21002: सुबामन्त्रिते पराङ्गवत् स्वरे

Padacheda: सुप् | S | 1 | 1 |

आमन्त्रिते | S | 7 | 1 |

पर-अङ्गवत् | S | 0 | 0 |

स्वरे | S | 7 | 1 |

Sutrartha

स्वरविधानस्य विषये आमन्त्रितसंज्ञके परे सुबन्तम् परस्य अङ्गवत् कार्यम् करोति ।

Sutrartha (English)

A सुबन्त that is followed by an आमन्त्रित will behave exactly like the अङ्ग of that आमन्त्रित,when it comes to determination of the स्वर in that सुबन्त.

Vasu English Summary

A word ending in सुप् or a case-affix, when followed by a word in the Vocative Case, is regarded as if it was the अङ्ग or component part of such subsequent vocative word, when a rule relating to accent is to be applied.

Vasu English Translation

A word ending in सुप् or a case-affix, when followed by a word in the Vocative Case, is regarded as if it was the अङ्ग or component part of such subsequent vocative word, when a rule relating to accent is to be applied. In other words, the word ending in a case-affix enters, as if, into the body of the vocative (ámantrita) word; as it will be taught in sútra (6.1.198) which declares ‘a word ending in a vocative case-affix, gets the udátta accent on the beginning i.e. first syllable’. Now, this rule will apply even when a word ending with a case-affix precedes such word in the vocative case. Thus the word पती ‘O two lords !’ has udatta on the first syllable. Now, when this word is preceded by another inflected noun as शुभस् of prosperity, the accent will fall on शु, the two words being considered as a single word; as:- अश्विना यज्वरीरिषो द्रवत्पाणी शुभस्पती | पुरुभुजाचनस्यतम || Rig. I.3.1. “O Asvins, riding on quick horses, lords of prosperity, and bestowers of plenty of food, eat the sacrificial offerings to your satisfaction”. So also in the following: कुण्डे नाटन् ‘O thou wandering with a bowl’. परशुना वृश्चन् ‘O thou cutting with an axe.’ मद्राणां राजन् ‘O thou king of Madras.’ कश्मीराणां राजन् ‘O thou king of Kashmir.’

Why do we say ‘a word ending with a case-affix?’ If the preceding word ends with any other affix than a case-affix, this rule will not apply. As a पीड्ये पीड्यमान ‘O thou who art pained, I am pained because of this thy pain.’

Here पीड्ये ‘being a तिङन्त (a verb)’ is not considered as an anga of the vocative word.

Why do we say “when followed by a word in the vocative case ?” This rule will not apply when the subsequent word is not a vocative. As गेहे गार्ग्यः ‘ Gárga is at home.’

Why do we say ‘of the subsequent?’ It will not be a part of the vocative word which precedes. As देवदत्त कुण्डे नाटन् ‘O Devadatta wandering with a bowl’ Here कुण्डेन has not become part of Devadatta, but of the subsequent word अटन् .

Why do we say ‘an anga or component part?’ Both must be considered as one word for the application of the rule of accent, so that the first syllable of each word separately may not get the udátta.

Why do we say ‘as if or वत्.’ It is not altogether the body of the subsequent word; rules depending upon its own separate independent existence also take effect.

Thus rule (8.1.55) declares ‘a word ending in the vocative case is not anudátta when it follows the word आम् there intervening a word between itself and आम्;’ as, आम् कुण्डेन नाटन् ! Here kundena is considered a separate word for the purposes of Rule (8.1.55) and is said to intervene between आम् and the vocative word अटन् ।

Why do we say ‘for the purposes of the application of rule of accent?’ For the purposes of the application of any other rule, it will not be the anga of the subsequent word; as, कूपे सिञ्चन् ‘O thou sprinkling in the well.’ चर्म नमन्. Here had कूपे and चर्म been the angas of the subsequent words for all purposes, their स and न would have been changed into च and ण respectively by Rules (7.4.2) &c.

Vart:-When a word ending in a case-affix becomes, as if, the component part of the subsequent word, it becomes so even when there are several words in apposition with it which intervene between it and the vocative word ; because that, of itself, does not constitute want of immediate ness. Thus तीक्ष्णया सूच्या सीव्यन् ‘O thou sewing with a sharp needle’ तीक्ष्णेन परशुना वृश्चन् .

Vart:-Prohibition must be stated of indeclinable words. As उच्चैरधीयान ‘O thou reading loudly. नीचैरधीयान.

