12022: पूङः क्त्वा च

Padacheda: पूङः | S | 5 | 1 |

क्त्वा | S | | | 1

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The सेट् निष्ठा affix and the सेट् क्त्वा are not कित् after the verb पुङ् ‘to purify’.

Vasu English Translation

The सेट् निष्ठा affix and the सेट् क्त्वा are not कित् after the verb पुङ् ‘to purify’. The word ‘optionally’ of the previous sutra (1.2.21) does not govern this sutra, because the word ‘optionally’ has been again used in the next sutra (1.2.23); of which there would have been no necessity had the word ‘optionally’ governing force in this sutra, for then this would have also governed the next sutra. The anuvritti of न सेट् however is to be read in this sutra.

By rule (7.2.51), after the verb पू the affixes Nishtha and क्त्वा ktva take the intermediate इ. So that क्त्वा ktva being set (by virtue of Rule (7.2.51)) would have been non-kit by Rule 18; and it might be asked what is the necessity of repeating it in this sutra, when sutra (1.2.18) comprised the case. The reason of this repetition is that by mentioning क्त्वा ktva in this sutra, it has governing force over the succeeding sutras. As पवितः, पवितवान्.

Bhashya

पूङः क्त्वा च - पूङः क्त्वानिष्ठयोरिटि वाप्रसङ्गः सेट्प्रकरणात् - पूङः क्त्वानिष्ठयोरिटि विभाषा कित्त्वं प्राप्नोति। किं कारणम्?। सेट्प्रकरणात्। सेडिति वर्तते। - न वा सेट्त्वस्याकिदाश्रयत्वादनिटि वा कित्त्वम् - न वा एष दोषः। किं कारणम्?। सेट्त्वस्याकिदाश्रयत्वात्। अकिदाश्रयं सेट्त्वम्। यदा अकित्त्वं तदेटा भवितव्यम्। सेट्त्वस्याकिदाश्रयत्वादनिट्येव विभाषा कित्त्वं भविष्यति। इडि्वधौ पूङो ग्रहणं क्रियते। तेन वचनादिट्। सेट्प्रकरणाच्च इट्येव विभाषा कित्त्वं प्राप्नोति। - इडि्वधौ ह्यग्रहणम् - इडि्वधौ हि पूङो ग्रहणं न कर्तव्यं भवति। भारद्वाजीयाः पठन्ति- - नित्यमकित्त्वमिडाद्योः क्त्वाग्रहणमुत्तरार्थम् - नित्यमकित्त्वमिडाद्योः क्त्वानिष्ठयोः सिद्धम्। कथम्? विभाषामध्येऽयं योगः क्रियते। विभाषामध्ये च ये विधयस्ते नित्या भवन्ति। किमर्थं तर्हि क्त्वाग्रहणम्? क्त्वा ग्रहणमुत्तरार्थम्। उत्तरार्थं क्त्वाग्रहणं क्रियते नोपधात्थफान्ताद्वा (23) वञ्चिलुञ्ञ्च्यृतश्च (24) इति ॥ पूङः क्त्वा च ॥ 22 ॥

Kashika

अन्यतरस्याम् इति न स्वर्यते, उत्तरसूत्रे पुनर्वावचनात्। न सेड् इति वर्तते। पूङश्चेड् विहितः क्लिशः क्त्वानिष्ठयोः (७.२.५०) पूङश्च (७.२.५१) इति। पूङः परो निष्ठाप्रत्ययः क्त्वा च सेण् न किद् भवति। पवितः, पवितवान्। क्त्वाप्रत्ययस्य **न क्त्वा सेट् ** (१.२.१८) इति सिद्ध एव प्रतिषेधः। तस्य ग्रहणमुत्तरार्थम् । तथा चोक्तम् — ‘नित्यमकित्त्वमिडाद्योः क्त्वानिष्ठयोः क्त्वाग्रहणमुत्तरार्थम्>> (महाभाष्य १.२०१) इति॥

Siddhanta Kaumudi

पूङः क्त्वा निष्ठा च सेट् किन्न स्यात् । पवितः । पूतः । क्त्वाग्रहणमुत्तरार्थम् । नोपधात् - (SK3324) इत्यत्र हि क्त्वैव संबध्यते ॥

Balamanorama

पूङः क्त्वा च - पूङः क्त्वा च ।न क्त्वा से॑डित्यतो न सेडित्यनुवर्तते ।असंयोगा॑दित्यतः किदिति,निष्ठा शीङित्यतो निष्टेति च । तदाह — पूङः क्त्वा निष्ठा चेत्यादि । ननुन क्त्वा से॑डित्येव सिद्धे किमर्थमिह क्त्वाग्रहणमित्यत आह — क्त्वाग्रहणमुत्तरार्थमिति । तदेवोपपादयति — नोपधादित्यत्रेति । तत्र हि क्त्वाप्रत्ययस्यैवानुवृत्तिरिष्टा ।पूङश्चे॑त्येवोक्तौ तु ‘निष्ठा शी’ ङित्योत निष्ठाग्रहणमेवाऽनुवर्तेतेति भावः ।

Tattvabodhini

पूङः क्त्वा च - पूङः क्त्वा च ।न क्त्वा से॑डित्यनेनैव सिद्धे क्त्वाग्रहणमिह व्यर्थमित्यत आह — उत्तरार्थमिति । क्त्वैवेति । नतु निष्ठा, चानुकृष्टत्वादिति भावः ।

