12028: अचश्च¶
Padacheda: अचः | S | 6 | 1 |
च | S | 0 | 0 |
Sutrartha¶
ह्रस्व-दीर्घ-प्लुत-शब्देन विधीयमानम् कार्यम् अच्-वर्णस्य स्थाने एव भवति ।
इदम् अष्टाध्याय्याः विद्यमानम् एकम् परिभाषासूत्रम् । भिन्नेषु सूत्रेषु यत्र ह्रस्वः भवति, दीर्घः भवति, प्लुतः भवति — इति प्रकारेण आदेशविधानं क्रियते, परन्तु एते आदेशाः कस्य वर्णस्य विषये भवन्ति इति स्पष्टरूपेण नैव उच्यते, तत्र, एते आदेशाः अच्-वर्णस्य स्थाने भवन्ति इति प्रकृतपरिभाषया स्पष्टी क्रियते । यथासङ्ख्यम् उदाहरणानि एतानि — 1) ह्रस्वविधिः अचः स्थाने भवति **— यदि नपुंसकवाचिनः प्रातिपदिकस्य अन्तिमवर्णः दीर्घः अस्ति, तर्हि **ह्रस्वो नपुंसके प्रातिपदिकस्य (1.2.47) इति सूत्रेण ‘तस्य ह्रस्वादेशः भवति’ इति उच्यते । यथा - ‘श्रीपा’ अयं आकारान्त-नपुंसकलिङ्गी शब्दः अस्ति । अस्य शब्दस्य सुबन्तरूपसिद्धौ प्रारम्भे ह्रस्वो नपुंसके प्रातिपदिकस्य (1.2.47) इत्यनेन अस्य प्रातिपदिकस्य ह्रस्वादेशः भवति । अस्य आदेशस्य कः स्थानी — इति प्रश्ने जाते, प्रकृतसूत्रस्य आधारेण ‘अच्-वर्णस्य ह्रस्वादेशः भवति’ इति निर्णयः क्रियते । तत्रापि अलोऽन्तस्य (1.1.52) इत्यनेन अन्तिम-अच्-वर्णस्य स्थाने एव अयं ह्रस्वादेशः भवति (न अन्येषाम्) इति स्पष्टी भवति । प्रक्रिया इयम् —
श्रियं पाति तत् (कुलम्) [कृद्वृत्तिः]
→ श्रियम् + पा + विच् [**आतो मनिन्क्वनिब्वनिपश्च** (3.2.74), अथ वा **अन्येभ्योऽपि दृश्यन्ते** (3.2.75) इति विच्-प्रत्ययः]
→ श्रियम् + पा + ० [चकारस्य इत्संज्ञा, लोपः ।इकारः उच्चारणार्थः, सोऽपि लुप्यते । अपृक्तवकारस्य **वेरपृक्तस्य** (6.1.67) इति लोपः]
→ श्री + पा [**उपपदमतिङ्** (2.2.19) इति उपपदसमासः ।**सुपो धातुप्रातिपदिकयोः** (2.4.71) इति उपपदस्य विभक्तिलोपः]
→ श्रीपा + सुँ [प्रथमैकवचनस्य विवक्षायाम् सुँ-प्रत्ययः]
→ श्रीप + सुँ [**ह्रस्वो नपुंसके प्रातिपदिकस्य** (1.2.47) इत्यनेन प्रातिपदिकस्य ह्रस्वादेशः । तत्र **अचश्च** (1.2.28) इति परिभाषया 'अच्-वर्णस्य ह्रस्वादेशः भवति' — इति स्पष्टी भवति । **अलोऽन्त्यस्य** (1.1.52) इत्यनेन 'अन्तिम-वर्णस्य कार्यम् भवति' — इति स्पष्टी क्रियते । अतः अत्र 'श्रीपा'शब्दस्य अन्तिम-आकारस्य ह्रस्वादेशः (अकारः) विधीयते ।]
→ श्रीप + अम् [**अतोऽम्** (7.1.24) इति सुँ-प्रत्ययस्य अम्-आदेशः]
→ श्रीपम् [**अमि पूर्वः** (6.1.107) इति पूर्वरूपैकादेशः]
<note> ए, ऐ, ओ, औ एतेषाम् ह्रस्वादेशः कथं भवति तत् ह्रस्वो नपुंसके प्रातिपदिकस्य (1.2.47) इति सूत्रे स्पष्टीकृतम् अस्ति, तत् तत्रैव द्रष्टव्यम् ।</note> 2) दीर्घविधिः अचः स्थाने भवति ** — यञादि सार्वधातुके प्रत्यये परे अदन्तस्य अङ्गस्य **अतो दीर्घो यञि (7.3.101) अनेन सूत्रेण दीर्घादेशः विधीयते । अत्र अङ्गस्य दीर्घः इत्युक्ते कस्य दीर्घः? — अस्य प्रश्नस्य उत्तरम् प्रकृतपरिभाषया दीयते — ‘अङ्गस्य अच्-वर्णस्य दीर्घः’ इति । अतः पठ्-धातोः उत्तमपुरुषैकवचनस्य प्रक्रियायाम् ‘पठ् + अ + मि’ इत्यत्र अङ्गस्य यः (अन्तिमः) अकारः तस्य दीर्घं कृत्वा ‘पठामि’ इति रूपं सिद्ध्यति ।सम्पूर्णा प्रक्रिया इयम् —
