12026: रलो व्युपधाद्धलादेः संश्च

Padacheda: रलः | S | 5 | 1 |

वि-उपधात् | S | 5 | 1 |

हल-आदेः | S | 5 | 1 |

सन् | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

After a verb which begins in a consonant and ends in a letter of रल् प्रत्यहार and has as its penultimate इ or ई and उ or ऊ , the क्त्वा and सन् affixes are optionally कित् ।

Vasu English Translation

After a verb which begins in a consonant and ends in a letter of रल् प्रत्यहार and has as its penultimate इ or ई and उ or ऊ , the क्त्वा and सन् affixes are optionally कित् । The wording of this sutra requires a little explanation. It consists of the following words:-

  1. रलः ralah, ablative of रल् (after the consonants included in the Pratayahara ral i.e., all the consonants except य् y and व् v) :- Verbs having their final letter any single consonant except य् y and व् v.

  2. व्युपधात् and means “after penultimate वी.” It is a compound of वी + उपधा. The वी itself is a compound of उ + इ = वि, in the dual वी. Therefore the phrase means “after (verbs) having for their penultimate either इ i or उ u long or short.”

  3. हलादेः means “beginning with a consonant.”

All these three words qualify the word “verb” understood.

  1. संश्च means “and san.”

The sutra means, those verbs which have a रल् letter in the end, a हल् in the beginning, and an इ, ई or उ, ऊ in their penultimate, may optionally treat the affixes ktva and san as कित्.

Thus दद्युत् ‘to shine,’ makes दद्युतित्वा or द्योतित्वा ‘having shone,’ लिख् ‘to write’ makes लिखित्वा or लेखित्वा.

Similarly in san affix we have लिलिखिषति or लिलेखिषति ‘he wishes to write’, दिदद्युतिषते or दिद्योतिषते ‘wishes to shine.’

The rule does not apply if the verb ends in a letter other than रल्. As दिव् + क्त्वा = देवित्वा; its desiderative will be दिदेविषति. No option is allowed here.

Similarly there is no option when the penultimate vowel is not इ or उ. As वृत्त् + क्त्वा = वर्तित्वा Des. विवर्तिषते.

The rule also does not apply if the verb does not begin with a consonant. As एषित्वा and एषिषिषति. There is no option allowed here.

The rule does not apply if the क्त्वा and सन् are anit. As भुक्त्वा, बुभुक्षते.

In these 26 sutras the description of affixes which are treated like ङित् and कित् is comprised.

Bhashya

रलो व्युपधाद्धलादेः संश्च किमिदं रलः क्त्वासनोः कित्त्वं विधीयते, आहोस्वित्प्रतिषिध्यते? किं चातः? यदि विधीयते, क्त्वाग्रहणमनर्थकम्। किदेव हि क्त्वा। अथ प्रतिषिध्यते, सन्ग्रहणमनर्थकम्। अकिदेव हि सन्। अत उत्तरं पठति - रलः क्त्वासनोः कित्त्वम्। रलः क्त्वासनोः कित्त्वं विधीयते। ननु चोक्तम्- क्त्वाग्रहणमनर्थकम् इति। नानर्थकम्। न क्त्वा सेट् (1.2.18) इति प्रतिषेधः प्राप्नोति तद्बाधनार्थम् ॥ रलो व्युपधाद्धलादेः संश्च ॥ 26 ॥

Kashika

वेति वर्तते, सेड् इति च। उश्च इश्च वी। वी उपधे यस्य स व्युपधः। उकारोपधाद् इकारोपधाच् च धातो रलन्ताद् धलादेः परः संश्च क्त्वा च सेटौ वा कितौ भवतः। द्युतित्वा, द्योतित्वा। दिद्युतिषते, दिद्योतिषते। लिखित्वा, लेखित्वा। लिलिखिषति, लिलेखिषति। रल इति किम्? देवित्वा। दिदेविषति। व्युपधाद् इति किम्? वर्तित्वा। विवर्तिषते। हलादेरिति किम्। एषित्वा। एषिषिषति। सेड् इत्येव — भुक्त्वा। बुभुक्षते॥