Bhashya

सूबामन्त्रिते पराङ्गवत्स्वरे (351) (222 अतिदेशसूत्रम् ॥ 2.1.2 आ ।1। सूत्रम्) (सुब्ग्रहणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) सुबिति किमर्थम् ? ॥ (समाधानभाष्यम्) करोष्यटन् ॥ (समाधानबाधकभाष्यम्) नैतदस्ति। असार्मथ्यादत्र न भविष्यति ॥ कथमसामर्थ्यम्?। समानाधिकरणमसमर्थवद्भवतीति ॥ (समाधानभाष्यम्) इदं तर्हि - पीड्ये पीड्यमानेति ॥ (पूर्वोक्तसमाधानसाधकभाष्यम्) इदं चाप्युदाहरणम् - करोष्यटन् ॥ (आक्षेपबाधकस्मारणभाष्यम्) ननु चोक्तम् - असार्मथ्यादत्र न भविष्यतीति। कथमसामर्थ्यम्?। समानाधिकरणमसमर्थवद्भवतीति ॥ (समाधानभाष्यम्) नैष दोषः। अधात्वभिहितमित्येवं तत् ॥ (पराङ्गवद्भावविषयनिर्णयाधिकरणम्) (1223 आक्षेपवार्तिकम् ॥ 1 ॥) ॥ आमन्त्रितस्य पराङ्गवद्भावे षष्ठ्यामन्त्रितकारकवचनम् ॥ (व्याख्याभाष्यम्) आमन्त्रितस्य पराङ्गद्भावे षष्ठ्यन्तमामन्त्रितकारकं पराङ्गवद्भवतीति वक्तव्यम्। षष्ठ्यन्तं तावत् - मद्राणां राजन्, मगधानां राजन् ॥ आमन्त्रितकारकम् - कुण्डेनाटन् ॥ (आमन्त्रितकारकोदाहरणबाधकभाष्यम्) नास्त्यत्र विशेषः सति च पराङ्गवद्भावेऽसति वा ॥ (उदाहरणान्तरभाष्यम्) इदं तर्हि - परशुना वृश्चन् ॥ (1224 आक्षेपस्य प्रकारान्तरवार्तिकम् ॥ 2 ॥) ॥ तन्निमित्तग्रहणं वा ॥ (व्याख्याभाष्यम्) अथ वा तन्निमित्तग्रहणं कर्तव्यम्। आमन्त्रितनिमित्तं परस्याङ्गवद्भवतीति वक्तव्यम्। मद्राणां राजन् ॥ (अनन्यथासाधकत्वभाष्यम्) तच्चावश्यमन्यतरद्वक्तव्यम् ॥ (1225 अन्यथासिद्धिवारकवार्तिकम् ॥ 3 ॥) ॥ अवचने हि सुबन्तमात्रप्रसङ्गः ॥ (व्याख्याभाष्यम्) अनुच्यमाने त्वेतस्मिन्सुबन्तमात्रस्य पराङ्गवद्भावः प्रसज्येत। अस्यापि प्रसज्येत। क्षत्रेणाग्ने स्वायुः संरभस्व णित्रेणाग्ने मित्रधेये यतस्व ॥ (आक्षेपभाष्यम्) किं पुनरत्र ज्यायः? ॥ (समाधानभाष्यम्) तन्निमित्तग्रहणमेव ज्यायः। इदमपि सिद्धं भवति - गोषु स्वामिन् पशुषु स्वामिन्। एतद्धि नैव षष्ठ्यन्तम्, नाप्यामन्त्रितकारकम् ॥ (1226 आक्षेपवार्तिकम् ॥ 4 ॥) ॥ सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्योपसंख्यानमननन्तरत्वात्स्वरेऽवधारणाच्च ॥ (व्याख्याभाष्यम्) सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्योपसंख्यानं कर्तव्यम्। तीक्ष्णया सूच्या सीव्यन् तीक्ष्णेन परशुना वृश्चन् ॥ किं पुनः कारणं न सिद्ध्यति?। अननन्तरत्वात् ॥ ननु च परस्य पराङ्गवद्भावे कृते पूर्वस्यापि भविष्यति ॥ स्वरेवधारणाच्च ॥ स्वरेऽवधारणाच्च न सिद्ध्यति। स्वरेऽवधारणं क्रियते, नानन्तर्ये ॥ (1227 आक्षेपवार्तिकम् ॥ 5 ॥) ॥ परमपि च्छन्दसि ॥ (व्याख्याभाष्यम्) परमपि च्छन्दसि पूर्वस्याङ्गवद्भवतीति वक्तव्यम्। आ ते पितर्मरुतां सुम्नमेतु। प्रति त्वा दुहितर्दिवः। वृणीष्व दुहितर्दिवः ॥ (1228 आक्षेपवार्तिकम् ॥ 6 ॥) ॥ अव्ययप्रतिषेधश्च ॥ (व्याख्याभाष्यम्) अव्ययानां च प्रतिषेधो वक्तव्यः। उच्यैरधीयान ॥ (1229 पर्युदासवार्तिकम् ॥ 7 ॥) ॥ अनव्ययीभावस्य ॥ (व्याख्याभाष्यम्) अव्ययीभावस्य नेति वक्तव्यम्। इह मा भूत् उपाग्न्यधीयान ॥ (स्वरेऽवधारणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) अथ किमर्थं स्वरेवधारणं क्रियते? ॥ (1230 समाधानवार्तिकम् ॥ 8 ॥) ॥ स्वरेवधारणं सुबलोपार्थम् ॥ (व्याख्याभाष्यम्) स्वरेवधारणं क्रियते सुपो लोपो मा भूदिति। परशुना वृश्चन् ॥ (1231 समाधानानर्थक्यवार्तिकम् ॥ 9 ॥) ॥ न वा सुबन्तैकान्तत्वात् ॥ (व्याख्याभाष्यम्) न वा कर्तव्यम्। किं कारणम्?। सुबन्तैकान्तत्वात्। सुबन्तैकान्तः पराङ्गवद्भावो भवति ॥ (1232 आनर्थक्यबाधकवार्तिकम् ॥ 10 ॥) ॥ प्रातिपदिकैकान्तस्तु सुब्लोपे ॥ (व्याख्याभाष्यम्) प्रातिपदिकैकान्तस्तु भवति सुब्लोपे कृते ॥ (आनर्थक्यसाधकभाष्यम्) प्रत्ययलक्षणेन सुबन्तैकान्तता स्यात्। तस्मात्स्वरेवधारणं न कर्तव्यं सुबलोपार्थं प्रातिपिदिकस्थायाः सुपो लुगुच्यते। तस्मात्स्वरग्रहणेन नार्थः ॥ (प्रयोजनान्तरभाष्यम्) इदं तर्हि प्रयोजनम् - षत्वणत्वे मा भूतामिति। कूपे सिञ्चन्। चर्म नमन्निति ॥ (प्रयोजननिरासभाष्यम्) एतदपि नास्ति प्रयोजनम्। इह तावत्कूपे सिञ्चन्निति स्वाश्रयं पदादित्वं भविष्यति ॥ (प्रयोजननिराकरणैकदेशिभाष्यम्) चर्म नमन्निति पूर्वपदात्संज्ञायामग इत्येतस्मान्नियमान्न भविष्यति ॥ (निराकरणबाधकभाष्यम्) ननु च समास एवैतद्भवति पूर्वपदमुत्तरपदमिति ॥ (निराकरणसाधकैकदेशिभाष्यम्) नेत्याह। अविशेषेणैव तद्भवति - पूर्वं पदं पूर्वपदम्। उत्तरं पदमुत्तरपदम् ॥ सुबामन्त्रिते ॥ 2 ॥