पठँ (व्यक्तायां वाचि, (1.0371))
→ पठ् + लट् [**वर्तमाने लट्** (3.2.123)
→ पठ् + मिप् [**तिपस्झि...** (3.4.78) इति उत्तमपुरुषैकवचनस्य प्रक्रियायाम् 'मिप्' प्रत्ययः]
→ पठ् + शप् + मि [**कर्तरि शप्** (3.1.68) इति शप्-विकरणप्रत्ययः]
→ पठ् + अ + मि [इत्संज्ञालोपः]
→ पठ् + आ + मि [**अतो दीर्घो यञि** (7.3.101) इति अङ्गस्य दीर्घः । अत्र **अचश्च** (1.2.28) इति परिभाषया अङ्गस्य स्वरस्यैव दीर्घः भवति इति ज्ञाप्यते । अग्रे **अलोऽन्त्यस्य** (1.1.52) इत्यनेन 'अन्तिम-स्वरस्य' दीर्घः भवति इत्यपि स्पष्टी भवति ।
→ पठामि
3) **प्लुतविधिः अचः स्थाने भवति ** — **दूराद्धूते च** (8.2.84) इति सूत्रेण दूरात् सम्बोधनार्थम् प्रयुज्यमानस्य वाक्यस्य टिसंज्ञकस्य प्लुतादेशः विधीयते । अत्रापि 'टिसंज्ञके विद्यमानस्य कस्य वर्णस्य प्लुतः भवति' — इति प्रश्ने जाते, प्रकृतपरिभाषया 'स्वरस्य प्लुतादेशः भवति' इति स्पष्टी क्रियते ।अतएव, 'सक्तून् पिब अश्वत्थामन् !' अस्य वाक्यस्य विषये **दूराद्धूते च** (8.2.84) इति सूत्रस्य यदा प्रयोगः क्रियते, तदा अस्य वाक्यस्य टिसंज्ञकस्य ('अन्' इत्यस्य) स्वरः (अकारः) अनेन सूत्रेण प्लुतः भवति । अतएव 'सक्तून् पिब अश्वत्थाम3न्' इति प्रयोगः सिद्ध्यति ।
अस्मिन् ह्रस्व/दीर्घ/प्लुतशब्दानाम् अनुवृत्तेः प्रयोजनम्
यत्र विधिसूत्रे ‘ह्रस्वः भवति /दीर्घः भवति /प्लुतः भवति’ इति निर्देशः क्रियते, तत्रैव प्रकृतपरिभाषायाः प्रयोगः करणीयः — इति ज्ञापयितुम् अस्मिन् सूत्रे ह्रस्वादिशब्दानाम् अनुवृत्तिः कृता अस्ति । इत्युक्ते, यत्र विधिसूत्रे ह्रस्वादिशब्दान् विना केवलम् ‘अजादेशः भवति’ इति साक्षात् निर्देशः क्रियते, तत्र प्रकृतसूत्रस्य नैव प्रयोगः करणीयः अतः तत्र तादृशः आदेशः हल्-वर्णस्य स्थाने अपि सम्भवति — इत्यर्थः । यथा, दिव उत् (6.1.131) अनेन सूत्रेण ‘दिव्’ इत्यस्य स्थाने विधीयमानः उकारः अलोऽन्त्यस्य (1.1.52) इत्यनेन दिव्-शब्दस्य अन्तिमवर्णस्य (वकारस्य) स्थाने एव भवति, न हि दिव्-शब्दस्य स्वरस्य स्थाने । दिव उत् (6.1.131) इति सूत्रे ह्रस्व/दीर्घ/प्लुतशब्दः नैव प्रयुक्तः अस्ति, अतः तत्र अचश्च (1.2.28) इति परिभाषा अपि न प्रयुज्यते, इति अत्र आशयः । प्रक्रिया इयम् —
दिव् + भ्याम् [वकारान्तात् दिव्-प्रातिपदिकात् तृतीयेकवचनस्य विवक्षायाम् **स्वौजस्..** (4.1.2) इति भ्याम्-प्रत्ययः]
