12027: ऊकालोऽज्झ्रस्वदीर्घप्लुतः¶
Padacheda: ऊ-कालः | S | 1 | 1 |
अच् | S | 1 | 1 |
ह्रस्व-दीर्घ-प्लुतः | S | 1 | 1 |
Sutrartha¶
उ-ऊ-उ3 एतेषां उच्चारणकालः यस्य उच्चारणकालेन सह समानः, सः अच् क्रमेण ह्रस्वसंज्ञकः, दीर्घसंज्ञकः, प्लुतसंज्ञकः भवति ।
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमाः वर्तन्ते ‘ह्रस्वः’, ‘दीर्घः’, ‘प्लुतः’ एताः तिस्रः संज्ञाः । स्वराणाम् उच्चारणकारस्य आधारेण तेषां एताः संज्ञाः दीयन्ते । एतासाम् तिसृणाम् अपि संज्ञानाम् विधानम् पाणिनिना अस्मिन् एकस्मिन्नेव सूत्रे कृतम् अस्ति, तदर्थं च सः ‘ऊकालः’ इति शब्दं प्रयुङ्क्ते । ‘ऊकालः’ इत्यत्र विद्यमानः ‘ऊ’ इति अंशः ह्रस्व-उकारः, दीर्घ-ऊकारः, तथा प्लुत-उ3कारः —इत्येतेषां सवर्णदीर्घं कृत्वा निर्मितः अस्ति । ** ‘उ’, ‘ऊ’, ‘उ3’ इत्येतेषाम् उच्चारणस्य यः कालः, तादृशः कालः यस्य स्वरस्य उच्चारणार्थम् आवश्यकः, सः स्वरः यथासङ्ख्यम् ह्रस्व-दीर्घ-प्लुत-शब्देन ज्ञायते, इति अस्य आशयः **। तदित्थम् —
1. ह्रस्वः — यस्य स्वरस्य उच्चारणकालः ‘उ’ इत्यस्य उच्चारणकालसदृशः (इत्युक्ते, एकमात्रिकः) अस्ति, सः स्वरः ‘ह्रस्वः’ नाम्ना ज्ञायते । ‘अ’, ‘इ’, ‘उ’, ‘ऋ’, ‘ऌ’ एते स्वराः ह्रस्वसंज्ञकाः सन्ति । 2. दीर्घः — यस्य स्वरस्य उच्चारणकालः ‘ऊ’ इत्यस्य उच्चारणकालसदृशः (इत्युक्ते, द्विमात्रिकः) अस्ति, सः स्वरः ‘दीर्घः’ नाम्ना ज्ञायते । ‘आ’, ‘ई’, ‘ऊ’, ‘ॠ’, ‘ए’, ‘ऐ’, ‘ओ’, ‘औ’ एते स्वराः दीर्घसंज्ञकाः सन्ति । 3. प्लुतः — यस्य स्वरस्य उच्चारणकालः ‘उ3’ इत्यस्य उच्चारणकालसदृशः (इत्युक्ते, त्रिमात्रिकः) अस्ति, सः स्वरः ‘प्लुतः’ नाम्ना ज्ञायते । ‘अ3’, ‘इ3’, ‘उ3’, ‘ऋ3’, ‘ऌ3’ ‘ए3’, ‘ऐ3’, ‘ओ3’, ‘औ3’ एते स्वराः प्लुतसंज्ञकाः सन्ति ।
अस्मिन् विषये एका कारिका अपि प्रसिद्धा वर्तते - <karika> एकमात्रो भवेत् ह्रस्वः, द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लुतो ज्ञेयः, व्यञ्जनं त्वर्धमात्रिकम् ॥ </karika> व्यञ्जनस्य उच्चारणस्य कालः अर्धमात्रा, ह्रस्वस्वरस्य उच्चारणकालः एका मात्रा, दीर्घस्वरस्य उच्चारणकालः द्वे मात्रे, प्लुतस्वरस्य च उच्चारणकालः तिस्रः मात्राः — इति अस्याः कारिकायाः आशयः । परन्तु सर्वेषाम् अपि स्वराणाम् एते सर्वे भेदाः न विद्यन्ते । तत्र इदं ज्ञेयम् -
अ, इ, उ, ऋ — एतेषाम् सर्वेषाम् त्रयः अपि ह्रस्व-दीर्घ-प्लुतभेदाः भवन्ति ।
ऌ — इत्यस्य दीर्घभेदः नास्ति, अतः तस्य केवलं ह्रस्व-प्लुत-भेदौ भवतः ।
ए, ऐ, ओ, औ — एतेषाम् ह्रस्वभेदः नास्ति, अतः एतेषाम् केवलम् दीर्घ-प्लुत-भेदौ भवतः ।
<note>ह्रस्व-दीर्घ-प्लुत-संज्ञाः स्वराणामेव विद्यन्ते, न हि व्यञ्जनानाम् । सर्वाणि व्यञ्जनानि तु अर्धमात्रिकानि एव सन्ति ।</note>
ह्रस्व-दीर्घ-प्लुत-संज्ञानाम् प्रयोजनम्
ह्रस्वादीनां संज्ञानां प्रयोगः अष्टाध्याय्यां बहुषु सूत्रेषु कृतः अस्ति । एतासां प्रयोगेण भिन्नाः विधयः उच्यन्ते । प्रत्येकं संज्ञाम् अधिकृत्य एकम् उदाहरणम् अधः दत्तम् अस्ति — 1. ह्रस्वस्वरात् अनन्तरम् संहितायाम् छकारः आगच्छति चेत् तस्य ह्रस्वस्वरस्य ‘तुक्’ इति आगमः भवति । यथा —
पृच्छ्यते इति (कृद्वृत्तिः)
= प्रछँ (ज्ञीप्सायाम्, तुदादिः, (06.0149)) + अनीयर् [**तव्यत्तव्यानीयरः** (3.1.96) इति अनीयर्-प्रत्ययः]
→ प्रछ् + अनीय [इत्संज्ञालोपः]
→ प्र तुक् छ् + अनीय [ह्रस्व-अकारात् परः अव्यवहितः छकारः विद्यते, अतः अत्र **छे च** (6.1.73) इत्यनेन अकारस्य 'तुक्' इति आगमः भवति । **आद्यन्तौ टकितौ** (1.1.46) इति अयम् आगमः अकारात् अनन्तरम् आगच्छति ।]
→ प्र त् छ् + अनीय [ककारस्य इत्संज्ञा, लोपः । उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ प्र च् छ् + अनीय [**स्तोः श्चुना श्चुः** इति श्चुत्वम्]
→ प्रच्छनीय
अपदान्त-दीर्घस्वरात् अनन्तरम् संहितायाम् छकारः आगच्छति चेत् तस्य दीर्घस्वरस्य ‘तुक्’ इति आगमः भवति । यथा —
