् ‘it lightens in the direction of the tree.’ Here it is not compounded.
Though the word sup was, by anuvritti from sútra 2, understood in this sútra, its repetition in the text is for the purpose of indicating that the anuvritti of the word अव्यय which began with sútra 6 does not extend further into the subsequent sútra.
The word प्रतिना being exhibited in the 3rd case-affix is not an upasarjana (l.2.43) and therefore, it comes as the last member of the compound (2.2.30).
Bhashya¶
सुप् प्रतिना मात्रार्थे (358) (228 अव्ययीभावसंज्ञासूत्रम् ॥ 2.1.2 आ.7.सू.) (सुब्ग्रहणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) सुबिति वर्तमाने पुनः सुब्ग्रहणं किमर्थम्? ॥ (आक्षेपबाधकभाष्यम्) अव्ययम् इत्येवं तदभूत्। सुब्मात्रे यथा स्यात्माषप्रति सूपप्रति ओदनप्रति ॥ सुप्प्रतिना ॥ 9 ॥
Kashika¶
मात्रा बिन्दुः, स्तोकम्, अल्पमिति पर्यायाः। मात्रार्थे वर्तमानेन प्रतिना सह सुबन्तं समस्यते, अव्ययीभावश्च समासो भवति। अस्त्यत्र किंचित् शाकम्, शाकप्रति। सूपप्रति। मात्रार्थ इति किम्? वृक्षं प्रति विद्योतते विद्युत्। सुबिति वर्तमाने पुनः सुब्ग्रहणमव्ययनिवृत्त्यर्थम्॥
Siddhanta Kaumudi¶
शाकस्य लेशः शाकप्रति । मात्रार्थे किम् । वृक्षं वृक्षं प्रति विद्योतते विद्युत् ॥
Balamanorama¶
सुप्प्रतिना मात्राऽर्थे - सुप्प्रतिना मात्रार्थे । सुबिति छेदः । मात्रा-लेशः । तस्मिन्नर्थे विद्यमानेन प्रतिना सुबन्तं समस्यत इत्यर्थः । सुबित्यनुवर्तमाने पुनः सुब्ग्रहणं संनिहितस्याऽव्ययमित्यस्याननुवृत्त्यर्थं, तद्ध्वनयन्नुदाहरति-शाकस्य लेश इति । अत्रप्रती॑त्यव्ययं मात्रार्थकम् । अतस्तेन शाकस्येति सुबन्तस्य समासः । समासविधौ सुबन्तस्य प्रथमानिर्दिष्टत्वेन उपसर्जनत्वात्पूर्वनिपातः, न तु प्रतेः, तस्य समासविधौ तृतीयानिर्दिष्टत्वात् । वृक्षं प्रतीति । अत्र प्रतेर्मात्रार्थकत्वाऽभावान्न तेन समासः । न चलक्षणेत्थ॑मिति कर्मप्रवचनीयत्वविधानसामर्थ्यादेवाऽत्र समासो न भविष्यति, सति समासे द्वितीयायाः षष्ठआ वा लुकि अविशेषात्, सकृत्प्रवृत्ततया समासात्तद्विभक्त्यनुत्पत्तेरिति वाच्यम्,वृक्षं प्रति सिञ्चती॑त्यादौउपसर्गात्सुनोती॑ति षत्वनिवृत्त्या कर्मप्रवचनीयत्वस्य चरितार्थत्वादित्यन्यत्र विस्तरः ।
Tattvabodhini¶