→ दिउ + भ्याम् [**दिव उत्** (6.1.131) इति उकारादेशः । अस्मिन् सूत्रे ह्रस्व/दीर्घ/प्लुतशब्दः नैव प्रयुक्तः, अतः अत्र **अचश्च** (1.2.28) इति परिभाषा अपि नैव प्रयोक्तव्या । ]
→ द्युभ्याम् [**इको यणचि** (6.1.77) इति यणादेशः]
Sutrartha (English)¶
Action denoted by the words ह्रस्व / दीर्घ / प्लुत happens in place of an अच् letter.
Vasu English Summary¶
The short, long and prolated, when enunciated as such, by using these terms, are to be understood to come in the place of vowels only.
Vasu English Translation¶
The short, long and prolated, when enunciated as such, by using these terms, are to be understood to come in the place of vowels only. This is a paribhasha sutra, and declares the object to which the terms ‘short, ‘long’ and ‘prolated’ are to be applied. When in this book ‘short’ ‘long’ or ‘prolated’ are taught by using the words hrasva, dirgha or pluta, they must be understood to apply to vowels. As will be found in the sutra (1.2. 47) [1] “there is the substitution of hrasva or short in the neuter gender of the crude-form.” The word ‘vowel’ must be inserted in this sutra to complete the sense. That is:- the hrasva is substituted for the final vowel of the crude-form. As रै अतिरि, नौ अतिनु, गा उपगु.
The substitution must take the place of vowel and not consonant. As सुवाग् ब्राह्मणकुलम्.
Similarly sutra (7.4.25) [2] teaches “There is the substitution of dirgha or ‘long vowel’ before all affixes beginning with the letter य्, except krit and Sarvadhatuka affixes.” Here also the word ‘vowel’ must be read into the sutra which will then be “of an inflective base ending in a vowel, the long vowel shall be the substitute &c.” As चि + यङ् + त = चीयते ‘it is collected’; श्रु + य + त = श्रूयते ‘it is heard.’ Why do we say “in the place of vowels only”? The substitution must take place in the room of a vowel and not of a consonant. As भिद् + य + ते = भिद्यते ‘it is divided,’ छिद्यते ‘it is pierced.’
So also in the case of pluta substitution. Thus rules (8.2.82) and (8.2.84) [3], declare that in calling from a distance, pluta is substituted for the टि portion of the word in the vocative. (The word टि is defined in (1.1.64)). Here also the phrase ‘of the vowel’ must be read into the sutra to complete the sense. The sutra will then read:- “Pluta is substituted in the place of the vowel of the टि &c.” Thus देवदत्त३, O Devadatta! यज्ञदत्त३ O Yajnadatta !