= म्लेछँ (अव्यक्ते शब्दे, भ्वादिः, (01.0233)) + अनीयर् [**तव्यत्तव्यानीयरः** (3.1.96) इति अनीयर्-प्रत्ययः]
→ म्लेछ् + अनीय [इत्संज्ञालोपः]
→ म्ले तुक् छ् + अनीय [अपदान्त-दीर्घ-एकारात् परः अव्यवहितः छकारः विद्यते, अतः अत्र **दीर्घात्** (6.1.75) इत्यनेन एकारस्य 'तुक्' इति आगमः भवति । **आद्यन्तौ टकितौ** (1.1.46) इति अयम् आगमः एकारात् अनन्तरम् आगच्छति ।]
→ म्ले त् छ् + अनीय [ककारस्य इत्संज्ञा, लोपः । उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ म्ले च् छ् + अनीय [**स्तोः श्चुना श्चुः** इति श्चुत्वम्]
→ म्लेच्छनीय
प्लुतस्वरात् परः अच्-वर्णः विद्यते चेत् संहितायाम् सत्याम् अपि सन्धिः न भवति । यथा —
कृष्ण३ + अत्र
→ कृष्ण३ अत्र [**प्लुतप्रगृह्या अचि नित्यम्** (6.1.125) इत्यनेन प्लुतस्वरस्य अच्-वर्णे परे प्रकृतिभावः । अतः अत्र **अकः सवर्णे दीर्घः** (6.1.101) इत्यनेन सवर्णदीर्घः न भवति ।]
सूत्रे ‘ऊकाल’ग्रहणस्य सन्दर्भः
कुक्कुटः यदा उच्चैः आक्रोशति, तदा तस्य मुखात् उवर्णस्य त्रयः अपि स्वरभेदाः उत्सृजन्ति । इत्युक्ते, अवर्णस्य इवर्णस्य वा अपेक्षया उवर्णस्य ह्रस्व-दीर्घ-प्लुत-भेदाः जनैः कुक्कुटस्य आक्रोशे सरलतया श्रूयन्ते । अतएव अत्र सूत्रे ‘आकालः’ उत ‘ईकाल’ इत्यस्य अपेक्षया ‘ऊकालः’ इति शब्दनिर्देशः क्रियते ।
Sutrartha (English)¶
Vowels are classified as ह्रस्व, दीर्घ and प्लुत based on the time taken for their pronunciation, as compared against the time of उ, ऊ and उ3 respectively.
Vasu English Summary¶
A vowel whose time is that of short उ , ऊ and the prolated ऊ , is called respectively ह्रस्व short, दीर्घ long and प्लुत prolated.
Vasu English Translation¶
A vowel whose time is that of short उ , ऊ and the prolated ऊ , is called respectively ह्रस्व short, दीर्घ long and प्लुत prolated. The उ u having one matra or measure is short, having two measures is long, having three measures is pluta. This sutra defines the three kinds of vowels according to their matra. The letter ऊ u has been taken to illustrate the rule. The phrase हृस्वदीर्घप्लुतः is a Dvandva compound, in the Singular, and is exhibited in the masculine gender, contrary to the general rule (2.4.17).
The word kala means measure of time required for pronouncing a vowel.
As दधि ‘curd’, मधु ‘honey’. Here इ and उ are short. कुमारी, गौरी, here ई is long. देवदत्ता३ अन्वास Devadatta! Here आ a is pluta or prolated.
These words are used in the following sutras: (1.2. 47); (7.4.25); (8.2.82).
Bhashya¶
ऊकालोऽज्झ्रस्वदीर्घप्लुतः अयुक्तोऽयं निर्देशः। ऊ इत्यनेन कालः प्रतिनिर्दिश्यते, ऊ इत्ययं च वर्णः तत्राऽयुक्तं वर्णस्य कालेन सह सामानाधिकरण्यम्। कथं तर्हि निर्देशः कर्तव्यः? ऊकालकाल इति। किमिदमूकालकाल इति? ऊ इत्येतस्य काल ऊकालः, उकालः कालो यस्य स ऊकालकाल इति। स तर्हि तथानिर्देशः कर्तव्यः? न कर्तव्यः। उत्तरपदलोपोऽत्र द्रष्टव्यः। तद्यथा- उष्ट्रमुखमिव मुखमस्य उष्ट्रमुखः। खरमुखः। एव मूकालकाल ऊकाल इति। अथ वा साहचर्यात्ताच्छब्द्यं भविष्यति। कालसहचरितो वर्णः। वर्णोऽपि काल एव। - ह्रस्वादिषु समसङ्ख्याऽप्रसिद्धिनिर्देशवैषम्यात् - ह्रस्वादिषु समसङ्ख्यत्वस्याऽप्रसिद्धिः। किं कारणम्?। निर्देशवैषम्यात् तिस्रः सञ्ज्ञा एकः सञ्ञ्ज्ञी, वैषम्यात्सङ्ख्यातानुदेशो न प्राप्नोति। - सिद्धं तु समसङ्ख्यत्वात् - सिद्धमेतत्। कथम्?। समसङ्ख्यत्वात्। कथं समसङ्ख्यत्वम्? - त्रयाणां हि विकारनिर्देशः - त्रयाणामयं प्रश्लिष्टनिर्देशः। कथं पुनर्ज्ञायते- त्रयाणामयं प्रश्लिष्टनिर्देश