21006: अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु¶
Padacheda: अव्ययम् | S | 1 | 1 |
विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चात्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु | S | 7 | 3 |
Sutrartha¶
‘विभक्तिः, समीपम्, समृद्धिः, व्यृद्धिः, अर्थाभावः, अत्ययम्, असम्प्रतिः, शब्दप्रादुर्भावः, पश्चात्, यथा, आनुपूर्व्य, यौगपद्य, सादृश्य, सम्पत्ति, साकल्यार्थः, अन्तवचनम्’ - एतेषु अर्थेषु विद्यमानमव्ययम् समर्थेन सुबन्तेन सह समस्यते, तस्य च ‘अव्ययीभावसमास’ इति संज्ञा भवति ।
Sutrartha (English)¶
An अव्यय that is used in any of these meanings- विभक्तिः (e.g. ‘अधि’), समीपम् (near, e.g. ‘उप’), समृद्धिः (prosperity, e.g. ‘सु’) , व्यृद्धिः (deterioration, e.g. ‘दुस्’,’दुर्’), अर्थाभावः (absence, e.g ‘निर्’), अत्ययम् (expiry, e.g. ‘अति’), असम्प्रतिः (non-presence, e.g. ‘अति’), शब्दप्रादुर्भावः (appearance of the word, e.g. ‘तत्’), पश्चात् (later, e.g. ‘अनु’), यथा (eligibility, e.g. ‘यथा’), आनुपूर्व्य (sequentially, e.g. ‘अनु’), यौगपद्य (simultaneously, e.g. ‘स’), सादृश्य (similarity, e.g. ‘स’), सम्पत्ति (appropriate, e.g. ‘स’), साकल्यार्थः (entirety, e.g. ‘स’), अन्तवचनम् (‘till’, e.g. ‘स’) - undergoes a समास with a related सुबन्त, and the समास is called अव्ययीभावसमास.
Vasu English Summary¶
An अव्यय - indeclinable, used with the sense of an inflective-affix (विभक्ति) or of near to, or prosperity, or diversity, or absence of the thing, or departure, or not now, or the production of some sound, or after, or according to, or order of arrangement, or totality, or termination, is invariably compounded with a word ending in a case-affix which is connected with it in sense and the compound so formed is called अव्ययीभाव।
Vasu English Translation¶
An अव्यय - indeclinable, used with the sense of an inflective-affix (विभक्ति) or of near to, or prosperity, or diversity, or absence of the thing, or departure, or not now, or the production of some sound, or after, or according to, or order of arrangement, or totality, or termination, is invariably compounded with a word ending in a case-affix which is connected with it in sense and the compound so formed is called अव्ययीभाव। The words and so are understood in this sútra. The word वचन should be read as connected with every one of the above phrases.
1.विभक्तिवचन;- As अधिस्त्रि कथा वर्तते’ a story relating to women.’ अधिकुमारि relating to a girl.’
समीपवचन; - As उपकुम्भम् ‘near to the jar.’उपमणिकं’ near to the gem.’
समृद्धिवचन;- As सुमद्रं ‘well or prosperous with the Madras’; सुमगधं ‘well with the Magadh.’
व्यृद्धिवचन;- As दुर्गवादिकं “ill with the Gavadikas ;” दुर्यवन ‘ ill with the Yavanas.’
अभाववचन;- As निर्मक्षिकम् ‘free from flies;’ निर्मशकं ‘free from mosquitoes’.
अत्ययवचन ;- As निर्हिमम् ‘on the departure of the cold weather’; निःशीतमं .
असम्प्रतिवचन;- As अतितैसृकम् ‘past (not now) the time of wearing quilts’.
शब्दप्रादुर्भाववचन;- As इति हरि ‘the exclamation Hari’ (thus वैष्णवगृहे इति हरि वर्तते ‘in the house of the Vaishnava there is the cry of Hari Hari’).
पश्चाद्वचन;- As अनुरथं पादातम् ‘the infantry after the chariots.’
यथार्थवचन;- The meaning of the word यथा is four-fold, viz. correspondence, severalty or succession, the not passing beyond something, and likeness; thus (1) अनुरूपम् ‘in a corresponding manner.’ (2) प्रत्यर्थम् ‘according to each or several object or signification’. (3) यथाशक्ति ‘ according to one’s ability’.