Kashika

सुबन्तमामन्त्रिते परतः परस्याङ्गवद् भवति, स्वरे स्वरलक्षणे कर्तव्ये। तादात्म्यातिदेशोऽयम्। सुबन्तमामन्त्रितमनुप्रविशति। वक्ष्यति — आमन्त्रितस्य च (६.१.१९८)। आमन्त्रितस्यादिरुदात्तो भवति। स ससुप्कस्यापि यथा स्यात्। कुण्डे॑नाटन्। पर॑शुना वृश्चन्। मद्रा॑णां राजन्। कश्मी॑राणां राजन्। सुबिति किम्? पी॒ड्ये पी॑ड्यमान। आमन्त्रित इति किम्? गे॒हे गार्ग्यः॑। परग्रहणं किम्? पूर्वस्य मा भूत्। देव॑दत्त॒ कुण्डे॑नाटन्। अङ्गग्रहणं किम्? यथा मृत्पिण्डीभूतः स्वरं लभेत। उभयोराद्युदात्तत्वं मा भूत्। वत्करणं किम्? स्वाश्रयमपि कार्यं यथा स्यात्। आं कुण्डे॑नाटन्। आम एकान्तरमामन्त्रितमनन्तिके (८.१.५५) इत्येकान्तरता भवति। स्वर इति किम्? कूपे सिञ्चन्। चर्म नमन्। षत्वणत्वे (८.३.५९; ८.४.२) प्रति पराङ्गवद् न भवति॥ सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्योपसंख्यानमननन्तरत्वात्॥ तीक्ष्ण॑या सूच्या सीव्यन्। तीक्ष्णे॑न परशुना वृश्चन्॥ अव्ययानां प्रतिषेधो वक्तव्यः॥ उ॒च्चैर॑धीयान। नी॒चैर॑धीयान॥