इति?। तिसृणां सञ्ज्ञानां करणसार्मथ्यात्। यद्यपि तावत्तिसृणां सञ्ज्ञानां करणसार्मथ्याज्ज्ञायते- त्रयाणमयं प्रश्लिष्टनिर्देश इति। कुतस्त्वेतदेतेनानुपूर्व्येण सन्निविष्टानां सञ्ज्ञा भविष्यतीति, आदौ मात्रिकस्ततो द्विमात्रस्ततस्त्रिमात्र इति। न पुनर्मात्रिको मध्ये वाऽन्ते वा स्यात्, तथा द्विमात्र आदौ वा स्यादन्ते वा। तथा त्रिमात्र आदौ वा मध्ये वा स्यात्? । अयं तावत् त्रिमात्रोऽशक्य आदौ वा मध्ये वा कर्तुम्। कुतः? प्लुताश्रयो हि प्रकृतिभावः प्रसज्येत। मात्रिकद्विमात्रिकयोरपि घ्यन्तं पूर्वं निपततीति मात्रिकस्य पूर्वनिपातो भविष्यति। यत्तावदुच्यते- अयं तावत् त्रिमात्रोऽशक्य आदौ मध्ये वा कर्तुं प्लुताश्रयो हि प्रकृतिभावः प्रसज्येत इति प्लुताश्रयः प्रकृतिभावः। प्लुतसञ्ज्ञा चानेनैव। यदि च त्रिमात्र आदौ वा मध्ये वा स्यात् प्लुतसञ्ञ्ज्ञैवास्य न स्यात्कुतः प्रकृतिभावः। यदप्युच्यते मात्रिकद्विमात्रिकयोरपि घ्यन्तं पूर्वं निपततीति मात्रिकस्य पूर्वनिपातो भविष्यतीति। ह्रस्वाश्रया हि घिसञ्ज्ञा ह्रस्वसञ्ज्ञा चानेनैव। यदि च मात्रिको मध्ये वान्ते वा स्याद्ह्रस्वसञ्ञ्ज्ञैवास्य न स्यात्, कुतो घिसञ्ज्ञा, कुतः पूर्वनिपातः? एवमेषा व्यवस्था न प्रकल्पते। एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति- न मात्रिकोऽन्ते भवतीति, यदयं- विभाषा पृष्टप्रतिवचने हेः (8.2.93) इति मात्रिकस्य प्लुतं शास्ति। कथं कृत्वा ज्ञापकम्? योऽन्ते स प्लुतसञ्ञ्ज्ञः। यदि च मात्रिकोऽन्ते स्यात्प्लुतसञ्ज्ञाऽस्य स्यात्। तत्र हि मात्राकालस्य मात्राकालवचनमनर्थकं स्यात्। मध्ये तर्हि स्यादिति। अत्राप्याचार्यप्रवृत्तिर्ज्ञापयति- न मात्रिको मध्ये भवतीति। यदयम्- अतो दीर्घो यञ्ञि सुपि चेति (7.3.101,102) इति दीर्घत्वं शास्ति। कथं कृत्वा ज्ञापकम्? यो मध्ये स दीर्घसञ्ञ्ज्ञकः। यदि च मात्रिको मध्ये स्याद्दीर्घसञ्ज्ञाऽस्य स्यात्। तत्र मात्राकालस्य मात्राकालवचनमनर्थकं स्यात्। द्विमात्रस्तर्ह्यन्ते स्यादिति। अत्राप्याचार्यप्रवृत्तिर्ज्ञापयति- न द्विमात्रोऽन्ते भवतीति, यदयम्- ओमभ्यादाने (8.2.87) इति द्विमात्रिकस्य प्लुतं शास्ति। कथं कृत्वा ज्ञापकम्? योऽन्ते स प्लुतसञ्ञ्ज्ञः। यदि च द्विमात्रोऽन्ते स्यात् प्लुतसञ्ज्ञाऽस्य स्यात्। तत्र द्विमात्राकालस्य द्विमात्राकालवचनमनर्थकं स्यात्। मात्रिकेण चास्य पूर्वनिपातो बाधित इति कृत्वा क्वान्यत्रोत्सहते भवितुमन्यदतो मध्यात्। एवमेषां व्यवस्था प्रकॢप्ता। भवेद् व्यवस्था च प्रक्लृता। - दीर्घप्लुतयोस्तु पूर्वसञ्ज्ञाप्रसङ्गः - दीर्घप्लुतयोरपि पूर्वसञ्ज्ञा प्राप्नोति। का? ह्रस्वसञ्ज्ञा। किं कारणम्? अण् सवर्णान् गृह्णातीति। - सिद्धं तु तपरनिर्देशात् - सिद्धमेतत्। कथम्? तपरनिर्देशः कर्तव्यः- उदूकाल इति। यद्येवं- - द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसङ्ख्यानं कालभेदात् - द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसङ्ख्यानं कर्तव्यम्। तथा मध्यमायां तपरकरणे द्रुतविलम्बितयोरुपसङ्ख्यानं कर्तव्यम्। तथा विलम्बितायां तपरकरणे द्रुतमध्यमयोरुपसङ्ख्यानं कर्तव्यम्। किं पुनः कारणं न सिध्यति? कालभेदात्। ये हि द्रुतायां वृत्तौ वर्णास्त्रिभागाधिकास्ते मध्यमायाम्, ये मध्यमायां वर्णास्त्रिभागाधिकास्ते विलम्बितायाम् ॥ - द्रुतादिषु चोक्तम् - किमुक्तम्? सिद्धं त्ववस्थिता वर्णा वक्तुश्चिराऽचिरवचनाद्वृत्तयो विशिष्यन्ते इति। स तर्हि तपरनिर्देशः कर्तव्यः? न कर्तव्यः। इह कालग्रहणं क्रियते। यावच्च तपरकरणं तावच्च कालग्रहणम्। प्रत्येकं च कालशब्दः परिसमाप्यते- उकाल ऊकाल ऊ3काल इति। अथ वैकसञ्ज्ञाधिकारेऽयं योगः कर्तव्यः। तत्रैका सञ्ज्ञा भविष्यति या परा अनवकाशा चेति। एवं हि दीर्घप्लुतयोः पूर्वसञ्ज्ञा न भविष्यति। अथवा स्वं रूपं शब्दस्याशब्दसञ्ज्ञा (1.1.68) इत्ययं योगः प्रत्याख्यायते। तत्र यदेतद् अशब्दसञ्ज्ञा इति, एतद्यया विभक्त्या निर्दिश्यमानमर्थवद्भवति तया निदिष्टमुत्तरत्रानुवर्तिष्यते। अणुदित्सवर्णस्य चाप्रत्ययः (1.1.69) अशब्दसञ्ज्ञायाम् इति। अथवा ह्रस्वसञ्ज्ञावचनसार्मथ्याद्दीर्घप्लुतयोः पूर्वसञ्ज्ञा न भविष्यति। ननु चेदं प्रयोजनं स्यात्- सञ्ञ्ज्ञया विधाने नियमं वक्ष्यामीति ह्रस्वसञ्ञ्ज्ञया यदुच्यते तदचः स्थाने यथा स्यात् इति। स्यादेतत्प्रयोजनं यदि किञ्चित्कराणि ह्रस्वशासनानि स्युः। यतस्तु खलु यावदज्ग्रहणं तावद्ह्रस्वग्रहणमतोऽकिञ्चित्कराणि ह्रस्वशासनानि। इदं तर्हि प्रयोजनम्- एच इग्ह्रस्वादेशे (1.1.48) इति वक्ष्यामीति। अनुच्यमाने ह्येतस्मिंस्त्रिर्ह्रस्वप्रदेशेष्वेच इग्भवतीति वक्तव्यं स्यात्। ह्रस्वो नपुंसके प्रातिपदिकस्य (1.2.47) एच इग्भवतीति। णौ चङ्युपधाया ह्रस्वः (7.4.1) एच इग्भवतीति। ह्रस्वः, हलादिः शेषः (7.4.59,60) एच इग्भवतीति। सञ्ज्ञा च नाम यतो न लघीयः। कुत एतत्? लघ्वर्थं हि सञ्ज्ञाकरणम्। लघीयश्च त्रिर्ह्रस्वप्रदेशेष्वेच इग्भवतीति, न पुनः सञ्ज्ञाकरणम्। त्रिर्ह्रस्वप्रदेशेषु एच इग्भवतीति षड् ग्रहणानि। सञ्ज्ञाकरणे पुनरष्टौ। ह्रस्वसञ्ज्ञा वक्तव्या, त्रिर्ह्रस्वप्रदेशेषु ह्रस्वग्रहणं कर्तव्यं- ह्रस्वो ह्रस्वो ह्रस्व इति। एच इग्घ्रस्वादेशे इति। सोऽयमेवं लघीयसा न्यासेन सिद्धे सति यद् गरीयांसं यत्नमारभते तस्यैतत्प्रयोजनं दीर्घप्लुतयोस्तु पूर्वसञ्ज्ञा मा भूदिति । ऊकालोऽज्झ्रस्वदीर्घप्लुतः ॥ 27 ॥
Kashika¶
ऊ इति त्रयाणामयं मात्रिकद्विमात्रिकत्रिमात्रिकाणां प्रश्लिष्टनिर्देशः। ह्रस्वदीर्घप्लुत इति द्वन्द्वैकवद्भावे पुँल्लिङ्गनिर्देशः। उ ऊ ऊ3 इत्येवंकालोऽज् यथाक्रमं ह्रस्वदीर्घप्लुत इत्येवंसंज्ञो भवति। उकालो ह्रस्वः — दधि। मधु। ऊकालो दीर्घः — कुमारी गौरी। ऊ३कालः प्लुतः — देवदत्त३ अत्र न्वसि। कालग्रहणं परिमाणार्थम्। दीर्घप्लुतयोर्ह्रस्वसंज्ञा मा भूत् — आलूय। प्रलूय। ह्रस्वस्य पिति कृति तुक् (६.१.७१) इति तुङ् न भवति। अज्ग्रहणं संयोगाच्समुदायनिवृत्त्यर्थम्। प्रतक्ष्य। प्ररक्ष्य। ह्रस्वाश्रयस्तुङ् मा भूत्। तित — उच्छत्रम्। दीर्घात् (६.१.७५) पदान्ताद् वा (६.१.७६) इति विभाषा तुङ् मा भूत्। ह्रस्वदीर्घप्लुतप्रदेशाः — ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)। अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५)। वाक्यस्य टेःप्लुत उदात्तः (८.२.८२)॥
Siddhanta Kaumudi¶
उश्च ऊश्च उ3श्च वः । वां काल इव कालो यस्य सोऽच् क्रमाद्ध्रस्वदीर्घप्लुतसंज्ञः स्यात् । स प्रत्येकमुदात्तादिभेदेन त्रिधा ॥
Laghu Siddhanta Kaumudi¶
उश्च ऊश्च उ3श्च वः; वां काल इव कालो यस्य सोऽच् क्रमाद् ह्रस्वदीर्घप्लुतसंज्ञः स्यात्। स प्रत्येकमुदात्तादिभेदेन त्रिधा॥
Laghu Shabdendushekhar¶
ऊकालोऽच् । कुक्कुटरुते उकारे एकद्वित्रिमात्रत्वप्रसिद्धेरकारादयो नोक्ताः । ‘ऊ’ इति एकद्वित्रिमात्राणां क्रमेण प्रश्लेषनिर्देशो व्याख्यानात् । तेन स्वोच्चारणकालसदृशो लक्ष्यते । स कालो यस्येति बहुव्रीहिः, तत्फलितमाह - उश्च ऊश्च ऊ३श्चेति । ननु उकालो ह्रस्व इति वाक्येऽण्त्वात्सवर्णग्रहणे द्वित्रिमात्रयोरपि ह्रस्वसञ्ज्ञायां प्रदाय, प्रलूयेत्यादौ ह्रस्वस्य (6.1.71) इति तुक् स्यादिति चेन्न । ‘ऊ अजि’त्येवाज्ग्रहणसामर्थ्यादूसदृशोऽजित्यर्थे सादृश्यस्य व्याख्यानात्कालकृतस्यैव ग्रहणमिति सिद्धे अधिकं कालग्रहणम् - उच्चारितसम्बन्धिकालसदृशकालस्यैव सञ्ज्ञा, न तु तेन गृहीतसम्बन्धिकालसदृशकाल्स्यापि इत्यर्थेनादोषात् । तदुक्तं भाष्ये - यावत्तपरकरणं तावदत्र कालग्रहणम् - इति । न चाजिति वर्णग्रहणे जातिग्रहणस्य दुर्वारत्वात्तितउच्छत्रमित्यत्र दीर्घात्पदान्ताद्वेति तुगापत्तिरिति वाच्यं, ज्ञापकसिद्धत्वेन तस्यासार्वत्रिकत्वात् । अन्तरङ्गत्वेन ह्रस्वत्वनिमित्तनित्यतुक एव प्राप्तेश्च । अज्ग्रहणं प्रतक्ष्येत्यादौ ह्रस्वस्येति तुग्व्यावृत्त्यर्थम् ।