आनुपूर्व्यवचन;- As अनुज्येष्ठं प्रविशन्तु भवन्तः ‘let your honors enter in the order of seniority.’
यौगपद्यवचन;- As सचक्रं धेहि ‘simultaneously with the wheel.’
सादृश्यवचन; As ससखि ‘like a friend.’
सम्पत्तिवचन;- As सक्षत्रम् ‘as warriors ought.’
साकल्यवचन; As सतृणम् ‘even to the grass’ it, the whole, not leaving even a scrap.
अन्तवचन;- As साग्नि as far as the chapter of fire (i.e. the whole Veda).
Bhashya¶
अव्ययं विभक्तिसमीपसमृद्धिवृद्ध्यर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्य- संपत्तिसाकल्यान्तवचनेषु (355) (अनिष्टवारणाधिकरणम्) (आक्षेपभाष्यम्) इह कस्मान्न भवति सुमद्राः सुमगधाः सपुत्रः सच्छात्र इति। समृद्धौ साकल्य इति च प्राप्नोति? ॥ (आक्षेपबाधकभाष्यम्) नैष दोषः इह कश्चित्समासः पूर्वपदार्थप्रधानः। कश्चिदुत्तरपदार्थप्रधानः। कश्चिदन्यपदार्थप्रधानः। कश्चिदुभयपदार्थप्रधानः। पूर्वपदार्थप्रधानोव्ययीभावः। उत्तरपदार्थप्रधानस्तत्पुरुषः। अन्यपदार्थप्रधानो बहुव्रीहिः। उभयपदार्थप्रधानो द्वन्द्वः। न चात्र पूर्वपदार्थप्राधान्यं गम्यते ॥ (आक्षेपबाधकयुक्त्यन्तरभाष्यम्) अथ वा नेमे समासार्था निर्दिश्यन्ते ॥ किं तर्हि?। अव्ययार्था इमे निर्दिश्यन्ते। एतेष्वर्थेषु यदव्ययं वर्तते तत्सुबन्तेन सह समस्यत इति ॥ अव्ययं विभक्ति ॥ 6 ॥
Kashika¶
सुप् सुपेति च वर्तते। विभक्त्यादिष्वर्थेषु यदव्ययं वर्तते, तत् समर्थन सुबन्तेन सह समस्यते, अव्ययीभावश्च समासो भवति। वचनग्रहणं प्रत्येकं संबध्यते। विभक्तिवचने तावत् — स्त्रीष्वधिकृत्य कथा प्रवर्तते, अधिस्त्रि। अधिकुमारि। सप्तम्यर्थ यदव्ययं तद् विभक्तिवचनम्। समीपवचने — कुम्भस्य समीपम्, उपकुम्भम्। उपमणिकम्। समृद्धिर्ऋद्धेराधिक्यम्। समृद्धिर्मद्राणाम्, सुमद्रम्, सुमगधं वर्तते। व्यृद्धिर्ऋद्धेरभावः। गवदिकानामृद्धेरभावः, दुर्गवदिकम्, दुर्यवनं वर्तते। अर्थाभावो वस्तुनोऽभावः। अभावो मक्षिकाणाम्, निर्मक्षिकम्,निर्मशकं वर्तते। अत्ययो भूतत्वमतिक्रमः। अतीतानि हिमानि अतिहिमम्, निर्हिमम्, निःशीतं वर्तते। असंप्रति — उपभोगस्य वर्तमानकालप्रतिषेधः। अतितैसृकम्। तैसृकमाच्छादनम्, तस्यायमुपभोगकालो न भवतीत्यर्थः। शब्दप्रादुर्भावः प्रकाशता शब्दस्य इतिपाणिनि। तत्पाणिनि। पाणिनिशब्दो लोके प्रकाशत इत्यर्थः। पश्चात् — अनुरथं पादातम्। रथानां पश्चादित्यर्थः। यथा — यथार्थे यदव्ययं वर्तते तत् समस्यते। योग्यता वीप्सा पदार्थानतिवृत्तिः सादृश्यं चेति