Siddhanta Kaumudi

सुबन्तमामन्त्रिते परे परस्याङ्गवत्स्वरे कर्तव्ये । द्रवत्पाणी शुभस्तपती (द्रव॑त्पाणी॒ शुभ॑स्पती) । शुभ इति शुभेः क्विबन्तात्षष्ठ्यन्तस्य परशरीरानुप्रवेशे पाष्ठिकमामन्त्रिताद्युदात्तत्वम् । न चाष्टमिको निघातः शङ्क्यः । पूर्वामन्त्रितस्याविद्यमानत्वेन पादादित्वात् । यत्ते दिवो दुहितर्मर्त भोजनम् (यत्ते॑ दिवो दुहितर्मर्त॒ भोज॑नम्) । इह दिवःशब्दस्याष्टमिको निघातः । परशुना वृश्चन् ।<!षष्ठ्यामन्त्रितकारकवचनम् !> (वार्तिकम्) ॥ षष्ठ्यन्तमामन्त्रितान्तं प्रति यत्कारकं तद्वाचकं चेति परिगणनं कर्तव्यमित्यर्थः । तेनह न । अयमग्ने जरिता (अ॒यम॑ग्ने जरि॒ता ) । एतेनाग्ने ब्रह्मणा (ए॒तेना॑ग्ने॒ ब्रह्म॑णा) । समर्थानुवृत्त्या वा सिद्धम् ।<!पूर्वाङ्गवच्चेति वक्तव्यम् !> (वार्तिकम्) ॥ आ ते पितर्मरुताम् (आ ते॑ पितर्मरुताम्) । प्रति त्वा दुहितर्दिवः (प्रति॑ त्वा दुहितर्दिवः) ।<!अव्ययानां न !> (वार्तिकम्) ॥ उच्चारधीयान ।<!अव्ययीभावस्य त्विष्यते !> (वार्तिकम्) ॥ उपाभ्यधीयान ॥