सुप्प्रतिना मात्राऽर्थे - सुप्प्रतिना । सुबित्यनुवर्तमाने पुनः सुब्ग्रहणमव्ययनिवृत्त्यर्थमिति ध्वनयन्नुदाहरति — शाकप्रतीति.नन्वारम्भसामर्थ्यादव्ययभिन्नमेव सुप्समस्यत इति चेत् । अत्राहुः — पुनः सुब्ग्रहणाऽभावे दोषामन्यमहर्दिवामन्या रात्रिरिति वृत्तिविषये सत्त्वप्रधानतादर्शनात्तादृशाव्ययान्येव मात्रार्थे प्रतिना समस्येरन्, तथा च दिवसस्य लेशो दिवाप्रति दोषाप्रतीत्यादीनाहरणत्वं संभाव्येतेति । वृक्षं प्रतीति । ननु लक्षणादौ प्रतेः कर्मप्रवचनीयसंज्ञाविधानसामर्थ्याद्ध्वितीयागर्भं वाक्यमेव स्यात्, न तु समासः, तस्य लेशार्थे सावकाशत्वादिति चेत् । मैवम् ।वृक्षं प्रति सिञ्चन्ती॑त्यादौ षत्वनिवारकत्वेन कर्मप्रवचनीयसंज्ञाविधानस्य चरुतार्थत्वान्मात्रार्थग्रहणाऽभावे लक्षणादाबप्यनेन समासप्रसङ्गात् । वीप्सायामव्ययीभावे तु प्रत्यादेः पूर्वनिपातत्वेप्रत्यर्थं सिञ्चन्ती॑त्यादौ षत्वाऽप्रसक्त्या कर्मप्रवचनीयविधानस्याऽचरितार्थतया तत्सामर्थ्याद्द्वितीयागर्भं वाक्यमपीत्युक्तं मूलकृताअव्ययं विभक्ती॑ति सूत्रे । अत्र नव्याः — प्रत्यर्थमित्यव्ययीभावे वीप्सायां द्योतकत्वेन विद्यमानमव्ययं समस्यते । वीप्साद्योतकस्य यदि कर्म प्रवचनीयसंज्ञाविधिः स्वीक्रियते, तदापि प्रतिस्तवनं प्रतिस्थानमित्यादौ षत्वनिवारणाय प्रतीत्यस्य कर्मप्रवचनीयसंज्ञा चरितार्थैव । वस्तुतस्तु वीप्सायां विषयभूतायां प्रत्यादेः कर्मप्रवचनीयसंज्ञा, न तु वीप्साद्योतकस्यैव । अन्यथावृक्षं वृक्षं प्रति सिञ्चती॑त्यत्र द्विर्वचनेनैव वीप्सा द्योत्यते । प्रतिशब्दस्तु क्रियाया संबध्यते । कर्मणि द्वितीया । कर्मप्रवचनीयसंज्ञया उपसर्गसंज्ञाया बाधात् षत्वं ने॑त्यादिमनोरमाग्रन्थस्यलक्षणेत्थंभूते॑ति सूत्रस्थस्य दत्तजलाञ्जलिः स्यात्, ततश्च संज्ञाविधानसामर्थ्यास्योपक्षीणत्वात्, अर्थमर्थं प्रतीत्यादिभाष्यप्रयोगादेव द्वितीयागर्भं वाक्यमपि भवतीत्येवं व्याख्येयमित्याहुः । पराजयं द्योतयितुमाह -विपरीतं वृत्तमिति । पूर्वं जये यथा वृत्तं तथा न वृत्तमित्यर्थः । एकपरीति । एकंन विपरीतं वृत्तमित्यर्थः । एवं द्विपरीत्यादि ।विभाषाऽपपरिबहि॑रिति योगं विभज्य व्याचष्टे ।
Padamanjari¶
अस्त्यत्र किचित्सूप इति किञ्चिदित्यव्ययं सूप इति पुंल्लिङ्गेन समानाधिकरणम्। सुबिति वर्तमान इति।’सुबामन्त्रिते’ इत्यतः। अव्ययनिवृत्यर्थमिति। पूर्वहि सुब्ग्रहणमव्ययग्रहणेन सह विग्रहः कृतः। स्वरादीनां च दोषामन्यमहः, दिवामन्या रात्रिरिति वृत्तिविषयो सत्वप्रधानतादर्शनान्मात्रावति वृत्तिरविरुध्देत्यव्यस्यैव समासः स्यात्॥
Nyaas¶
वृक्षं प्रति इत्यत्र लक्षणे प्रतिशब्दो वर्तते, न मात्रार्थे। ननु परं सुब्ग्रहणं कमर्थंम्? यावता सुबामन्त्रिते (2.1.2) इत्यतः सुब्ग्रहणमतुवर्तिष्यत इत्यत आह - सुब्ग्रहणम् इत्यादि। सुब्ग्रहणं पूर्वं ह्रव्ययेन सम्बद्धम्; अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। तस्मादव्ययनिवृत्त्यर्थमिदमन्यत सुब्ग्रहणं क्रियते॥
Prakriyasarvasvam¶
सुबन्तमल्पार्थे प्रतिना समस्यते । अल्पमन्नम् अन्नप्रति ॥