Siddhanta Kaumudi

उश्च इश्च वी ते उपधे यस्य तस्माद्धलादे रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः । द्युतिस्वाप्योः संप्रसारणम् (SK2344) । दिद्युतिषते । दिद्योतिषते । रुरुचिषते । रुरोचिषते । लिलिखिषति । रलः किम् । दिदेविषति । व्युपधात्किम् । विवर्तिषते । हलादेः किम् । एषिषिषति । इह नित्यमपि द्वित्वं गुणेन बाध्यते । उपधाकार्यं हि द्वित्वात्प्रबलम् । ओणेर्ऋदित्करणस्य सामान्यापेक्षाज्ञापकत्वत् ॥

Laghu Siddhanta Kaumudi

इवर्णोवर्णोपधाद्धलादेः रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः । द्युतित्वा, द्योतित्वा । लिखित्वा, लेखित्वा । व्युपधात्किम्? वर्तित्वा । रलः किम् ? सेवित्वा । हलादेः किम् ? एषित्वा । सेट् किम् ? भुक्त्वा ॥

Balamanorama

रलो व्युपधाद्धलादेः संश्च - रलो । क्त्वासनाविति । चकारेण पूङः क्त्वा चे॑त्यतः क्त्वाया अनुकर्षादिति भावः । सेटाविति ।न क्त्वा सेडि॑त्यतस्तदनुवृत्तेरिति भावः । वा किताविति ।नोपधात्थफान्ताद्वे॑त्यतःअसंयोगाल्लिट्कि॑दित्यतश्च तनदुवृत्तेरिति भावः । दिद्युतिषते इति । ‘द्युत दीप्तौ’ अनुदात्तेत् । सनि द्वित्वे कित्त्वात्द्युतिस्वाप्यो॑रित्यभ्यासस्य संप्रसारणे पूर्वरूपे सनः कित्त्वान्न लघूपधगुण इति भावः । सनः कित्त्वाऽभावे आह — दिद्योतषते इति । ‘पूर्ववत्सनः’ इत्यात्मनेपदम् । एषिषिषतीति । इष्धातोः सन् । इट् । हलादित्वाऽभावेन कित्तवाऽभावाद्गुणे एष् इस तीति स्थितेअजादेर्द्वितीयस्ये॑ति षिस् इत्यस्य द्वित्वे हलादिशेषे सनः षत्वे रूपम् । नन्विह सत्यपि कित्त्वे नित्यत्वात्परमपि गुणं बाधित्वा षिसित्यस्य द्वित्वे धात्ववयवस्य इकारस्य उपधात्वाऽभावादेव गुणाऽप्रसक्तेर्हलादेरिति व्यर्थमित्यत आह — इह नित्यमपि द्वित्वं गुणेन बाध्यते इति । कुत इत्यत आह — उपधाकार्यं हि द्वितवात्प्रबलमिति । तच्च कुत इत्यत आह — ओणेरिति । ओणेः ऋदित्करणस्य ज्ञापकत्वादित्यन्वयः । तथाहि — ओणृधातोण्र्यन्ताल्लुङि चङि ‘णौ चङ्युपधायाः’ ह्रस्वस्यनाग्लोपिशास्वृदित#आ॑ मिति निषेधे सति ओणि अ त् इति स्थिते णि इत्यस्य द्वित्वे मा भवानोणिणदिति रूपम् । अत्र उपधाह्रस्वनिषेधार्थमोणेरृदित्करणम् । उपधाह्रस्वे कृते तु उण् इ अ त् इति स्थिते णीत्यस्य द्वित्वे मा भवानुणिणदिति स्यात्, ओकारो न श्रूयेयेति स्थितिः । यदि तु नित्यत्वादुपधाह्रस्वत्प्रागेव ओण् इ अ त् इत्यस्यां दशायां द्वित्वं स्यात्तदा ओकारस्य उपधात्वाऽभावादेव ह्रस्वाऽप्रसक्तेस्तन्निषेदार्थमृदित्करणमनर्थकं स्यात् ।तस्मादुपधाह्रस्वात्मकमुपधाकार्यं द्वित्वात्प्रबलमिति विज्ञायते इत्यर्थः । ननु भवतु उपधाह्रस्वो द्वित्वात्प्रबलः, प्रकृते तु उपधागुणः कथं द्वित्वात्प्रबलः स्यादित्यत आह — सामान्यापेक्षेति । उपधाह्रस्वस्य उपधाह्रस्वस्य उपधाकार्यत्वेन रूपेण द्वित्वात्प्राबल्यविज्ञानादित्यर्थः । वस्तुतस्तु ‘णौ चङ्युपधायाः’ इति सूत्रे॒यदमोणिमृदितं करोति तज्ज्ञापयति द्विर्वचनाद्ध्रस्वत्वं बलीय॑ इति विशिष्य उपधाह्रस्वग्रहणात्सामान्यापेक्षत्वं ज्ञापकस्य चिन्त्यमिति शब्देन्दुशेखरे प्रपञ्चितम् ।