Why do we say “in the place of vowels only”? The substitution must be in the place of the vowel of the टि and not of the consonant. As अग्निचि३त्, सोमसु३त्. Here the syllables इत् and उत् are टि, and the vowels इ and उ have been prolated and not the consonant त्.
The substitution must be enunciated as such by using the terms, hrasva, dirgha, and pluta. Therefore it is not so here; द्यौः, पन्थाः, सः, द्युभ्याम्, द्युभिः See (1.1.4).
## Footnotes - [1] - हृस्वो नपुंसके प्रातिपदिकस्य ॥ - [2] - अकृत्सार्वधातुकयोर्दीर्घः ॥ - [3] - वाक्यस्यटेः प्लुत उदात्तः ॥ दूराद्धूतेच ॥
Bhashya¶
अचश्च किमयमलोऽन्त्यशेष आहोस्विदलोन्त्यापवादः? कथं वाऽयं तच्छेषः स्यात्, कथं वा तदपवादः? यद्येकं वाक्यं तच्चेदं च अलोन्त्यस्य विधयो भवन्त्यचो ह्रस्वदीर्घप्लुता अन्त्यस्य इति, ततोऽयं तच्छेषः। अथ नानावाक्यम्- अलोन्त्यस्य विधयो भवन्ति अचो ह्रस्वदीर्घप्लुता अन्त्यस्यानन्त्यस्य चेति, ततोऽयं तदपवादः। कश्चाऽत्र विशेषः? - ह्रस्वादिविधिरलोन्त्यस्येति चेद्वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेष्वज्ग्रहणम् - ह्रस्वादिविधिरलोन्त्यस्येति चेद्वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेष्वज्र्गहणं कर्तव्यम्। वचिपृच्छ्योर्दीर्घः अचः इति वक्तव्यम्। अनन्त्यत्वाद्धि न प्राप्नोति। शमादीनां दीर्घः अचेति वक्तव्यम्। अनन्त्यत्वाद्धि न प्राप्नोति। हनिगम्योदीर्घः अचेति वक्तव्यम्। अनन्त्यत्वाद्धि न प्राप्नोति। अस्तु तर्हि तदपवादः। - अचश्चेन्नपुंसकह्रस्वाऽकृत्सार्वधातुकनामिदीर्घेष्वनन्त्यप्रतिषेधः - अचश्चेन्नपुंसकह्रस्वाऽकृत्सार्वधातुकनामिदीर्घेष्वनन्त्यस्य प्रतिषेधो वक्तव्यः। ह्रस्वो नपुंसके प्रातिपदिकस्य (1.2.47) यथेह भवति- रै अतिरि, नौ अतिनु। एवं सुवाग्ब्राह्मणकुलम् इत्यत्रापि प्राप्नोति। अकृत्सार्वधातुकयोर्दीर्घः (7.4.25) यथेह भवति- चीयते सूयते। एवं छिद्यते भिद्यते अत्रापि प्राप्नोति। नामि (6.4.3) दीर्घो यथेह भवति- अग्नीनाम् वायूनाम्। एवं षण्णामित्यत्रापि प्राप्नोति। नैष दोषः। नोपधायाः (6.4.7) इत्येतन्नियमार्थं भविष्यति। प्रकृतस्यैष नियमः स्यात्। किं च प्रकृतम्? नामि इति। तेन भवेदिह नियमान्न स्यात् षण्णामिति। अन्यते तन्यत इत्यत्रापि प्राप्नोति। अथाप्येवं नियमः स्यात्- नोपधाया नाम्येव इति। एवमपि भवेदिह नियमान्न स्यात्- अन्यते तन्यत इति। षण्णाम् इत्यत्र