Balamanorama¶
ऊकालोऽज्झ्रस्वदीर्घप्लुतः - तदेवमणादिसंज्ञासु सिद्धासु अचो ह्रस्वादिसंज्ञां विधत्ते — ऊकालोऽजिति । ‘ह्रस्वदीर्घप्लुत’ इति समाहारद्वन्द्वः । सौत्रं पुंस्त्वम् । इतरेतरयोगद्वन्द्वो वा । तथा सत्येकवचनमार्षम् । उ ऊ ऊ३ इति त्रयाणां एकमात्रद्विमात्रत्रिमात्राणां द्वन्द्वसमासे सति सवर्णदीर्घेण ऊ इति प्रश्लिष्टनिर्देशः । तेषां कालः ऊकालः । कालशब्दो मात्रापर्यायः कालसदृशे लाक्षणिकः । ऊकालः कालो यस्येति विग्रहः ।सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वा चोत्तरपदलोपः॑ इति द्विपदो बहुव्रीहिः । ऊकालशब्दे पूर्वपदे उत्तरखण्डस्य कालशब्दस्य लोप इत्यभिप्रेत्य फलितमाह — वां काल इवेत्यादिना । ‘वः’ इति ऊशब्दस्य प्रथमाबहुवचनम् । वामिति षष्टीबहुवचनम् । वां काल इव कालो यस्येति फलितार्थकथनम् । उक्तरीत्या द्विपद एव बहुव्रीहिः । क्रमादिति । यथासंख्यसूत्रलभ्यमेतत् । इहैव तत्सूत्रमुपन्यसितुमुचितम् । नच उ ऊ ऊ३ इत्युवर्णानां कथं ह्रस्वदीर्घप्लुतसंज्ञाः, तेषामूकालसदृशकालत्वाऽभावात्, सादृश्यस्य भेदनिबन्धनत्वादिति वाच्यम् । ऊ शब्दस्यात्र एकमात्रद्विमात्रत्रिमात्रकुक्कुटरुतानुकरणत्वात् । स इति । सः=ह्रस्वः दीर्घः प्लुतश्च अच्, प्रत्येकमुदात्तादिभेदेन=उदात्तत्वेनानुदात्तत्वेन स्वरितत्वेन च धर्मविशेषण, त्रिधा = त्रिभिः प्रकारैर्वर्तत इत्यर्थः ।
Tattvabodhini¶
ऊकालोऽज्झ्रस्वदीर्घप्लुतः - ऊकालोऽज्झ्रस्वदीर्घप्लुत इति । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् ।ऊ॑ इति त्रयाणां प्रश्लेषेण निर्देश इत्याह-उश्च ऊश्च ऊश्चेति । वः । वामिति । त्रयाणां सवर्णदीर्घे कृते जसि परतो यणि-वः । आमि तु वाम् । वां काल इव कालो यस्येति । फलितार्थकथनमिदम् । विग्रहस्तु वः कालो यस्येति बोध्यः ।ऊ॑ शब्देन स्वोच्चारणकालो लक्ष्यते । अच् किम् । संयोगस्य माभूत्, प्रतक्ष्य, प्ररक्ष्य । कषयोरेकमात्रत्वेन ह्रस्वसंज्ञायांह्रस्वस्य पिति कृति-॑ इति तुक् स्यात् । आ ये इति ।निपाता आद्युदात्ताः॑ इत्याकार उदात्तः । यच्छब्दस्तुफिष॑ इत्यन्तोदात्तः । ततः परस्य जसः सुप्त्वादनुदात्तत्वम्, त्यदाद्यत्वे शीभावे आद्गुणे च सतिएकादेश उदात्तेन॑ इत्येकार उदात्तः ।
Padamanjari¶
ऊः कालो यस्य स ऊकालः ऽतपरस्तत्कालस्यऽ इतिवन्निर्देशः समर्थनीयः । एतच्च संज्ञिनो विशेषणम्, च ऽऊऽ इत्येकस्यैव शब्दस्योच्चारणाद्विशेषणस्यैकत्वात् संज्ञाप्येकैवेति यश्चोदयेत् तं प्रत्याह - ऊ इति त्रयाणामित्यादि । प्रश्लेषणमु प्रश्लिष्टम्, तेन निर्देशः उ प्रश्लिष्टनिर्देशः । तेन विशेषणत्रयपरिच्छिन्नास्त्रयः संज्ञिन इत्यर्थः । प्रश्लेषणे प्रमाणमाह-ह्रस्वेति । ह्रस्वदीर्घप्लुत इति न तावदेका संज्ञा; गौरवादनावृतेश्च । अतस्तिसृणां संज्ञानां द्वन्द्वोऽयम् । न चैकस्यानेकसंज्ञाकरणे प्रयोजनमस्ति । लुगादिसंज्ञास्वपि तद्भावितत्वेन प्रत्ययादर्शनस्य भेद आशितः, प्रकारान्तरासम्भवाद् । इह तु निर्देश एव त्रयाणां सम्भवति । तस्मात्संज्ञानां त्रित्वात् संज्ञिनामपि त्रित्वमनुमीयत इति भावः । ऽबहुवचननिरासार्थमेकवद्भावःऽ इत्युक्तम्, समाहारद्वन्द्व इत्यर्थः । ऽस नपुंसकम्ऽ कैत्येततु न भवतीत्याह-पुंल्लिङ्गमनिर्देश इति । सौत्र इति भावः । प्रश्लेषे क्रममाह- उ ऊ ऊ3 इत्येकं काल इति । उकारादीनां परिच्छेदको यः कालो निमेषादिः, तत्काल इत्यर्थः । कुतः पुनरवसितमेष एव क्रम इति ? आदौ मध्ये वा त्रिमात्रे प्लुताश्रयः प्रकृतिभावः प्राप्नोति, तथा मध्येऽन्ते वा मात्रिके ऽद्वन्द्वे घिऽ इत्येतद्वाध्येतेति चेति, न; अनेन हि प्लुतसंज्ञा, ततश्चादौ मध्ये वा पठितस्य त्रिमात्रस्य प्लुतसंज्ञैव न, कुतः प्रकृतिभावः ! यदि च मात्रिको मध्येऽन्ते वा स्यात्, ह्रस्वसंज्ञैव न स्यात् कुतो घिसंज्ञा ! कुतस्तरां पूर्वनिपातः ! एवं तर्हि ज्ञापकात्सिद्धम्, यदयम् ऽविभाषा