यथार्थाः। योग्यतायाम् — अनुरूपम्। रूपयोग्यं भवतीत्यर्थः। वीप्सायाम् — अर्थमर्थं प्रति प्रत्यर्थम्। पदार्थानतिवृत्तौ — यथाशक्ति। आनुपूर्व्यमनुक्रमः — अनुज्येष्ठं प्रविशन्तु भवन्तः। ज्येष्ठानुपूर्व्येण भवन्तः प्रविशन्त्वित्यर्थः। यौगपद्यमेककालता। सचक्रं धेहि। युगपच्चक्रं धेहीत्यर्थः। सादृश्यं तुल्यता। किमर्थमिदमुच्यते, यथार्थ इत्येव सिद्धम्? गुणभूतेऽपि सादृश्ये यथा स्यात्। सदृशः किख्या सकिखि। संपत्तिरनुरूप आत्मभावः समृद्धेरन्यः — सब्रह्म बाभ्रवाणाम्। सक्षत्रं शालङ्कायनानाम्। साकल्यमशेषता — सतृणमभ्यवहरति। सबुसम्। न किंचिदभ्यवहार्यं परित्यजतीत्ययमर्थोऽधिकार्थवचनेन प्रतिपाद्यते। अन्तवचने — अन्त इति परिग्रहापेक्षया समाप्तिरुच्यते। साग्नि अधीते। सेष्टि, सपशुबन्धम्। पशुबन्धान्तमधीत इत्यर्थः। इयं समाप्तिरसकलेऽप्यध्ययने भवतीति साकल्यात् पृथगुच्यते॥
Siddhanta Kaumudi¶
अव्ययमिति योगो विभज्यते । अव्ययं समर्थेन सह समस्यते । सोऽव्ययीभावः ॥
Laghu Siddhanta Kaumudi¶
विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन सह नित्यं समस्यते सोऽव्ययीभावः । प्रायेणाविग्रहो नित्यसमासः, प्रायेणास्वपदविग्रहो वा । विभक्तौ, हरि ङि अधि इति स्थिते ॥
Balamanorama¶
अव्ययं विभक्तिसमीपसमृद्धि- व्यृद्ध्यर्थाभावात्ययासम्प्रति- शब्दप्रादुर्भावपश्चाद्यथाऽऽनुपूर्व्ययौगपद्यसादृश्य- सम्पत्तिसाकल्यान्तवचनेषु - अव्ययं विभक्ति । विभक्त्यर्थाद्यभावेऽप्यपदिशमित्यादि साधयितुमाह — अव्ययमिति योगो विभज्यत इति । अत्र ‘समर्थः पदविधिः’ इत्यतः समर्थग्रहणमनुवृत्तं तृतीयान्ततया विपरिणम्यते । समास इति, अव्ययीभाव इति चाधिकृतम् । तदाह — अव्ययं समर्थेनेति । सोऽव्ययीभाव इति । स समासः अव्ययीभावसंज्ञः स्यादित्यर्थः । तथाच दिशयोर्मध्यमित्यस्वपदविग्रहे मध्यार्थकस्य अपेत्यव्ययस्य दिशयोरित्यनेन समाससंज्ञा, तस्य समासस्याऽव्ययीभावसंज्ञा च सिद्धा । तथाच समासत्वात्प्रातिपदिकत्वेसुपो धातु॑इति सुब्लुकि सति दिशा-अप इति स्थितम् ।
Tattvabodhini¶
अव्ययं विभक्तिसमीपसमृद्धि- व्यृद्ध्यर्थाभावात्ययासम्प्रति- शब्दप्रादुर्भावपश्चाद्यथाऽऽनुपूर्व्ययौगपद्यसादृश्य- सम्पत्तिसाकल्यान्तवचनेषु - अव्ययं विभक्ति । विभक्तिरिह कारकशक्तिः । विभज्यते अनया प्रातिपदिकार्थ इथि व्युत्पत्तेः । अतएव वक्ष्यतिविभक्त्यर्थादिषु विद्यमानमव्यय॑मिति ।
Padamanjari¶