Padamanjari

परस्याङ्गवदिति। तस्यैव पदस्यामन्त्रितस्याङ्गवदेकदेशवद्भवति, तद्ग्रहणेन गृह्यत इत्यर्थः। तादात्म्यातिदेशोऽयमिति। अङ्गश्बदस्यावयववचनत्वात् तस्यामन्त्रितस्यात्मा तदात्मा, तस्य भावस्तादात्म्यम्, तत्स्वभावत्वमित्यर्थः। एतदेव स्पष्टयति-सुबन्तमिति। अनुप्रविशति उ अन्तर्भवति, सुबन्तामन्त्रितसमुदाय एकस्मिन्नामन्त्रिते संपन्ने यः स्वरः शक्यते कर्तुं स कर्तव्य इत्यर्थः। कः पुनरसौ? आद्यौदातत्वम्, समुदायस्य च पदात्परत्वे निघातः। कुण्डेनाटन्निति। नन्वत्र सति तावत्पराङ्गवद्भावे समुदायस्याद्यौदातत्वं शेषनिघामन्त्रितं निहन्यते। यदा तर्ह्यटन्नित्येतत्पादादौ वर्तते तदा नास्ति निघात इति द्वयोराद्यौदातत्वं स्यात्। किं च पुंल्लिङ्गोऽपि कुण्डशब्दोऽस्ति-पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः। इति। कुण्डीति च जानपदादिसूत्रेण ङीषि भवति। परशुना वृश्चन्निति। ठाङ्परयोः खनिशृभ्यां डिच्चऽ इति कुप्रत्ययान्तत्वादन्तोदातः परशुशब्दः, मद्रशब्दः’मदेश्च’ इति रक्प्रत्ययान्तः, कश्मीरशब्दो धृतादित्वादन्तोदातः,’सुबन्तस्य पराङ्गवद्भावे तन्निमितग्रहणम्’ तस्यामन्त्रितवाच्यस्यार्थस्य यन्निमितं तदभ्धाय्येव सुबन्तं पराङ्गवदित्यर्थः। उदाहरणेषु तृतीयान्तस्य तावन्निमितत्वमस्त्येव;षष्ठ।ल्न्तस्याप्यस्ति, भृत्यनिमिता हि राजता, देशनिमिता वा। एवं गोषु स्वामिन्नित्यत्रापि भवति। तन्निमितत्वाभावे तु न भवति-मरुत्वां इन्द्र वृषभो रणाय, मरुद्भिरिन्द्र सख्यं ते अस्तु, मायाभिरिन्द्रमायिनम्, एतेनाग्ने ब्रह्मणा वावृधस्व, क्षेत्त्रेणाग्ने स्वायुस्सम्भरस्व, मित्रेणाग्ने मित्रधेये यतस्व। सुबिति किमिति। तन्निमितग्रहणादेव तिङ्न्तस्य सिध्दो निरास इति प्रश्नः। पीड।ले पूड।ल्मानेति। न हि सूत्रकारो वार्तिककारवचनेनातिव्याप्तिनिवारणं मन्यत इति भावः।’पीड अवगारहने’ चुरादिणिच्, उभयत्र कर्मणि लट्, एकत्रोतमैकवचनमिट्, अवपत्र शानच्, यकि णिलोपः,’तास्यनुदातेत्’ इति इटोऽ नुदातत्वम्, यकः प्रत्ययस्वरः, ठेकादेश उदातेनोदातःऽ इत्येकार उदातः, पीड।ल्मानेत्यत्रामन्त्रितनिघातः। ननु च समर्थग्रहणानुवतयैवात्र न भविष्यति, अस्त्य त्रापि सामर्थ्यम्, कथम्? सम्बोधनपदं क्रियाया एव विशेषकम्, तथा च ब्रजानि देवदतेत्यत्रामन्त्रितनिधातो भवति। उक्तं च सम्बोधनपदं यद्यतत्क्रियाया विशेषकम्। ब्रजानि देवदतेति निधातोऽत्र तथा सति॥ इति। अथ वा- हेतुहेतुमद्भावलक्षणोऽत्र सम्बन्धः, हे पीड।ल्मान त्वत्पीडयाहमपि पीड।ल् इति। गेते गार्ग्य इति। गेहशब्द उञ्छादित्वादन्तोदातः, एकस्यामासनादिकायां क्रियायां द्वयोरपि कारकत्वातद्द्वारेणास्ति सामर्थ्यम्। परग्रहणं किमिति। सन्निधानादामन्त्रितस्ययैव भविष्यतीति प्रश्नः। पूर्वस्य मा भूदिति। निमितभाव एवामन्त्रितस्योपक्षीणतया पूर्वस्यापि स्यादिति भावः। एवं च पूर्वस्यामन्त्रितत्वमतन्त्रम्। गार्ग्यः कुण्डेनाटन्नित्यादावपि भवति सन्निधानात्। अमन्त्रितत्वमपि तन्त्रमिति चेत; यद्येवम्, परमेव संनिहितमिति न पूर्वं प्रत्यङ्गत्वप्रसह्गः। देवदतः कुण्डेनाटन्नित्यत्र पूर्वं प्रत्यङ्गत्वे सति समुदायस्याद्यौदातत्वं शेषनिघातः। अटन्नित्यामन्त्रितनिघात इति स्वरः। परग्रहणे तु सति देवदतशब्दस्यामन्त्रिताद्यौदातत्वम्। तथा कुण्डेनाटन्नित्यम्यापि निधातस्तु न भवति; ठमन्त्रितं पूर्वमविद्यमानवत्ऽ इति