21020: नदीभिश्च

Padacheda: नदीभिः | S | 3 | 3 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

A numeral (संख्या) may be compounded with the names of ‘rivers’ and the resulting compound is अव्ययीभाव denoting an aggregate.

Vasu English Translation

A numeral (संख्या) may be compounded with the names of ‘rivers’ and the resulting compound is अव्ययीभाव denoting an aggregate. According to Patanjali this refers to their Aggregate (समाहार); as सप्तगङ्गम् ‘ at the meeting of the seven Ganges,’ द्वियमुनं ‘at the meeting of the two Yamunas,’ पञ्चनदं’ where the five rivers meet’. सप्तगोदावरम् ‘where seven Godavaris’ meet.

Bhashya

नदीभिश्च (368) (235 अव्ययीभावसंज्ञासूत्रम् ॥ 2। 1। 2। आ.14 सू.) (समाहारमात्रविषयकत्वाधिकरणम्) (1244 वार्तिकम् ॥ 1 ॥) ॥ नदीभिः संख्यासमासेऽन्यपदार्थे प्रतिषेधः ॥ (व्याख्याभाष्यम्) नदीभिः संख्यासमासेऽन्यपदार्थे प्रतिषेधो वक्तव्यः। द्वीरावतीको देशः। त्रीरावतीको देशः। नदीभिः संख्या इति प्राप्नोति ॥ (वार्तिकप्रत्याख्यानभाष्यम्) न वक्तव्यः। इह कश्चित्समासः पूर्वपदार्थप्रधानः। कश्चिदुत्तरपदार्थप्रधानः। कश्चिदन्यपदार्थप्रधानः। कश्चिदुभयपदार्थप्रधानः। पूर्वपदार्थप्रधानोऽव्यीभावः। उत्तरपदार्थप्रधानस्तत्पुरुषः। अन्यपदार्थप्रधानो बहुव्रीहिः। उभयपदार्थप्रधानो द्वन्द्वः। न चात्र पूर्वपदार्थप्राधान्यं गम्यते ॥ (आक्षेपभाष्यम्) ननु च यद्येनोच्यते स तस्यार्थो भवति। अत्र च वयमेताभ्यां पदाभ्यामेतमर्थमुच्यमानं पश्यामः ॥ (आक्षेपबाधकभाष्यम्) एतदेव न जानीमः - यद्येनोच्यते स तस्यार्थ इति ॥ अपि चान्यपदार्थप्रधानता न कल्पेत - चित्रगुः शबलगुः इति। किं कारणम्?। अत्रापि हि वयमेताभ्यां शब्दाभ्यामेतमर्थमुच्यमानं पश्यामः ॥ (आक्षेपसाधकभाष्यम्) यद्यप्येताभ्यां पदाभ्यामेषोर्थ उच्यते, अन्यपदार्थोपि तु गम्यते। तत्रान्यपदार्थाश्रयो बहुव्रीहिर्भविष्यति ॥ इहापि तर्हि यद्यप्यन्यपदार्थो गम्यते, स्वपदार्थोपि गम्यते। तत्र स्वपदाश्रयोऽव्ययीभावः प्राप्नोति ॥ (समाधानभाष्यम्) एवं तर्हीदमिह संप्रधार्यम् - अव्ययीभावः क्रियतां बहुव्रीहिरिति। बहुव्रीहिर्भविष्यति विप्रतिषेधेन ॥ (पूर्वपक्षिभाष्यम्) भवेदेकसंज्ञाधिकारे सिद्धम्, परंकार्यत्वे तु न सिद्ध्यति। आरम्भसार्मथ्यादव्ययीभावः प्राप्नोति, परंकार्यत्वाच्च बहुव्रीहिः ॥ (सिद्धान्तिभाष्यम्) परंकार्यत्वे च न दोषः। नदीभिः संख्यायाः समाहारेऽव्ययीभावो वक्तव्यः। स चावश्यं वक्तव्यः। सर्वमेकनदीतरे ॥ नदीभिश्च ॥ 19 ॥

Kashika

संख्येत्यनुवर्तते। नदीवचनैः शब्दैः सह संख्या समस्यते, अव्ययीभावश्च समासो भवति। समाहारे चायमिष्यते। सप्तगङ्गम्। द्वियमुनम्। पञ्चनदम्। सप्तगोदावरम्॥

Siddhanta Kaumudi

नदीभिः सह सङ्ख्या प्राग्वत् ।<!समाहारे चायमिष्यते !> (वार्तिकम्) ॥ सप्तगङ्गम् । द्वियमुनम् ॥

Laghu Siddhanta Kaumudi

नदीभिः सह संख्या समस्यते। समाहारे चायमिष्यते (वार्त्तिकम्) । पञ्चगङ्गम्। द्वियमुनम्॥