श्रुतत्वादव्ययस्यैव विभक्त्यदयो विशेषणानि, न समासस्येत्याह-विभक्त्यादिष्विति। समस्यत इति। यद्यपि’समास’ इति संज्ञामात्रं विधूयते, तथाप्ययमबुधवोधनाय भ्न्नयोः शब्दयोः संश्लेषः प्रक्रियायां क्रियत इति’समस्यते’ इत्युक्तम्। वचनग्रहणं प्रत्येकमभिसम्बध्यत इति। तञ्च कर्मसाधनं विभक्त्यादिभिः समानाधिकरणम्। विभक्त्यादिषु वाच्येषु यदव्ययं वरतते उ विभक्त्यादीनर्थान्यदव्ययं वक्ति, द्यौतयतीत्यर्थः। विभक्तिशब्देन कारकशक्तिरभिधायते विभज्यतेऽनया प्रतिपदिकार्थ इति कृत्वा। स्त्रीष्वधिकृत्येति। स्त्रीषु कथा प्रवर्त्यत इत्यन्वयः। अधिकृत्येति, प्रस्तुत्येत्यर्थः। संनिधानाञ्च स्त्रिय एव प्रसुतत्येति गम्यते, स्त्रीविषया कथा प्रवर्त्यत इत्यर्थः। प्रायेण तु प्रवर्तते इति। अत्राहुः-अधिकृत्य या कथा मा स्त्रीषु प्रवर्तत इकत्यर्थः, तत्र प्रस्तावने कथने च कर्तुरेकत्वात्सिध्दः क्त्वाप्रत्यय इति। अन्ये त्वाहुः-कृत्यस्य कथा कर्तव्यकथेत्यर्थः, सा स्त्रीषु अधिप्रवर्तते स्त्रीष्वधाति च प्रक्रियावाक्यम्, न त्वेतत्प्रयोगार्हम्; समासस्य नित्यत्वात्। अधिस्त्रीति। ठव्ययूभावश्चऽ इति नपुंसकत्वाद’ह्रस्वो नपुंससके’ इति ह्रस्वः। सप्तम्यर्थे यदव्ययमिति। विभक्तिवचनतां दर्शयति। उपकुम्भमिति। कुम्भस्योपेति प्रक्रियावाक्यं षष्ठ।ल्न्तेन समासः। दुःशकम् दुर्यवनमिति। मनुष्यजातिवचनौ शकयवनशब्दौ, किमर्थं पुनर्वृध्दिग्रहणम्, अर्थाभाव इत्येव सिध्दम्? न सिध्द्यति; येन समस्यते तद्रथस्याभावोऽर्थाभावः, न चात्र शकानामभावः, किं तर्हि? तदीयाया ऋध्देः। अर्थाभाव इत्यर्थग्रहणं यत्र धर्मिस्वरूपस्यैवाभावस्तत्र यथा स्यात्, धर्ममात्रप्रतिषेधे मा भूत्, तद्यथा-ब्राह्मणेन ब्राह्मण्यामुत्पादितत्वेन कस्यचिद्ब्राह्मणत्वं प्रसज्य प्रतिषेधति-नायं ब्राह्मणो यस्तिष्ठन्मूत्रयति। इतरेतराभावे च मा भूत्-गौरश्चो न भवतीति; अत्रापि वस्त्वन्तनं प्रतिषिध्यते, न धर्मिस्वरूपम्। अतिशीतमित्यरिथाभावः। कालनवच्छिन्नोऽभाव आश्वीयते, इह तु संप्रत्यभाव इत्ययस्य भेदेनोपादानम्। अतितैसृकमिति। तिसृका नाम ग्रामः,’तिसृभावे संज्ञायां कन्युपसङ्ख्यानम्’ तत्र भवं तैसृकमु आच्छादनम्। तच्च कालविशेष उपभोग्यम्। उष्णे शीते वा अतिशब्दो नेदानीमित्यस्यार्थे वर्तते। उपभोगक्रिया च वृतौ स्वावादेवान्तर्भवति, यथा-दध्युपसिक्त ओदनो दध्योदन इति। तद्ध्दरेण पूर्वोतरपदयोः सामर्थ्यम्, नेदानूमुपभोगार्हं तैसृकमाच्छादनमित्यर्थः। आच्छादनापेक्षस्यापि दैसृकशब्दस्य गमकत्वात्समासः। नात्र तैसृकस्य कालानवच्छिन्नो भावः, नापि संप्रति तसायाभावः, किं तर्हि? तदुपभोगस्येत्यर्थाभावादत्ययाच्चासंप्रतिभिद्यते। तत्पाणिनीति। तच्छब्दो