देवदतशब्दस्याविद्यमानवत्वाद्। च्छन्सि तु परमपि पूर्वस्याङ्गवद्ष्यते-आ ते पितर्मरुतां सुम्नमेतु। पुतरित्यनेन सह मरुतामित्यस्यापि निघातः। यथा मत्पुण्डीभूतः। तत्र सुबन्तस्य मृत्पिण्डात्मना परणामासम्भवादेकीभावप्रतिपादनपरमेतत्। मृत्पिण्ड इवैकतामापन्न इत्यर्थः। यद्वा, पिण्डीशब्दोऽप्यस्ति-प्रविश पिण्डीमिति, तस्यायं प्रयोगः। भूतशब्दौपमार्थः-पितृभूत इति यथा। किमर्थं पुनरेवंभूतस्यस्वरप्राप्तये यत्न इत्यत आह-उभयोरपीति। असत्यङ्गग्रहणे कार्यव्यपदेशशास्त्राणामन्यतमातिदेशः स्याद्। यथा परस्य कार्यमामन्त्रितस्य स्वरः आमन्त्रितव्यपदेशः स्वरशास्त्रं वा, तथा सुबन्तस्यापि तद्भवतीति। एवं चोभयोराद्यौदातत्वं स्यात्। ननु च पदात्परस्य निघातादुभयोरनुद्तत्वं मा भूद्ति वाच्यम्; सत्यम्, आमन्त्रितस्यापादादित्वे सति, पादादित्वे तदुक्तम्। वत्करणं किमिति। परत्र परशब्दप्रयोगादेव वत्यर्थो लप्स्यत इति प्रश्नः। स्वाश्रयमपि यथा स्यादिति। नानेन क्वाचित्कत्वमस्योच्यते। एवं हि विषयविभागे न ज्ञायते-क्वाह्गवद्भवति? क्व नेति? नापि कादाचत्कत्वम्-कदाचिदङ्गवत्, कदाचिन्नेति, एवं हि सर्वत्र विकल्पः स्यात्। तस्मादमयत्रार्थ - असति वद्ग्रहणे आम् कुण्डेनाटन्निति स्थिते अटन्नित्यस्य निघाते प्राप्ते कूण्डेनेत्यस्यानुप्रवेशात्कुण्डेनाटन्नित्येकमामन्त्रितं सम्पन्नम्। न च तदेकान्तरमिति प्रतिषेधाभावान्निघात एव स्यात्। वत्करणे तु सति अटन्नित्यस्य तावदेकान्तरत्वान्निघातप्रतिषेधे आद्यौदातत्वं प्राप्तम्। तस्यां दशायां कुणडेनेत्यम्यानुप्रवेशात्समुदायस्याद्यौदातत्वं भवति। तदेवं समुदायस्यानैकान्तरत्वेऽपि अटन्नित्यस्य यदेकान्तरत्वं वत्करणेन लब्धं तेनैव समुदायस्य निघातनिवृत्तिराद्यौदातत्वं च भवति। कूपे स्ञ्चन्निति। अत्र पराङ्गवद्भावे सति ऐकपद्यत्षत्वप्रसङ्गः, स्वाश्रयं पदादित्वं भविष्यति, सर्वातिदेशेषु ह्यविरुध्दं स्वाश्रयं भवति। किं च नात्रातिदेशिकं सकारस्य किञ्चिच्छास्त्रीयं कार्यमस्ति, अतोऽपि स्वाश्रयं भवत्येव, यथा नमते दण्डः स्वयमेवेत्यत्र यक्प्रतिषेधे शप्। इदं तर्हि-ठ्चर्म नम्न्ऽ, अत्र पराङ्गवद्भावे सति समानपदस्थत्वाण्णात्वं स्यात्। सत्यपि समानपदत्वे’पर्वपदात्संज्ञायामगः’ इति नियमादसंज्ञायां न भविष्यति। नायं नियमस्य विषयः, पूर्वपदशब्दो हि समासावयवे रूढः। तेन समास नियम्। अथ तु पूर्वं पदं पूर्वपदंपूर्वपदादत्यविशेषेण नियमो व्याख्यायेत, ततः स्वरग्रहणं शक्यमकर्तुम्। अक्रियमाणे च तस्मिन्, समानाधिकरणस्योपसंख्यानमित्येतदमपि शक्यमकर्तुम्। कथं परस्याङ्गवद्भावे कृते चिणो लुङ्न्यायेन विष्यभेदाल्लक्षणस्यावृतौ पूर्वस्यापि पराङ्गवद्भावो भविष्यति? सति तु स्वरग्रहणे स्वहादन्यत्र परशुना वृश्चन्नित्यत्र वृश्चन्निति प्रतिपदिकम्; न च प्रत्ययलक्षणेनाप्रत्यय इति प्रतिषेषः,’न ङ्गिंबुध्द्योः’ इति निषेधाल्लिङ्गात्; तत्र पराङ्गवद्भावेन प्रातिपदिकानुप्रवेशात्’सुपो धातुप्रातपदिकयोः’ इति सुब्लुक् प्रसज्येत; स्वहग्रहणे तु सतु सुब्लुकि कर्तव्ये पराङ्गवद्भावाभावः? नैतदस्ति; पराङ्गवदित्यामन्त्रितं संनिधानात्परशब्देन गृह्यते; तस्य रूपस्य सूबन्तैकान्तत्वात्सुबन्तकार्य एव पराङ्गवद्भावः, न प्रातिपदिककार्ये। उच्चैरधीयानेति। उच्चैर्नीचैः शब्दौ स्वराद्ष्वन्तोदातौ पठितौ, अधिकरणशक्तिप्राधान्याञ्च तस्मिन्निमितं च ॥