Tattvabodhini

रलो व्युपधाद्धलादेः संश्च - रलो व्युपधा ।न क्त्वा से॑डित्यतः सेडिति वर्तते । चकारेण क्त्वायाः सङ्ग्रहः ।असंयोगा॑दित्यतः किदिति,नोपधा॑दित्यतो वेति चानुवर्तते । तदाह- क्त्वासनावित्यादि । सेट् किम् । भित्त्वा । छित्त्वा । बुभुक्षते ।

Padamanjari

क्त्वाप्रत्ययस्य ऽन क्त्वा सेट्ऽ इति कित्वे प्रतिषिद्धे सनोऽप्यकित्वे स्वतः सिद्ध उभयत्र विधिमुखेनेदं प्रवर्तत इत्याह-वा कितौ भवत इति । दिद्योतिषते इति । ऽद्यौतिस्वाप्योः संप्रसारणम्ऽ । एषिषिषतीति । इटि कृते - ऽअजादेर्द्वितीयस्यऽ ॥

Nyaas

क्त्वाप्रत्ययश्च न क्त्वा सेट् (1.2.18) इति कित्त्वे प्रतिषिद्धे सनोऽप्यकित्वे स्वभावत एव व्यवस्थित उभयत्रेदं विधिमुखेनैव प्रवर्तत इतिपक्षे कित्त्वं भवतीति।{दिद्युतिषते - काशिका,पदमंजरी च} विदद्युतिषते` इति। द्युतिस्वाप्योः संप्रासरणम् (7.4.67) इत्यभ्यासस्य संप्रासरणम्। एषिषिषति इति। इषु इच्छायाम् (धातुपाठः-1351), इडागमे कृते अजादेर्द्वितीयस्य (6.1.2) इति द्वितीयस्यैकाचो द्विर्वचनम्। बुभुक्षते इति। हलन्ताच्च (1.2.10) इति नित्यं कित्त्वं भवति। लाघवार्थम् इणुपधात् इति वाच्ये, इण्ग्रहणानि सर्वाणि परेम णकारेणेति ज्ञापनार्थं व्युपधात् इत्युक्तम्। तेन लण् इत्यत्र यदुक्तम् - इण्ग्रहणानि सर्वाणि परेण णकारेण इति तदुपपन्नं भवति॥

Sutra Prayogas

  • रुदित्वा (भट्टिकाव्यम्): र-लो व्युपधाद्धलादेः इति कित्त्वे विकल्पिते रुदविदेत्यादिना कित्त्वम्।

  • क्लिशित्वा (भट्टिकाव्यम्): तत्र रलो व्युपधात् इति कित्त्वविकल्पे।

  • द्युतित्वा (भट्टिकाव्यम्): रलो व्युपधात् इति कित्त्वाकित्त्वे।