21007: यथासादृश्ये

Padacheda: यथा | S | 0 | 0 |

असादृश्ये | S | 7 | 1 |

Sutrartha

‘सादृश्यम्’ इति अर्थं विहाय अन्येषु अर्थेषु प्रयुक्तः ‘यथा’ इति शब्दः समर्थेन सुबन्तेन सह समस्यते । अयम् समासः ‘अव्ययीभावः’ नाम्ना ज्ञायते ।

Sutrartha (English)

The word ‘यथा’, when used in a meaning different than ‘similarity’, undergoes a समास with a related सुबन्त, and the समास is called अव्ययीभावसमास.

Vasu English Summary

The indeclinable word यथा when it does not signify ‘likeness’ is invariably compounded with a word ending in a case-affix which is in construction with it and the compound is called अव्ययीभाव समास।

Vasu English Translation

The indeclinable word यथा when it does not signify ‘likeness’ is invariably compounded with a word ending in a case-affix which is in construction with it and the compound is called अव्ययीभाव समास। Thus यथावृद्धम् ब्राह्मणानामन्त्रयस्व invite every old Brahmana. So also यथाध्यापकम्.

Why do we say ‘when not signifying likeness?’. For there is no composition when likeness is indicated. As यथादेवदत्तस्तथा यज्ञदत्तः As is Devadatta so is Yajñadatta.

This samása could have been included in the last sútra clause to, but making a separate sútra shows that the word यथार्थवचन there must be limited by the present sútra, to first three meanings of the word यथा given there and not to its fourth meaning. vis. there is no compounding when it means likeness.

Bhashya

यथा ऽसादृश्ये (356 ) (227 अव्ययीभावसंज्ञासूत्रम् ॥ 2.1.2 आ.6 सू.) (सूत्रे यथाशब्दस्याव्युत्पन्नस्यैव ग्रहणाधिकरणम्) (आक्षेपभाष्यम्) असादृश्य इति किमर्थम्? ॥ (समाधानभाष्यम्) यथा देवदत्तस्तथा यज्ञदत्तः ॥ (आक्षेपभाष्यम्) असादृश्य इत्युच्यते, तत्रेदं न सिद्ध्यति - यथाशक्ति यथाबलमिति। किं कारणम्?। यथेत्ययं प्रकारवचने थाल्, स च सादृश्ये वर्तते ॥ (आक्षेपबाधकभाष्यम्) नैष दोषः। अयं यथाशब्दोस्त्येवाव्युत्पन्नः प्रातिपदिकं वीप्सावाचि। अस्ति प्रकारवचने थाल्। तत्र यदव्युत्पन्नं प्रातिपदिकं वीप्सावाचि तस्येदं ग्रहणम् ॥ (आक्षेपभाष्यम्) अथ यः प्रकारवचने थाल्, तस्य ग्रहणं कस्मान्न भवति। पूर्वेण प्राप्नोति - सादृश्यसंपत्तीति ॥ (आक्षेपबाधकभाष्यम्) प्रतिषेधवचनसार्मथ्यान्न भविष्यति ॥ यथाऽसादृश्ये ॥ 7 ॥

Kashika

यथेत्येतदव्ययमसादृश्ये वर्तमानं सुपा सह समस्यते, अव्ययीभावश्च समासो भवति। यथावृद्धं ब्राह्मणानामन्त्रयस्व। येये वृद्धाः, यथावृद्धम्। यथाध्यापकम्। असादृश्य इति किम्? यथा देवदत्तस्तथा यज्ञदत्तः। यथार्थे यदव्ययमिति पूर्वेणैव सिद्धे समासे वचनमिदं सादृश्यप्रतिषेधार्थम्॥

Siddhanta Kaumudi

असादृश्ये एव यथाशब्दः समस्यते । तेनेह न यथा हरिस्तथा हरः । हरेरुपमानत्वं यथाशब्दो द्योतयति । तेन सादृश्य इति वा यथार्थं इति वा प्राप्तं निषिध्यते ॥