Nyaas

परस्याङ्गवत् इति। अत्राङ्गवशब्दोऽवयववचनः। पर्सयाङ्गवत् परैकदेशवद्भवति। तद्ग्रहणेन गृह्रत इत्यर्थः। एवं तादात्म्यातिदेशोऽयं विज्ञायत इत्याह - तादात्म्यातिदेशोऽयम् इति। तादात्म्यम् = तत्सभावत्वम्। सुबन्तम् इत्यादिना तमेव तादात्म्यातिदेशं स्पष्टीकरोति। सुबन्तमामन्त्रितमनुप्रविशति इति। तत्रान्तर्भवतीत्यर्थः। कुण्डेनाटन् इति। अत्र कुण्डशब्दोकार आमन्त्रितस्वरः। एवमन्यत्रापि ससुप्कस्यामन्त्रितस्य स्वरो वेदितव्यः।पीडए पीडमान इति। हे पीडमान त्वदीयया पीडयाऽहं पीडए, बाध्येऽहमित्यर्थः। पीड अवगाहने (धातुपाठः-1544), चुरादिणिच्, उभयत्र कर्मण्यात्मनेपदम्, एकत्रोत्तमपुरुषैकवचनमिट्, अन्यत्र शानच्, सार्वधातुके यक्, णिलोपः, तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः (6.1.186) इतीटोऽनुदात्तत्वम्, यकः प्रत्ययस्वरेणाद्युदात्तत्वम्, यकः प्रत्ययसर्वेणाद्युदात्तत्वम्, एकादेश उदात्तेनोदात्तः (र8.2.5) इत्येकार उदात्तः। पीडमानेत्यस्य तु पीड इत्यस्यात् पदादुत्तरस्य आमन्त्रितस्य च (8.1.19) इति निघातः। गेहे गार्ग्यः इति। गेहशब्द उञ्छादिपाठादन्तोदात्तः, सप्तम्येकादेशः पूर्ववदुदात्तः, गाग्र्य इति ञ्त्सरेणाद्युदात्तः। पृथक्स्वर एवात्र भवति। देवदत्त कुण्डेनाटन् इति। यदि परग्रहणं न क्रियते तदा देवदत्तशब्दं पूर्वमप्यामन्त्रितं प्रति सुबन्तस्यानुप्रवेशः स्यात्, ततश्च देवदत्तशब्दात् पदात्परस्याटन्नित्येतस्य आमन्त्रितस्य च (8.1.19) इति निघातः स्यात्। ननु च परग्रहणे क्रियमाणे कुण्डशब्दस्य पराङ्गवद्भावे सत्याद्युदात्तत्वे षाष्ठिके कृते देवदत्तशब्दात् पदात्परस्याटन्नित्येतस्य निघातेन भवितव्यमेव? नैतदस्ति; अपादादौ हि स निघातः, पादादित्वञ्चेह विवक्षितम्; तत्र च देवदत्तेत्यामन्त्रितस्वरेणाद्युदात्तः। एवं कुणेडनाटन्नित्यपि। आमन्त्रितनिघातोऽत्र न भवति; पादादित्वात्। यथा मृत्पिण्डीभूतः स्वरं लभेत इति। कथं नाम सुबन्तसमुदायो मृत्पिण्ड इवैकीभूत एकरूपतामिवापन्नः स्वरं लभेततेत्यवमर्थमङ्गग्रहणम्। किमर्थं पुनरेकीभूतस्य स्वरप्राप्तये यत्नः क्रियत इत्यत आह - उभयोः इत्यादि। यद्यङ्गग्रहणं न क्रियेत, ततश्च कार्यातिदेश- शास्तरातिदेश-व्यपदेशातिदेशानामन्यतमः स्यात्। तथा च सति यथा परस्य कार्यमाद्युदात्तत्वमामन्त्रितव्यदेश आद्युदात्तशास्त्रं च; तथा सुबन्तस्य पूर्वस्यापि स्यादिति,ततश्चोभयोरप्याद्युदात्तत्वं स्यात्। अङ्गग्रहणे तु सति तादात्म्यातिदेशोऽयं भवति। तेन मृत्पिण्डीभूतः सुबन्तसमुदाय आमन्त्रिताद्युदात्तरूपं स्वरं लभत इति न भवत्युभयोराद्युदात्तत्वप्रसङ्गः। स्वाश्रयमपि कार्यं यथा स्यात् (इति)। आम कुण्डेनाटन् इत्यत्र अटन्नित्येतस्य पदात्परस्य आमन्त्रितस्य (8॥19) इति निघाते प्राप्ते न लुट् (8.1.29) इत्यतो नेत्यनुवर्तमाने आम एकान्तरताया अभावात्। परमेव हि स्यात् सुबन्तमसत#इवत्करणे, न च तथाभूतेनैकान्तरता युक्ता। वत्करणे तु सति, भवति कदाचित् स्वाश्रयमप्यनङ्गत्वमित्युपपद्यत एकान्तरता, तेन निघातप्रतिषेधः सिध्यति। तत्रायं स्वरविभागः - आमित्यस्य निपातस्वरेणाद्युदात्तत्वम्। कुण्डशब्दस्यापि पराङ्गवद्भावे सत्यामन्त्रितस्वरेणाद्युदात्तत्वम्। तथा निघातप्रतिषेधे सत्यटन्नित्येतस्यापि षाष्ठिकेनाद्युदात्तेन भवितव्यम्। `कूपे सिञ्चन् इति। अत्र पराङ्गवद्भावो नास्तीति पदादित्वं सकारस्य भवति। तेन सात्पदाद्योः (8.3.111) इति षत्वप्रतिषेधः स्यात्। चर्म नमन् इति। अत्रापि पराङ्गवद्भावाभावात् समानपदस्थौ निमित्तनिमित्तिनौ न भवत इति समानपदाश्रयं णत्वं न भवति।सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्य इत्यादि। किं पुनः कारणं समानाधिकरणस्य न प्राप्नोति, यत इदमुपसंख्यानं क्रियत इत्याह - अनन्तरत्वात् इति। तस्मिन्निति निर्दिष्टे पूर्वस्य (1.1.66) इत्यत्र निर्दिष्टग्रहणस्यानन्तर्यार्थत्वात् व्यवहिते न प्राप्नोतित्तयुपसंख्यायते। तीक्ष्णया सूच्या सीव्यन् इत्यत्र सीव्यन्नित्येतस्मिन् परतस्तीक्ष्णयेत्यस्य व्यवहितस्यापि पराङ्गवादाद्युदात्तत्वं भवति। उच्चैरधीयान इति। उच्चैः शब्दस्य पराङ्गवद्भावाभावादामन्त्रितनिबन्धनमाद्युदात्तत्वं न भवति। तस्मिन्नसति तत्रान्तोदात्तत्वमेव भवति; स्वरादिष्वनन्तोदात्तस्य पाठात्। तथा हि तत्रैव सन्नतर - उच्चैस्- नीचैरित्येवमादीनि पृथक्पर्यन्तान्युपदिश्य एते सन्नतरप्रभृतयोऽन्तोदात्ताः पठन्ते (1.1.36) इत्युक्तम्। अधीयानेत्यस्य यदा पादादित्वं विवक्ष्यतेतदाऽऽद्युदात्तत्वम्, अन्यत्र आमन्त्रितस्य च (8.1.19) इति निघातः॥

