21012: अपपरिबहिरञ्चवः पञ्चम्या

Padacheda: अप-परि-बहिः-अञ्चवः | S | 1 | 3 |

पञ्चम्या | S | 3 | 1 |

Sutrartha

‘अप’, ‘परि’, ‘बहि’, एते शब्दाः, तथा च ‘अञ्च्’ धातुनिर्मिता’ शब्दाः (यथा - प्राच्, प्रत्यच्, उदच् आदयः) पञ्चम्यन्तेन समर्थेन सह विकल्पेन समस्यन्ते । अस्य समासस्य ‘अव्ययीभावः’ इति संज्ञा भवति ।

Sutrartha (English)

The words ‘अप’, ‘परि’, ‘बहि’ and the words generated from the verb ‘अञ्च्’ (E.g. प्राच्, प्रत्यच्, उदच् etc) optionally undergo a समास with related पञ्चम्यन्त word; and the समास is called अव्ययीभावसमास.

Vasu English Summary

The words अप , परि , बहिल् and indeclinables ending in अञ्चु may optionally be compounded with a word ending in the 5th case affix and the compound so formed will be अव्ययीभाव ।

Vasu English Translation

The words अप , परि , बहिल् and indeclinables ending in अञ्चु may optionally be compounded with a word ending in the 5th case affix and the compound so formed will be अव्ययीभाव । As अपत्रिगर्तम् दृष्टो देवः or अपत्रिगर्तेभ्यो दृष्टो देवः ‘it rained away from Trigarta’. So also, परित्रिगर्तम् or परित्रिगर्तेभ्यः ‘round about Trigarta,’बहिर्ग्रामम् or बहिर्ग्रामात् ‘outside the village’ प्राग् ग्रामम् or प्राग् ग्रामात् ‘east of the village.’

Words formed from the verb अञ्चु ‘to go,’ are उदञ्च ‘north’ प्राञ्च east, &c.

From this sútra we learn by inference (jñàpak) that the word बहिः also governs the ablative case (see II.3.29).

Bhashya

अपपरिबहिरञ्चवः पञ्चम्या (360) (230 अव्ययीभावसंज्ञासूत्रम् ॥ 2.1.2 आ.9 सू.) (योगविभागाधिकरणम्) (1239 वार्तिकम् ॥ 1 ॥) ( ॥ विभाषेति योगविभागः ॥ ) (भाष्यम्) (विभाषेति) योगविभागः कर्तव्यः। विभाषा इत्ययमधिकारः। ततः - अपपरिपबहिरञ्चवः पञ्चम्या इति ॥ (पञ्चमीग्रहणप्रयोजनाधिकरणम्) (प्रत्याख्यानभाष्यम्) अपपरिबहिरञ्चवः पञ्चम्या ॥ पञ्चमीग्रहणं शक्यमकर्तुम् ॥ कथम्?। सुबन्ते नेति वर्तते। एतैश्च कर्मप्रवचनीयैर्योगे पञ्चमी विधीयते। तत्रान्तरेणापि पञ्चमीग्रहणं पञ्चम्यन्तेन समासो भविष्यति ॥ (प्रत्याख्यानबाधकभाष्यम्) इदं तर्हि प्रयोजनम्। बहिःशब्देन योगे पञ्चमी न विधीयते तत्रापि यथा स्यात् - बहिर्ग्रामं बहिर्ग्रामात् ॥ (आक्षेपभाष्यम्) अथ क्रियमाणे पञ्चमीग्रहणे यावता बहिःशब्देन योगे पञ्चमी न विधीयते कथमिवैतत्सिद्ध्यति ॥ (समाधानभाष्यम्) पञ्चमीग्रहमसार्मथ्यात् ॥ विभाषापपरि ॥ 12 ॥ (231 अव्ययीभावसंज्ञासूत्रम् ॥ 2.1.2 आ.10 सू)

Kashika

अप परि बहिस् अञ्चु इत्येते सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति। अपत्रिगर्तं वृष्टो देवः, अप त्रिगर्तेभ्यः। परित्रिगर्तम्, परित्रिगर्तेभ्यः। बहिर्ग्रामम्, बहिर्ग्रामात्। प्राग्ग्रामम्, प्राग् ग्रामात्। बहिःशब्दयोगे पञ्चमीभावस्यैतदेव ज्ञापकम्॥

Siddhanta Kaumudi

अपविष्णु संसारः अप विष्णोः । परिविष्णु परि विष्णोः । बहिर्वनम् बहिर्वनात् । प्राग्वनम् प्राग्वनात् ॥

Tattvabodhini

अपपरिबहिः। अपपरियोगे पञ्चम्यपाङ्परिभि`रिति पञ्चमीविहिता, अञ्चूत्तरपदयोगेऽपि `अन्यारा दित्यादिना विहितैव। तेनाऽत्र पञ्चम्या`इति ग्रहणं `बहिर्योगे पञ्चमी भवति इति ज्ञापनार्थम्। `ज्ञापकसिद्धं न सर्वत्रे`ति `करस्य करभो बहि`रित्यपि सिद्धम्।

Praudhamanorama

अत एव ज्ञापकाद्बहिर्योगे पञ्चमी। ज्ञापकसिद्धं न सर्वत्र। तेन ‘करस्य करभो बहिः’ इति सिद्धम्।

Prakriyasarvasvam

अपादयः पञ्चम्यन्तेन वा समस्यन्ते । अपादियोगे पञ्चमी वक्ष्यते । अप सु ग्राम ङसि, ‘सुपो धातु—’ (२-४-७१) इति सुपो लुकि पुनरुत्पन्नस्य सोरम्भावः । अपग्रामं सेना याति । परिग्रामम् । वर्जयित्वेत्यर्थः । एवं बहिर्वनम् । प्राक्पुरम् । असमासे ग्रामादप ग्रामात् परीत्यादि ॥

Sutra Prayogas

  • बहिर्विकरं (शिशुपालवधम्): अपपरिबहिरञ्चवः पञ्चम्या इत्यव्ययीभावः ।

  • तोरणाद्बहिः (शिशुपालवधम्): अपपरिबहिरञ्चवः पञ्चम्या इति पञ्चमीसमासविधानाज्ज्ञापकात्पञ्चमी ।