निपातोऽप्यस्ति। प्रत्यर्थमिति। अर्थमर्थं प्रतीति वाक्यमप्यत्र भवति; भाष्यप्रयोगात्। यदि वा नात्राव्ययं वीप्सावृत्ति, किं तर्हि? कर्मप्रवचनूयत्वात्सम्वन्धमवच्छिनति। वीप्सा तु द्विर्वचनद्योत्या। अनुपूर्वस्य भाव आनुपूर्व्यम्-ब्राह्मणादित्वात्ष्यञ्, ष्यञः षित्करणात्स्त्रियामपि भवति तस्य प्रयोगः। एवं ज्येष्ठ अनुपूर्व्येणेति। सचक्रमित। सहशब्दसस्य समासः, ठव्यीभावे चाकालेऽ इति सभावः, एवमुतरेष्वप्युदाहरणेषु। गुणभूतेऽपीत्यादि। यदि’सादृश्ये’ इति नोच्यते, पूर्विपदार्थप्रधानोऽव्ययीभाव इति यदा सादृश्यं विशंष्यत्वात्प्रधावनं तदैव स्यात् सादृश्यं किख्येति, गुणभूते न स्यात्। सदृशः किख्येति। सादृश्यवतः प्राधान्यदर्शनेन सादृश्यस्य गुणभावं दर्शयचति। सरिखीति। पूर्ववद्ध्रस्वः। अपचितपरिमाणः शृंगालः किखी। अप्रसिध्दोदाहणम्; चिरन्तनप्रयोगात्। सम्पतिशब्दस्य समृध्दौ रूढत्वात्पुनरुपादानं व्यर्थमित्याश्ङ्क्याह-सम्पतिरनुपरूप आत्मभाव इति। सब्रह्म ब्राभ्रवाणामिति। तेषामनुरूपो ब्रह्मभाव इत्यर्थः। सतृणामिति। न चात्र तृणभक्षणं वास्तवमित्याह - न किञ्चिदति। तृणभक्षणमधिकोऽर्थः, तद्वचनेन किंचिदभ्यवहार्यं न परित्यजतीत्ययमर्थः प्रतिपद्यते तृणानि भक्षयन्कथमन्यत्परित्यजेदिति। परग्रहापेक्षयेति। ठिदानीमेतावान्प्रदेशोऽध्येतव्यःऽ इति यावतः प्रदेशस्य परग्रहस्तदपेक्षया समाप्तिः उ अनुतः, स चासकलेऽप्यध्ययने भवतीति भावः। साग्नीति। अग्न्यादयः शब्दास्तदर्थे ग्रन्था वर्तन्ते, तदानीं परिगृपीतस्य प्रदेशस्याग्न्यादिरन्तः, न तु ततः परेणाध्ययनं नास्ति; ततश्च न साकल्यमित्याह इयमिति॥
Sutra Prayogas¶
अविघ्नम् (रघुवंशम्): अव्ययं विभक्ति- इत्यादिना अर्थाभावेऽव्ययीभावः।
उपकूलं (रघुवंशम्): अव्ययं विभक्ति… इति सूत्रेण विभक्त्यर्थेऽव्ययीभावः।
प्रत्यहं (कुमारसम्भवम्): अव्ययं विभक्तिसमीपसमृद्धी… इत्यादिना अव्ययीभावः।
समक्षं (कुमारसम्भवम्): अव्ययं विभक्तिसमीप… इति सूत्रेण सामीप्यार्थे अव्ययीभावसमासः।
असंशयं (किरातार्जुनीयम्): अव्ययं विभक्ति… इत्यादिना सूत्रेण अर्थाभावेऽव्ययीभावः।
प्रतियोधम् (किरातार्जुनीयम्): अव्ययं विभक्ति… इति वीप्सायामव्ययीभावः।
अनुवपुः (शिशुपालवधम्): अव्ययं विभक्ति- इत्यादिना पश्चादर्थेऽव्ययीभावः।
अनुदेहम् (शिशुपालवधम्): अव्ययं विभक्ति… इत्यादिना पश्चादर्थेऽव्ययीभावः।
प्रतिरथ्यम् (शिशुपालवधम्): अव्ययं विभक्ति… इत्यादिना यथार्थेऽव्ययीभावः।
प्रतिवेश्म (शिशुपालवधम्): अव्ययं विभक्तिसमीप… इति सूत्रेण विभक्त्यर्थे अव्ययीभावः।