प्राप्नोति। अथाप्युभयतोऽयं नियमः स्यात्- नोपधाया एव नामि, नाम्येव नोपधाया इति। एवमपि भिद्यते छिद्यते सुवाग्ब्राह्मणकुलमित्यत्रापि प्राप्नोति। एवं तर्हि ह्रस्वो दीर्घः प्लुत इति यत्र ब्रूयाद् अचः इत्येतत्तत्रोपस्थितं द्रष्टव्यम्। किं कृतं भवति? द्वितीया षष्ठी प्रादुर्भाव्यते। तत्र कामचारः- गृह्यमाणेन वाऽचं विशेषयितुमचा वा गृह्यमाणम्। यावता कामचारः, इह तावद्वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेषु गृह्यमाणेनाऽचं विशेषयिष्यामः। एतेषां दीर्घो भवति, अचेति। इहेदानीं नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेष्वचा गृह्यमाणं विशेषयिष्यामः। नपुंसकस्य ह्रस्वो भवति, अचः अजन्तस्येति। अकृत्सार्वधातुकयोर्दीर्घो भवति, अचः अजन्तस्येति। नामि दीर्घो भवति अचः अजन्तस्येति। इह कस्मान्न भवति- द्यौः पन्थाः स इति। - सञ्ञ्ज्ञया विधाने नियमः - सञ्ञ्ज्ञया ये विधीयन्ते तेषु नियमः। किं वक्तव्यमेतत्? नहि। कथमनुच्यमानं गंस्यते? अजिति हि वर्तते। तत्रैवमभिसम्बन्धः करिष्यते- अचः अज्भवति ह्रस्वो दीर्घः प्लुत इत्येवं भाव्यमान इति। अथ पूर्वस्मिन् योगेऽज्ग्रहणे सति किं प्रयोजनम्? - अज्ग्रहणं संयोगाऽच्समुदायनिवृत्त्यर्थम् - अज्ग्रहणं कियते संयोगनिवृत्त्यर्थम्, अच्समुदायनिवृत्त्यर्थं च। संयोगनिवृत्त्यर्थं तावत्- प्रतक्ष्य प्ररक्ष्य। ह्रस्वस्य पिति कृति तुक् (6.1.71) इति तुङ्मा भूदिति। अच्समुदायनिवृत्त्यर्थम्- तितउच्छत्रं तितउच्छाया। दीर्घात्पदान्ताद्वा (6.1.75,76) इति विभाषा तुङ्मा भूदिति ॥ अचश्च ॥ 28 ॥
Kashika¶
परिभाषेयं स्थानिनियमार्था। ह्रस्वदीर्घप्लुताः स्वसंज्ञया शिष्यमाणा अच एव स्थाने वेदितव्याः। वक्ष्यति — ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) — रै — अतिरि। नौ — अतिनु। गो — उपगु। अच इति किम्? सुवाग् ब्राह्मणकुलम्। अकृत्सार्वधातुकयोर्दीर्घः (७.४.२५) — चीयते। श्रूयते। अच इति किम्? भिद्यते। छिद्यते। वाक्यस्य टेः प्लुत उदात्तः (८.२.८२) — देवदत्त ३। यज्ञदत्त३। अच इति किम्? अग्निचि३त्। सोमसु३त्। तकारस्य मा भूत्। स्वसंज्ञया विधाने नियमः। अज् इति वर्तते। इह मा भूत् — द्यौः। पन्थाः। सः। द्युभ्याम्। द्युभिः। अत्र नियमो नास्ति॥
Siddhanta Kaumudi¶
ह्रस्वदीर्घप्लुतशब्दैर्यत्राज्विधीयते तत्राच इति षष्ठ्यन्तं पदमुपतिष्ठते ॥
Laghu Shabdendushekhar¶