Prakriyasarvasvam

आमन्त्रितेनान्वितार्थं यत् सुबन्तं तत्स्वरे कार्य आमन्त्रिते परे परस्यैकदेश- वत्स्यात् । आमन्त्रितान्तर्भूतं स्यादित्यर्थः । उत्तिष्ठ ब्रह्मणस्पते । अत्र ‘आमन्त्रितस्य च’ (८-१-१९) इति अपादादावामन्त्रितस्य सर्वानुदात्तत्वविधिर्ब्रह्मण इत्यस्यापि स्यात् । पादादौ त्वामन्त्रितस्यायुदात्तत्वं वक्ष्यते । तदपि पूर्वस्य स्यात् । भुवनस्य परे यस्य२ते ।<!मिथः समानाधिकरणानां पराङ्गवत्त्वं वाच्यम्!> (वा. २-१-२) । तीक्ष्णेन परशुना वृश्चत् । अत्र पूर्वयोर्द्वयोरपि पराङ्गवत्त्वम् ।<!अव्ययानां नेतिवाच्यम्!> (वा. २-१-२) । उच्चैरधीयानः । ‘सह सुपा’ (२-१-४) इत्यत्र सहेति विभागात् सुबन्तं क्वचिदसुपापि सह समस्यते । तेनानुव्यचलदिति समासोऽन्तोदात्तः स्यात् । मयूरव्यंसकादिषु च्छन्दसि हस्तगृह्यादय इति पाठात् क्त्वात्तेन समासः । ल्यप् । इतो नयतु हस्तगृह्य । पर्वते पादगृह्य । लाङ्गूलगृह्य इत्यादि । उदात्तवता तिङा गतेः समासचनं वाच्यमिति हरः । ‘यो जात एव’ इत्यत्र पर्यभूषत्, यः शम्बरमित्यत्र अन्वविन्दत ।

Vartika

षष्ठ्यामन्त्रितकारकवचनम् ।