पृष्टप्रतिवचने हेःऽ इति हेः प्लुतं शास्ति, तज् ज्ञापयति-नान्ते मात्रिक इति । कथं योऽन्ते स प्लुतः ? प्लुतस्य प्लुतवचनमनर्थकम् । अनन्तरतमप्लुतार्थमेतत्स्यादिति चेत्, न हि सत्यां गतौ परिभाषा बाध्या । यच्च ऽसुपि चऽ इति दीर्घत्वं शास्ति, तज् ज्ञापयति-न मध्ये मात्रिक इति । कथं यो मध्ये स दीर्घः ? दीर्घस्य दीर्घवचनमनर्थकम् । यच्च ऽओमभ्यादानेऽ इत्योमः प्लुतं शास्ति, तज् ज्ञापयति - द्विमात्रिको नान्त्य इति । कथं योऽन्ते स प्लुतः ? प्लुतस्य प्लुतवचनमनर्थकम् । दधि,मध्विति । रूपोदाहरणे । कुमारीत्यादि कार्योदाहरणम् ऽहल्ङ्याब्भ्यःऽ इति दीर्घाश्रयः सुलोपो भवति । देवदत3 अत्र न्वसीति । ऽअनन्त्यस्यापि प्रश्नाख्यानयोःऽ इति प्लुतः । देवदत त्वमत्र भवसीति प्रश्नः । नुशब्द प्रश्नं द्योतयति । देवदतशब्दात्परस्य सोः ऽससजुषो रुःऽ इति रुत्वम्, ऽअतो रोरप्लुतात्ऽ इत्युत्वे प्रतिषिद्धे ऽभोभगोअघोअपूर्वस्य योऽशिऽ इति यत्वम्, ऽलोपः शाकल्यस्यऽ । उकारोऽयमण्, तेन द्विमात्रयोरपि ग्रहणाद् ह्रस्वसंज्ञा प्राप्नोति । न च दीर्घप्लुतसंज्ञाभ्यां बाधः; एकसंज्ञाधिकारादन्यत्र संज्ञानां समावेशाभ्युपगमाद्, अत आह-कालग्रहणमिति । कालग्रहणं तावदुकारादिभिः प्रत्येकमभिसम्बध्यते, ऊकाल इत्यस्मिन्वाक्ये सत्यपि सवर्णग्रहणे कालशब्दस्य न पुनः प्रत्येकपरिसमाप्तिर्युज्यते, कुतः ? एकस्यैव श्रुतत्वात् । द्विमात्रत्रिमात्रौ हि संज्ञित्वेन प्रतीयेते, न तु साक्षादुच्चरितौ । एवं चैकत्वाद्वहुव्रीहेरेक एव संज्ञी, तत्रैकस्य विरुद्धकालद्वयासम्भवेन सवर्णग्रहणाभावाच्छ्4%अत एवोकारः कालविशेषणमिति कालग्रहणं संज्ञिनः परिमाणार्थम् । यद्वा-ऊ अजित्येव कालार्थो लभ्यते, कथम् ? उकारादयोऽच्त्वं न व्यभिचरन्तीति नाच्त्वेन ते विशेष्यन्ते, अपि तु तैरच् । न चाज्मात्रस्योकारादित्वमुपपद्यत इति सामानाधिकरण्यान्यथानुपपत्या तत्सदृशस्याचः प्रतिपतिः । तत्र च स्थानसाम्यमसम्भवान्न गृह्यते, प्रयत्नसाम्यं चाव्यभिचारीति कालसाम्यमेव ग्रहीष्यते, नार्थः कालग्रहणेन । तत्क्रियते श्रूयमाणेनैव कालं विशेषयितुमिति कालग्रहणं परिमाणार्थम् । आलुयेति । ह्रस्वाश्रयस्तुङ् न भवति । तितौच्छत्रमिति । असत्यज्ग्रहणे चद्वयसमुदायस्य प्रत्येकवर्णकालसंकलनया द्विमात्रत्वाद्दीर्घसंज्ञा स्याद् । यस्तु मध्येऽर्द्धमात्राकालः सवर्णकालो न भवतीति समुदायस्य द्विमात्रत्वं न व्याहन्तीति स्यादेव प्रसङ्गे । अज्ग्रहणे तु न भवति; अच्समुदायस्यानच्त्वात् । यद्यपि वर्णग्रहणे जातिग्रहणम्, सा तु जातिरेकैकव्यक्तिव्यङ्ग्या न समुदायव्यङ्ग्या, तेन दीर्घसंज्ञायामभावात् ऽदीर्घात्ऽऽपदान्ताद्वाऽ इति तुग्विकल्पो न भवति । न च सत्यपि विकल्पे तेन मुक्ते ह्रस्वाश्रयस्तुग् लभ्यते; समुदाये कार्यमारभ्यमाणेऽवयवानां स्वकार्यं प्रत्यव्यापारात् ॥
Nyaas¶
ऊः कालो यस्याचः स ऊकालः। ननु चायुक्तोऽयं निर्देशः, तथा हि - ऊ इति शब्दः कालस्तु क्रिया, तत् कुतोऽत्र सामानाधिकरण्यम्? नैष दोषः; यस्मात् ऊ इत्येतत्सहचरितायामुच्चारणक्रियायामिह साहचर्यात् ऊ इत्येष शब्दो वर्तते, एवमप्ययुक्तम्; यतः ऊ इत्येतत्सहचरितं यदुच्चारणं तदूकारस्यैव, नान्यस्याचः। तत्कथं सोऽन्यसम्ब्नधिन्या क्रियया ऊकारलः स्यात्, न हि यज्ञदत्तसम्बन्धिनीभिश्चित्रगवीभिर्देवदत्तश्चित्रगुर्भवति? अयमप्यदोषः; वत्यर्थस्येह गमयन्तीत्युक्तमेतत्। तदेतदुक्तं भवति - ऊ इत्येतत्सहचिरतयोच्चारणक्रियया तुल्योच्चारणक्रिया कालालख्या यस्याचः स ऊकाल इति। ननु च ऊकाल इत्येकः संज्ञी, संज्ञास्तु तिस्त्रः, ततो वैषम्यात् संख्यातानुदेशो न प्राप्नोतीति यो मन्येत, तं प्रत्याह - ऊ इति त्रयाणाम् इत्यादि। मात्रिकाणांत्रयाणामकः सवर्णे (6.1.97) दीर्घत्वमेकादेशं कृत्वा ऊ इति निर्देशः कृत इत्यर्थः। कुतः पुनरेतद्विज्ञायते त्रयाणामेकः प्रश्लेषनिर्देश इति? तिसृणां संज्ञानां विधानसामर्थ्यात्। न