प्लुतशब्दैरिति । ऊकाल.. (1.2.27) इति सूत्राद्ध्रस्वदीर्घप्लुत इति अजिति चानुवर्तते। ह्रस्वेत्यादिपदञ्च तृतीयया विपरिणतमिति भावः । तेन दिव उत् (6.1.131) , अष्टन आ विभक्तौ (7.2.84) इत्यादावेतदनुपस्थितिः । शेषं प्राग्वत् ।
Balamanorama¶
अचश्च - अचश्च । अच इत्यपि षष्ठन्तशब्दः स्वरूपपरः, पूर्वसूत्रे इक इतिवत् । ऊकालोऽजित्यतः ‘अच्’ ‘ह्रस्वदीर्घप्लुत’ इत्यनुवर्तते । ‘इति यत्र विधीयते’ इत्यध्याहार्यम् । फलितमाह — ह्रस्वेत्यादिना । ‘दिव उत्’ इत्यादौ तु नेदं प्रवर्तते, ह्रस्वादिशब्दानामश्रवणात् ।ह्रस्वो नपुंसके प्रातिपादिकस्ये॑त्याद्युदाहरणम् । श्रीपम् । नेह — सुपात् ब्राआहृणकुलम् ।
Tattvabodhini¶
अचश्च - अतश्च । ह्रस्वदीर्घेत्यादि । एतच्चऊकालोऽज्झ्रस्वदीर्घप्लुतः॑ इति सूत्रादझ्यस्वदीर्घप्लुत इत्यनुवर्त्त्यह्रस्वो दीर्घः प्लुत इति योऽ॑जिति योजनया लभ्यते । ह्रस्वेत्यादि किम् ,दिव उत् द्युभ्याम् ।अष्टन आ विभक्तौ॑ अष्टौ ।अष्टाभ्य औ॑शित्यत्र कृतात्त्वनिर्देशाज्ज्ञापकाज्जश्शसोर्विषये प्रवर्तमानस्यअष्टन॑ इत्यात्त्वस्याऽच्स्थानिकत्वे सति नैतत्सिद्धयेदिति दिक् । षष्ठन्तं पदमिति । तच्च सति संभवे सामानाधिकरण्येनैव संबध्यते न वैयधिकरण्येन । तेनह्रस्वो नपुंसके॑ इत्यजन्तप्रातिपदिकस्यैव ह्रस्वः । श्रीपम् । नेह सुवाग्रब्राआहृणकुलम् ।शमामष्टानां दीर्घः-॑ इत्यत्र तु सामानाधिकरण्याऽसंभवत्-शमादीनामच॑ इति संबध्यते , तेनशाम्यती॑त्यादि सिद्धम् ।वाक्यस्य टेः प्लुतः-॑ इत्यत्र सामानाधिकरण्यसंभवेऽपि टेग्र्रहणसामर्थ्याट्टरेवयवस्याचः प्लुत इति व्याख्यायते । अन्यथाअलोऽन्त्यस्य॑अतश्चे॑ति परिभाषाभ्यामेहि कृष्णेत्यादिवाक्यान्त्यस्याऽचः प्लुतसिद्धौ किमनेन टेग्र्रहणेन । तेनआयुष्मानेधीन्द्रवर्मन् इत्यादि सिध्यतीति दिक् ।
Padamanjari¶
ऽइको गुणवृद्धीऽ इत्यनेन समानमिदम् । स्वसंज्ञया विधाने नियमार्थमित्यत्र युक्तिमाह-अजिति वर्तत इति । ततश्च ह्रस्वादिशब्दा इहानुवृता नाचमुपस्थापर्यान्त, तस्य स्वयमुपस्थानादिति स्वरूपपदार्थका आश्रीयन्ते । तेन ह्रस्व इत्येवं योऽज्विधीयते सोऽचः स्थाने भवतीत्ययमर्थः सम्पद्यते । एवं दीर्घप्लुतयोः । द्यौरित्यादि । ऽदिव औत्ऽ ऽपथिमथ्यृभुक्षामात्ऽ,ऽत्यदादीनामःऽ,ऽदिव उत्ऽ इति औकारादयो न संज्ञया विधीयन्ते इति हल एव स्थाने भवन्ति ॥
Nyaas¶
