21013: आङ् मर्यादाभिविध्योः¶
Padacheda: आङ् | S | 0 | 0 |
मर्यादा-अभिविध्योः | S | 7 | 2 |
Sutrartha¶
‘मर्यादा’ तथा ‘अभिविधिः’ एतयोः अर्थयोः प्रयुक्तः ‘आङ्’ शब्दः पञ्चम्यन्तेन सुबन्तेन सह विकल्पेन समस्यते, अव्ययीभावसमासः च भवति ।
Sutrartha (English)¶
The word ‘आङ्’ used in the meaning of मर्यादा (exclusive limit) and अभिविधि (inclusive limit) optionally undergoes a समास with a related word in पञ्चमी, and the समास is called अव्ययीभावसमास.
Vasu English Summary¶
The word आङ् when signifying limit exclusive or limit inclusive, may optionally be compounded with a word ending in the 5th case and the compound so formed is called अव्ययीभाव।
Vasu English Translation¶
The word आङ् when signifying limit exclusive or limit inclusive, may optionally be compounded with a word ending in the 5th case and the compound so formed is called अव्ययीभाव। As, आपाटलिपुत्रं or आ पाटलिपुत्रात् वृष्टो देवः ‘it rained up to Pátaliputra.’ आकुमारं or आ कुमारेभ्यो यशः पाणिनेः ‘the fame of Panini extends even to the boys.’
Bhashya¶
आङ् मर्यादाभिविध्योः (361) (प्रत्याख्यानभाष्यम्) मर्यादाभिविधिग्रहणं शक्यमकर्तुम्। कथम्?। पञ्चम्येति वर्तते। आङा च कर्मप्रवचनीयेन युक्ते पञ्चमी विधीयते। तयोश्चैवार्थयोराङ् कर्मप्रवचनीयसंज्ञो भवति नान्यत्र ॥ आङ्मर्यादाभिविध्योः ॥ 12 ॥
Kashika¶
आङित्येतद् मर्यादायामभिविधौ च वर्तमानं पञ्चम्यन्तेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति। आपाटलिपुत्रं वृष्टो देवः, आ पाटलिपुत्रात्। अभिविधौ — आकुमारं यशः पाणिनेः, आ कुमारेभ्यः॥
Siddhanta Kaumudi¶
एतयोराङ् पञ्चम्यन्तेन वा समस्यते सोऽव्ययीभावः । आमुक्ति संसारः आ मुक्तेः । आबालं हरिभक्तिः आ बालेभ्यः ॥
Balamanorama¶
आङ् मर्यादाभिविध्योः - आङ्मर्यादाभिविध्योः । एतयोरिति । मर्यादाभिविध्योर्विद्यमानादित्यर्थः । मर्यादायामुदाहरति-आमुक्तीति । मुक्तेः प्रागित्यर्थः । अमिविधावुदाहरति-आबलमिति । बालानारभ्येत्यर्थः । ‘आङ्मर्यादावचने’ इत्युभयत्रापि कर्मप्रवचनीयत्वात्पञ्चम्यपाङ्परिभि॑रिति पञ्चमी ।
Tattvabodhini¶
आङ् मर्यादाभिविध्योः - आबालमिति ।आ परमणोरा च भूगोलक॑ मिति किरणावलीप्रयोगस्तु प्रामादिकः, समासमध्ये च शब्द प्रयोगाऽसंभवात् ।आ च भूगोलकात्इति पास्तूचितः ।
Padamanjari¶
‘मर्यादाभिविध्योः’ इति शक्यमकतुंम्, कथम्? पञ्चम्येति वर्तते, आङ च कर्मप्रवचनूयेनैव योगे पञ्चमी विहिता, एतयोश्यैवार्थयोराङ्ः कर्मप्रवचीयसंज्ञा-ठाङ् मर्यादावचनेऽ इति। तत्र हि वचनग्रहणं मर्यादोक्तिमात्रे यथा स्याद् इत्यभिविधावपि भवति। तत्रैव वाऽभिविधिग्रहणमेवास्तु॥
Nyaas¶
अथ मर्यादाभिविधिग्रहणं किमर्थम्? यावता पञ्चमीत्यनुवर्तते, आङा च कर्मप्रवचनीयेनैव योगे पञ्चमी विधीयते - एतयोरेवार्थयोः आङ् मर्यादावचने (1.4.89) इत्याङः कर्मप्रवचनीयसंज्ञा4, नान्यत्र; तत्रान्तरेणापि मर्यादाविधिग्रहणं तयोरेवार्थयो समासो भविष्यति, नान्यत्रेति? सत्यमेतत्; तथापि मन्दधियां सुखावबोधनार्थं मर्यादाभिविधिग्रहणम्॥
Praudhamanorama¶
आबालमिति। यत्तु— आ परमाणोः, आ च भूगोलकमिति किरणावल्यां प्रयुक्तं तत्प्रामादिकम्, समासमध्ये चकारप्रयोगासम्भवात्। आभूगोलकादिति तु पाठ्यम्।
Prakriyasarvasvam¶
अनयोरर्थयोराङ् पञ्चम्या वा समस्यते । आसमुद्रं क्षितिः । आकोलं केरलाः । असमासे तु आ समुद्रात् । आ कोलेभ्यः ॥
Sutra Prayogas¶
आमेखलं (कुमारसम्भवम्): आङ्मर्यादाभिविध्योः इत्यव्ययीभावः।
आलोचनान्तं (कुमारसम्भवम्): आङ मर्यादाभिविधौ इति अव्ययीभावः।
आकुमारम् (किरातार्जुनीयम्): आङ् मर्यादाभिविध्योः इत्यव्ययीभावः।
आकर्णम् (शिशुपालवधम्): आङ् मर्यादाभिविध्योः इत्यव्ययीभावः।
आनाभेः (शिशुपालवधम्): आङ् मर्यादाभिविध्योः इति विकल्पादसमासः।
आशशाङ्कतपनार्णवस्थितोर् (शिशुपालवधम्): आङ्रमर्यादाभिविध्योः इति विकल्पादसमासः।
आ-तिष्ठद्-गु (भट्टिकाव्यम्): आइ मर्यादाभिविध्योः इत्यव्ययीभावः।