ह्रेकस्य भिन्नप्रयोजनमन्तरेणानेकसंज्ञाविधानमर्थवद्भवति। न चेहैकस्यानेकसंज्ञाकरणे भिन्नप्रयोजनमस्ति। ह्रस्वदीर्घप्लुत इति यद्येक एवायं शब्दः संज्ञा स्यात्, लाघवार्थत्वात् संज्ञाकरणस्य, महत्याः संज्ञायाः करणमयुक्तं स्यात्। किञ्च - आवृत्तिधर्माणः संज्ञाशब्दाः प्रदेशेषु भवन्ति, न चायं समुदाय संज्ञाशब्दाः प्रदेशेषु भवन्ति, न चायं समुदायः प्रदेशेष्वावत्र्यते,अपि तु प्रत्येकं ह्रस्वादिशब्दाः। तस्मात् तेषां द्वन्द्वं कृत्वा निर्देश इति मत्वाह- ह्रस्वदीर्घप्लुतः इत्यादिः। द्वन्द्वैकवद्भावस्तु सर्वो द्वन्द्वो विभाषयैकवद्भवति इति वचनात्। ननु च द्वन्द्वैकवद्भावे स नपुंसकम् (2.4.17) इति नुपंसकत्वेन भवितव्यम्, तत्कथं पुंल्लिङ्गेन निर्देशः, सौत्रत्वान्निर्देशस्य। छन्दसि व्यत्ययो बहुलम् (3.1.85) इति लिङ्गव्यत्यय उक्तः। छन्दोवत्सूत्राणि भवन्ति (म।भा।1.1.1) इत्यविरुद्धास्यपुंल्लिङ्गता। उ ऊ ऊ3 इत्यनया आनुपूर्व्यैषां प्रश्लेष इति दर्शयति। कुतः पुनरेष निश्चयः - एषैवैषामानुपूर्वीति? एवं मन्यते - विभाषा पृष्टप्रतिवचने हेः (8.2.93) इत्येकमात्रिकस्य हेः प्लुतविधानाज्ज्ञायते - न मात्रिकोऽन्त्य इति। अन्त्यत्वे हि सति तस्य प्लुतसंज्ञा स्यात्। एवञ्च प्लुतविधानमनर्थं स्यात्। द्विमात्रिकोऽप्यन्त्यो न भवति; ओमभ्यादाने (8.2.87) इति द्विमात्रिकस्य प्लुतविधानात्। तस्य चान्त्यत्वे हि सति यदि प्लुतसंज्ञा स्यात्, तदा च प्लुतस्य प्लुतविधानमनर्थकं स्यात्। तसमादन्ते एकमात्रिकद्विमात्रिकौ न भवतः। मध्येऽप्येकमात्रिको न भवति, अतो दीर्घो यञि (7.3.101) इति सुपि च (7.3.102) इतिच दीर्घविधानसामर्थ्यात्। यदि मध्यएकमात्रिकः स्यात् तदा तस्य दीर्घसंज्ञा स्यात्,दीर्घस्य दीर्घवचनमकिञ्चित्करं स्यात्, तस्मादादावेकमात्रिकत्वे हि सति पारिशेष्यान्मध्ये द्विमात्रिकः, अन्ते त्रिमात्रिक इति। उ ऊ ऊ3 इति। अत्राप्युकारादिसहचरितायामुच्चारणक्रियायमुकारादयो वर्तन्ते। एवं कालोऽजिति यकारस्य लोपः। ननु चोकारोऽयमण् गृह्रमाणः सवर्णान् गृह्णातीत्यत उकारेण दीर्घप्लुतयोग्र्रहणे सति तयोरपि ह्रस्वसंज्ञा भवतीत्यत आह- कालग्रहणम् इत्यादि। कालग्रहणे हि येषामेताःसंज्ञा विधीयते तेषां यथाक्रममेकमात्रिकत्व द्विमात्रिकत्वत्रिमात्रिकत्वानि विशेषणानि लभ्यन्ते। तथा हि, कालग्रहणेसति प्रत्येकं वाक्यपरिसमाप्तौ क्रियमाणायां त्रयो बहुव्रीहयो भवन्ति- उः कालो यस्य् स उकालः, ऊः कालो यस्य स ऊकालः, ऊ3#ःकालो यस्य सः ऊ3 कालः। एषां यथार्ममेकमात्रिकद्विमात्रिकत्रिमात्रिका अचोऽन्यपदार्थाः। यस्मान्मात्रिक एवाचः उ इत्येतत्सहचारिण्या उच्चारमक्रियायास्तुल्यकालः; एवं द्विमात्रिक एवाच ऊ इत्येतत्सहचारिण्या उच्चारणक्रियायास्तुल्यकालः; एवं त्रिमात्रिक एवाच ऊ3 इत्येतत्सहचारिण्या उच्चारणक्रियायास्तुल्यकालः। एवं च सति मात्रापरिमाणस्याचो ह्रस्वसंज्ञा विधीयमाना सत्यप्युकारेण दीर्घप्लुतयोग्र्रहणे तयोर्न भवति, न हि तौ मात्रा परिमाणौ। तेन आलूय, परिणीयेत्यत्र ह्रस्वाश्रयस्तुङ न भवति। प्रत्यक्ष्य, प्ररक्ष्य इति। तक्षू त्वक्षू तनूकरणे (धातुपाठः-655, 656) रक्ष पालने (धातुपाठः-658) कुगतिप्रादयः (2.2.18) इति समासे कृते समासेऽनञ्पूर्वे क्त्वो ल्यप् (7.1.37) इति ल्यप्। तत्र परतो द्वयोरर्धमातर्योर्हलोः संयोगसंज्ञिनोरूकाल्त्वमस्तीत्यसत्यज्ग्रहणे ह्रस्वसंज्ञा स्यात्, ततश्च ह्रस्वाश्रयस्तुक प्रसज्येत।तितौच्छत्रम् इति। अत्राकारोकारचोः समुदायस्य ऊकालत्वाद् द्विमात्रिकत्वमस्तीति दीर्घसंज्ञा स्यात्। ततश्च पदान्ताद्वा (6.1.76) इति विकल्पितस्तुक् प्रसज्येत। अज्ग्रहणे तु सति दीर्घसंज्ञा न भवति,अच्समुदायस्याज्ग्रहणेनाग्रहणात्। ननु च सत्यामपि तस्यां समुदायाश्रयायां दीर्घसंज्ञायायमवयवाश्रया ह्रस्वसंज्ञा भविष्यति। तदाश्रयस्तुङनित्य एव, नैतदस्ति; परत्वाद्दीर्घाश्रयस्तुग्विकल्पः प्राप्नोति। न चैवं विधविषये पुनः प्रसङ्गविज्ञानमस्ति; यत्र पूर्वो विधिः प्रवर्तमानः परविधिविज्ञानं न बाधते तत्रैतद्भवति - पुनः प्रसङ्गविज्ञानात् सिद्धम् इति, इह तु नित्यो विधिः परविधिविकल्पविज्ञानं बाधते; नित्यविकल्पयोर्विरोधात्। ततश्च सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव (व्या।प।40) इति परिभाषयैव विकल्पः स्यात्। तस्मादज्ग्रहणं