परिभाषेयं लिङ्गवती स्थानिनियमार्था प्रदेशेषु ह्रस्वो नपुंसके प्रातिपदिकस्य (1.2.47) इत्येवमादिषूपतिष्ठते;तदुपस्थाने च षष्ठीद्वयं प्रादुर्भवति; विशेषणविशेष्यभावं प्रति कामचारात्। ह्रस्वो नपुंसके प्रातिपदिकस्य (1.2.47) इत्यत्राचा प्रातिपदिकं गृह्रमाणं विशिष्यते - अजन्तस्य प्रातिपदिकस्येति, न तु प्रातिपदिकेना-ज्विशिष्यते। यदि हि प्रातिपदिकेनाज्विशिष्येत - प्रातिपदिकस्य योऽजिति, तदा मध्यस्थितस्याप्यचो ह्रस्वः स्यात्। सुवाग् ब्राआहृणकुलम् इति। अचा तु प्रातिपदिके विशिष्यमाणे प्रातिपदिकस्यैवेत्येषा स्थानषष्ठी भवति, न चावयवषष्ठी, तेनालोऽन्त्यस्यैवाचो ह्रस्वो भवति। वाक्यस्य टेः प्लुत उदात्तः (8.2.82) इत्यत्र गृह्रमाणेन टिशब्देनाज्विशिष्यते - टेर्योऽजिति। तेन टेर्मध्यवर्तिनोऽप्यचः प्लुतो भवति। यदि त्वचा टिर्विशिष्यते - अजन्तस्य टेरिति, तदेहैव स्यात् - देवदत्ता3 इति; इह तु न स्यात् - अग्निचिदिति। चकारेणाजित्यनुकृष्यते, त्सय प्रयोजनमिहैव वक्ष्यति। अतिरि- इत्यादीन्युदाहरणानि एच इग्घ्रस्वादेशे (1.1.48) इत्यत्र व्युत्पादितानि। चीयते इति कर्मणि लकारः।संज्ञाविधाने नियमः इत्यत्र युक्तिमाह - अजिति वर्तते इति। अज्ग्रहणे ह्रनुवर्तमाने ह्रस्वादिशब्दा अनुवर्तमाना अच एवोपस्थानं प्रति व्याप्रियन्ते;तस्य स्वयमेवोपस्थितत्वात्। ततश्च स्वरूपमात्रपदार्थकाः सन्तो विधीयमानस्याचो विशेषणतामुपयान्ति। तत्रैवमभिसम्बन्धः क्रियते - अः स्थानेऽज् भवति ह्रस्वदीर्घप्लुतः इत्येवं संज्ञया विधीयमान इति। `द्यौः, पन्थाः, सः इति। एतानि इको गुणवृद्धी (1.1.3) इत्यत्र व्युत्पादितानि। एषु च यथायोगं दिव औत् (7.1.84) पथिमथ्यृभुक्षामात् (7.1.85) त्यदादीनामः (7.2.102) इत्येभिरौकारादयः स्वरूपेण विधीयमाना दीर्घादिसंज्ञया न विधीयन्त इति हल एव स्थाने ते भवन्ति, नाचः। द्युभ्याम्, द्युभिरित्यत्रापि दिव उत् इत्युकारो ह्रस्वसंज्ञया न विधीयत इति हल एव स्थाने भवति, नाचः। ननु च द्यौरित्यादीनि त्रीण्युदाहरणानि `इको गुणवृद्धि (1.1.3) इत्यनेनैवसंज्ञाविधाननियमेन सिद्धानि, तत्र हि तस्याप्येतानि प्रत्युदाहरणानि प्रागुपन्यस्तानि, तस्मान्नार्थ एतदर्थेन संज्ञया विधीयमानेन नियमेन? सत्यमेतत्; एवं मन्यते - द्युभ्याम्, द्युभिरित्येवमर्थं संज्ञाविधाने नियमः कर्तव्यः; न ह्रुकारस्य गुणसंज्ञास्ति, नापि वृद्धिसंज्ञा; यतः पूर्वेणैव संज्ञाविधाननियमेनैतदपि सिद्ध्यति। तस्मादन्यार्थोऽयं संज्ञाविधाननियमः क्रियमाणो येऽपि विस्मरणशीलाः पूर्वस्य नियमस्य प्रयोजनं न स्मरन्ति ताननुग्रहीतुम् - द्यौः, पन्था-, स इत्येवमर्थोऽपि भवति॥
Prakriyasarvasvam¶
ह्रस्वदीर्घप्लुता विधीयमाना अचः स्थान एव स्युः ।