Padamanjari

इहान्यतरस्यांग्रहणानुवृतौ सेडित्यस्य च निवृतौ इड्विधौ ऽपूङ्श्चऽ इति शक्यमकर्तुम्, उतरसूत्रे च वाग्रहणम्; कथम् ? अनिटोरेव क्त्वानिष्ठयोरनेन कित्वं विकल्प्यते,तत्र यदा कित्वं तदा ऽश्यकः कितिऽ इति प्रतिषेधात् पूतः पूतवान् पूत्वेति, अकित्वपक्षे त्विटि पवितः पवितवान् पवित्वेति भवति, सेड्ग्रहणं तु विच्छिद्येत; तस्मात्सेडित्यस्मिन्नुतार्थमनुवर्तमाने ऽपूङ्श्चऽ इत्यारभ्य उतरत्र वाग्रहणमिह नित्यतासिद्ध्यर्थम्, पुवित्वेति पक्षे मा भूतदाह-अन्यतरस्यांग्रहणं न स्वर्यते; उतरसूत्रे पुनर्वावचनादिति । न सेडिति वर्तत इति । ननु पूङ्ः परयोः क्त्वानिष्ठयोरिटो न भवितव्यम्, ऽश्युकः कितिऽ इति प्रतिषेधादत आह-पूङ्श्चेति । पूङ् परो निष्ठाप्रत्यय इत्यादि । किं पुनः कारणं साक्षात् श्रुतं क्त्वाप्रत्ययमपहारयानुवृतस्य निष्ठाप्रत्ययस्यान्वयो दर्शियत उदाहरणं च ? अत आह-क्त्वाप्रत्ययस्येति । एतदेव द्रढयति-तथा चोक्तमिति । इडाद्योः क्त्वानिष्ठयोर्नित्यमकित्वमिष्यते, ततश्च क्त्वाग्रणमुतरार्थमिति भारद्वाजीयैरेवमुक्तम् । उतरार्थमपि यदिहैव कर्तव्यं सेडित्येनेन सम्बन्धार्थम्; अन्यथा निष्ठानिवृतौ तत्सम्बद्धं सेडित्येतदपि निवर्तेत ! अनुबन्धोच्चारणं विस्पष्टार्थं न पूञो निवृत्यर्थम्; इड्विधौ पूङ् एव ग्रहणात् । पूञः क्त्वानिष्ठयोः इडभावान्नापि यङ्लुकि निवृत्यर्थम्; इड्विधावनुबन्धनिर्देशेन यङ्लुक्यपि ऽन क्त्वा सेट्ऽ इति प्रतिषेधस्य स्थितत्वात् । न च क्त्वाग्रहणसार्थ्यातस्यापि प्रतिषेधः; तस्योतरत्राप्युपयोगसम्भवात्, अनुबन्धनिर्देशस्य च निष्ठायां चरितार्थत्वात् । एवं च ऽक्त्वाग्रहणमुतरार्थम्ऽ इति वृत्तिग्रन्थस्याविरोधः, तेन पोपुवितवानिति निष्ठायां भवति । क्त्वायां तु गुणो पोपवित्वेति भवति ॥

Nyaas

न सेट् वर्तते इत्यक्तम्। न क्त्वा सेट् (1.2.18) इत्यतः। ननु च पूङः परयोः क्त्वानिष्ठयोरिटा न भवितव्यमेव; श्रयुकः किति (7.2.11) इति प्रतिषेधात्। तदपार्थिका सेड्ग्रहणानुवृत्तिरिति यश्चोदयेत् तं प्रत्याह - पूङश्चेड् विहितः` इत्यादि। अत क्त्वाप्रत्ययस्योदाहरणं कस्मान्न प्रदर्शितमित्यत आह - क्त्वाप्रत्ययस्य इत्यादि। यदि ह्रनेन योगेन क्त्वाप्रत्ययस्य कित्त्वं प्रतिषिध्येत, तदा तस्याप्युदाहरणं प्रदर्श्येत, न चानेन प्रतिषिध्यते, किन्तर्हि? न क्त्वा सेट् (1.2.18) इत्यनेनैव प्रतिषिद्धत्वात्। तस्मात तस्योदाहरणं न प्रदर्शितमितित भावः। क्त्वाप्रत्ययस्य न क्त्वा सेट् (1.2.18) इत्यनेन प्रतिषेध इत्येतदेव द्रढयितुमाह - तथा च ` इत्यादि। `पूङ्श्च (7.2.51) इत्यत्र सूत्रे द्वयोर्विभाषयोर्मध्ये ये विधयस्ते नित्या भवन्तीति मन्यमानैर्भारद्वाजीयैरिदमुक्तम् - नित्यमकित्त्वमिडाद्योः इति। तौ पुनरिडादी क्त्वानिष्ठाप्रत्ययौ। यदि तर्हि नित्यमकित्त्वमिडाद्योः; तदा क्त्वाग्रहणमनर्थकं स्यात्। विकल्पेन ह्यत्राकित्तवसद्धये तस्य ग्रहणमर्थवद्भवति, नान्यथा। नित्यत्वं कित्त्वप्रतिषेधस्य न क्त्वा सेट् (1.2.18) इत्यनेनैव सिद्धत्वादिति चोद्यमाशह्क्येदमुक्तम् - क्त्वाग्रहणमुत्तरार्थम् इति। पूङः इति सानुबन्धकस्योच्चारणं किमर्थम्? पोपुवितः, पोपुवितवान्, पोपुवित्वेति यङलुगन्तात् कित्त्वप्रतिषेधो मा भूदिति। पूङनिवृत्यर्थं सानुबन्धक्सयोच्चारणं नोपपद्यते; श्रयुकः किति (7.2.11) इतीट्प्रतिषेधात्। पूञः परयोः क्त्वानिष्ठयोः सेटोरभावात्॥

Prakriyasarvasvam

अस्मात् परा सेण्निष्ठा क्त्वा च किन्न स्यात् । तेनेट्पक्षे गुणः । पूतः, पवितः ॥