Praudhamanorama¶
ह्रस्वदीर्घप्लुत इति समाहारद्वन्द्वः। सौत्रं पुंस्त्वम्। वां काल इवेति । फलितार्थकथनमिदम्। विग्रहस्तु वः कालो यस्येति बोध्यः। ऊशब्देन स्वोच्चारणकालो लक्ष्यते।
Prakriyasarvasvam¶
उ ऊ ऊ ३ इत्येतत्तुल्यकाला अचः क्रमेण ह्रस्वदीर्घप्लुतसंज्ञाः स्युः ।* <karika>क्रमादेकद्वित्रिमात्रा उवर्णाः कुक्कुटस्वने । प्रसिद्धा इत्युवर्णोक्तौ हेतुमाह प्रसादकृत् ॥ १२ ॥</karika> त्रयाणामुवर्णानां सवर्णदीर्घ ऊकाल इति ।
Sarala¶
ऊकाल इति । उकालः - प्रथमान्तम्, अच् - प्रथमान्तम्, ह्रस्वदीर्घप्लुतः - प्रथमान्तम् । ऊकाल इति । उश्च ऊश्च ऊ३श्च वः । वः कालो यस्य असौ - ऊकालः । अत्र हि ऊशब्दस्य कालशब्देन सह सामानाधिकरण्यमुपपद्यते । तत्फलितमाह - वां काल इति । अत्र वां काल इव कालो यस्येति न विग्रहो, व्यधिकरणत्वात् । “काल” इति जात्याख्यायामेकवचनम् । “व” इति च “ऊ” शब्दस्य जसि रूपम् । “वा”मिति च “ऊ” शब्दस्य आभि रूपम् । कुक्कुटोच्चरिते शब्दे उकारे एकद्वित्रिमात्राणां प्रसिद्धेरकारादयो नोक्ताः । ह्रस्वश्च दीर्घश्च प्लुतश्च एषां समाहारः - ह्रस्वदीर्घप्लुतः । सौत्रं पुंस्त्वम् । इतरेतरद्वन्द्वे सौत्रमेकवचनमिति वा । एकमात्रिकोऽच् ह्रस्वसञ्ज्ञः, द्विमात्रिकोऽच् दीर्घः, त्रिमात्रिकः प्लुतः इत्यर्थः । अत्र च सूत्रे ऊ-उ-उ३ इत्येवं तु न च्छेदः, एवं सति द्विमात्रिकस्य ह्रस्वत्वे एकमात्रिकस्य दीर्घत्वे च प्वादीनां ह्रस्वः (७.३.८०) इत्यस्य अतो दीर्घो यञि (७.३.१०१) इत्यस्य च वैयर्थ्यापत्तेः । “उ-ऊ३-ऊ” इत्येवमपि न प्रश्लेषः, एवं सति द्विमात्रिकस्य प्लुतत्वेन “ओमभ्यादाने” इति प्लुतविधेर्वैयर्थ्यापत्तेः, ओमित्यस्य द्विमात्रिकतया तस्येदानीं प्लुतत्वस्य स्वतः सिद्धत्वात् । नापि “ऊ३-ऊ-उ” इति एकमात्रिकस्यान्तेच्छेदः, “विभाषा पृष्टप्रतिवचने हे”रिति हेरिकारस्य प्लुतविधेरानर्थक्यापत्तेः । क्रमादिति । यथासङ्ख्यसूत्रलभ्यमिदम् । लौकिकन्यायसिद्धं वा । सः - लब्धह्रस्वादिसञ्ज्ञकोऽच्, प्रत्येकमुदात्तादिभेदेन = उदात्तानुदात्तस्वरितभेदेन (उदात्तत्वानुदात्तत्वस्वरितत्वधर्मैः) - त्रिधा = त्रिप्रकारक इत्यर्थः । तदित्थं (१) ह्रस्व उदात्तः, (२) ह्रस्वोऽनुदात्तः, (३) ह्रस्वः स्वरितः । (४) दीर्घ उदात्तः, (५) दीर्घोऽनुदात्तः, (६) दीर्घः स्वरितः, (७) प्लुत उदात्तः, (८) प्लुतोऽनुदात्तः, (९) प्लुतः स्वरितः । - इति नवभेदाः । एवञ्च अकारादीनां प्रत्येकं नव भेदा इति लब्धम् ॥
Sudha¶
ऊकाल इति । ** ह्रस्वदीर्घप्लुतः इति समाहारद्वन्द्वः, सौत्रं पुंस्त्वम् । एकद्वित्रिमात्रिकोकाराणामुच्चारणकालसदृशोच्चारणकालविशिष्टोऽच् क्रमशो ह्रस्वदीर्घप्लुतसंज्ञको भवतीति सूत्रार्थः । प्राथम्यादकारोच्चारणमेव युक्तमिति न शङ्क्यम् । कुक्कुटोक्ते उकारे एकद्वित्रिमात्रत्वप्रसिद्धेरकारस्यानुक्तेः । **वां काल इति । वः इति ऊशब्दस्य प्रथमाबहुवचनम् । वामिति षष्ठीबहुवचनम् । वां काल इव कालो यस्येति फलितार्थकथनमिति यावत् । एकमात्रात्मक उसदृशोच्चारणकालिको योऽच् स ह्रस्वसंज्ञको भवति । एवं द्विमात्रात्मकोकारोच्चारणकालसदृशः कालो यस्याचः स दीर्घसंज्ञको भवति । एवं त्रिमात्रात्मकोकारोच्चारणकालसदृशो योऽच् सः प्लुतसंज्ञको भवति । स प्रत्येकमिति । सः (लब्धह्रस्वादिसंज्ञकः) ह्रस्वः, दीर्घः, प्लुतश्च अच् प्रत्येकमुदात्तादिभेदेन उदात्तत्वेन, अनुदात्तत्वेन, स्वरितत्वेन च धर्मविशेषेण त्रिधा त्रिभिः प्रकारैर्वर्तत इत्यर्थः ॥