Balamanorama

यथाऽसादृश्ये - यथाऽसादृस्ये । ‘असादृश्ये’ इति छेदः । व्याख्यानात् । असादृश्ये योग्यतावीप्सापदार्थानतिवृत्तिरूपे वर्तमानं यथेत्यव्ययं समस्यते इत्यर्थस्य यथार्थत्वादेव सिद्धे नियमार्थमिदमित्याह-असादृश्ये एवेति । ननुप्रकारवचने था॑लिति विहिततताल्प्रत्ययान्तस्य कथं सादृश्ये वृत्तिरित्यत आह — हरेरिति । सामान्यस्य भेदको यो विशेषः स प्रकारः, तस्मिन्प्रकारे थालिति ‘प्रकारवचने थाल्’ इत्यास्यार्थः । ततश्च यद्विशेषधर्मवान्हरिस्तद्विशेषधर्मवान्हर इति बोधे सति यत्तच्छब्दाभ्यां तयोः प्रकारयोरभेदावगमादुपमानत्वप्रतीतिरिति भावः । तेनेतिप्राप्त॑मित्यत्रान्वयः । सादृश्यार्थकत्वेनेत्यर्थः । सादृश्य इति वेति ।अव्ययं विभक्ती॑ति सूत्रगतेन सादृश्ये वर्तमानमव्ययं समस्यत इत्यंशेन वा, यथार्थे विद्यमानमव्ययं समस्यत इत्यंशेन वा प्राप्तमव्ययीभावसमासकार्यं निषिध्यत इति भावः । भाष्ये तु प्रकारवचने यथाशब्दयोगे सादृस्येत्यनेनैव प्राप्तिरुक्ता, न तु यथार्थत्वेन प्राप्तिरुक्ता । यथाशब्दस्य सूत्रगृहीतत्वेन तद्योगे यतार्थेत्यस्याऽप्रवृत्तेरिति तदाशय इति शब्देन्दुशेखरे विस्तरः ।

Tattvabodhini

यथाऽसादृश्ये - यथाऽसा । निःसंदेहायसादृश्ये यथे॑त्येव वक्तव्ये विपरीतोच्चारणं नञः प्रश्लेषलाभार्थमिति वायचष्ठे असादृश्य इति । यावन्त इति । यत्परिमाणमेषां ते ।यत्तदेतेभ्यः -॑ इति वतुप् ।

Padamanjari

सादृश्ये समासस्य पूर्वेणैव सिध्दत्वादसंदेहार्थं सादृश्ये यथेत्यवचनाच्च नञोऽत्र प्रश्लेषः। असादृश्ये इति कितिति। सूत्रं किमर्थमित्यर्थः। यथा देवदत इति । देवदतस्य यज्ञदतं प्रत्युपमानत्वं यथाशब्दो द्योतयति। तत्रोपमानस्योपमेयापेक्षत्वेऽपि यथा-देवदतशब्दयोः सामर्थ्यात्परस्परेम समासप्रसङ्ग इति भावः। अथ पूर्वेणात्र सादृश्य इति वा, यथार्थ इति वा कस्मान्न भवतीत्याह पूर्वेणैवेति॥

Nyaas

ये य वृद्धाः इत्यनेन यथावृद्धम् इत्यत्र यथाशब्दो वीप्सायां वर्तत इत्याचष्टे। यथा देवदत्तस्तथा यज्ञदत्तः इति। देवदत्तसदृशो यज्ञदत्त इत्यर्थः। ननु च यथाशब्दोऽयमुपमानं यज्ञदत्त इत्युपमेयमपेक्षते। तत्र सापेक्षमसमर्थं भवति इत्यसामर्थ्यादेव समासो न भविष्यति, तत्किमर्थमसादृश्य इति प्रतिषेधेन? नैतदस्ति; न ह्यत्र यथाशब्द उपमानम्, किं तर्हि? यथा देवदत्तः इत्येष समुदायः। तस्मात् तस्यैवोपमेयापेक्षयाऽसामर्थ्यम्, न तु यथाशब्दस्य॥

Prakriyasarvasvam

<karika>उक्तः समासोऽव्ययानां यथार्थेषु चतुर्ष्वपि । यथेत्यस्य तु सादृश्यवर्जितेष्वेव तद्विधिः ॥ ३७३ ॥</karika> यथाशक्तीत्यादि । सादृश्ये—मेघो यथा भाति हरिः । क्वचित् सादृश्येऽपि स्यादिति केचित् । यथापुरम् । पुरेवेत्यर्थः ॥

Sutra Prayogas

  • यथाविधिहुताग्नीनां (रघुवंशम्): यथाऽसादृश्ये इत्यव्ययीभावः।

  • अयथाबलम् (शिशुपालवधम्): यथा सादृश्ये इत्यव्ययीभावे नञ्समासः।

  • यथाऽऽगतम् (भट्टिकाव्यम्): यथाऽसादृश्ये इति वीप्सायामव्ययीभावः।