Balamanorama

नदीभिश्च - नदीभिश्च । प्राग्वदिति । नदीभिः संख्या समस्यते सोऽव्ययीभाव इत्यर्थः । समाहारे चेति — वार्त्तिकम् । चकार एवार्थे । भाष्ये चकारविहीनस्यैव पाठात् । सप्तगङ्गमिति । सप्तानां गङ्गानां समाहार इति विग्रहेतद्धितार्थोत्तरपदसमाहारे चे॑ति द्विगुसमासं बाधित्वाऽव्ययीभावसमासः । द्वियमुनमिति । द्वयोर्यमुनयो समाहार इति विग्रहः । अत्र नदीशब्देन नदीशब्दविशेषस्य, नदीवाचकानां च ग्रहणमिति संख्यासंज्ञासूत्रे भाष्ये स्पष्टम् । तेन पञ्चनदं सप्तगोदावरमित्यादि सिध्यति ।

Tattvabodhini

नदीभिश्च - नदीभिश्च । स्वरूपस्य संज्ञायाश्च नेह ग्रहणं, बहुवचननिर्देशात्, किं त्वर्थस्य । नच तस्य समासः संभवति, अतस्तद्वाचिनामयं समासः, ते च न केवलं विशेषशब्दा एव किंतु सामान्यशब्दोऽपि । तेन पञ्चनदं सप्तगोदावरमिति सिद्धम् ।गोदावर्याश्च नद्याश्चे॑ति वक्ष्यमाणेन समासान्तोऽच् । चकारेण सङ्ख्येत्यनुकृष्यत इत्याह -संख्येति । स्यादेतत् — पुरस्तादपवादन्यायेनपूर्वकालैके॑त्यस्यैवेदं बाधकं स्यात्, ततश्चैवनदीत्यत्राव्ययोभावे तन्निबन्धनस्यनदीपौर्णमास्ये॑ति टचः प्रसङ्गः, समाहारे तु परत्वाद्द्विगुरेव स्यादित्यत आह — ।समाहारे चायमिष्यते । समाहारे चायमिति । एवकारार्थश्चाकारः । एवं च द्विगोरपवादोऽमव्ययीभाव इति फलितम् ।

Padamanjari

नदीवचनैः शब्दैरिति। नदीभिरिति बहुवचननिर्देशात्स्वरूपस्य संज्ञा नद्याश्च ग्रहणमिति भावः। समाहारे चायमिष्यत इति। अन्यथा पुरस्तादपवादन्यायेन’पूर्वकालैक’ इत्यस्यायं बाधकः स्यात्। समाहारे तु परत्वाद् द्विगुहेव स्यात्, ततश्चैकनदीत्यत्राव्ययीभावे सति तन्निबन्धनः’नदीपौर्णमास्याग्रहायणीभ्यः’ इति टच् प्राप्नोति नपुंसकत्वं च, न ह्यत्र विशेषवाचिनामेव ग्रहणमिति प्रमाणमस्ति। यस्तु’गोदावर्याश्च नद्यश्च’ इत्यच् समासान्तः, स पञ्चनदमित्यादावव्ययीभाव एव भवति, एकनदीत्यत्र तत्पुरुषे न भवति। समाहारविवक्षायां च एकापूपीवदेकनदमित्यपि भवति। तथान्यपदार्थेऽप्यव्ययीभावः स्याद् द्वीरावतीको देश इति। न चात्र परत्वाद्वहुव्रीहिः; अशेषत्वात्, न ह्यसति समाहारग्रणेऽयं शेषो भवति। तस्मात्सुष्ठूअक्तम् - समाहरे चायमिष्यत इति। एतच्चाभिधानस्वाभाव्याल्लभ्यते॥

Nyaas

चकारेण संख्या इत्यनुकृष्यते। बहुवचननिर्देशेनार्थस्येदं ग्रहणम्, न स्वरूपस्य, नापि संज्ञायाः, तेन सर्वैर्नदीवाचिभिः समासो विज्ञायत इत्याह - नदीवचनैः इत्यादि। समाहारे चायमिष्यते इति। चकारोऽवधारणे - समाहार एव नान्यत्रेति। यद्येवम्, समाहारग्रहणमं कर्तव्यम्? न कर्तव्यम्, यत एव हेतोरक्षादीनां परिणा सह कितवव्यवहार एव समासो भवति, ततएव हेतोरयमपि समाहार एव भविष्यति- सप्त गङ्गाः समाह्मताः सप्तगग्ङमिति। पूर्ववद् ह्रस्वः। अन्यपदार्थे तु न भवति - द्वीरावतीको देश इति। `पञ्चनवम्, सप्तगोदावरम्िति।कृष्णोदकपाण्डुपूर्वाया भूमेरच्प्रत्ययः स्मृतः।गोदावर्याश्च नद्याश्च संख्याया उत्तरे यदि॥इति वचनादच् समासान्तः॥

Praudhamanorama

स्वरूपस्य संज्ञाया नद्याश्च नेह ग्रहणं बहुवचननिर्देशात्। किं त्वर्थस्य। न च तस्य समासः संज्ञा भवति। अतस्तद्वाचिनामयं समासः। ते च न केवलं विशेषशब्दा एव किं तु सामान्यशब्दोऽपि।

Prakriyasarvasvam

नदीभिः संख्या समस्यते । समाहारे चायमिष्टः । सप्तधा भूतानां गङ्गास्रोतसां समूहः सप्तगङ्गम् । द्वियमुनम् ॥