Sutras 21 - 40¶
- 12021: उदुपधाद्भावादिकर्मणोरन्यतरस्याम्
- 12022: पूङः क्त्वा च
- 12023: नोपधात्थफान्ताद्वा
- 12024: वञ्चिलुञ्च्यृतश्च
- 12025: तृषिमृषिकृशेः काश्यपस्य
- 12026: रलो व्युपधाद्धलादेः संश्च
- 12027: ऊकालोऽज्झ्रस्वदीर्घप्लुतः
- 12028: अचश्च
- 12029: उच्चैरुदात्तः
- 12030: नीचैरनुदात्तः
- 12031: समाहारः स्वरितः
- 12032: तस्यादित उदात्तमर्धह्रस्वम्
- 12033: एकश्रुति दूरात् सम्बुद्धौ
- 12034: यज्ञकर्मण्यजपन्यूङ्खसामसु
- 12035: उच्चैस्तरां वा वषट्कारः
- 12036: विभाषा छन्दसि
- 12037: न सुब्रह्मण्यायां स्वरितस्य तूदात्तः
- 12038: देवब्रह्मणोरनुदात्तः
- 12039: स्वरितात् संहितायामनुदात्तानाम्
- 12040: उदात्तस्वरितपरस्य सन्नतरः