12038: देवब्रह्मणोरनुदात्तः

Padacheda: देव-ब्रह्मणोः | S | 7 | 2 |

अनुदात्तः | S | 1 | 1 |

Sutrartha


Vasu English Summary

The words देवा and ब्राह्मण in those hymns have अनुदात्त accent.

Vasu English Translation

The words देवा and ब्राह्मण in those hymns have अनुदात्त accent. By sutra (1.2.37), it was declared, that in subrahmanya hymns, svarita accent is replaced by udatta accent. This sutra makes an exception in favour of the words देव and ब्राह्मण occurring in those hymns. These words have anudatta accent. As देवा॒ ब्रह्मा॒ण आग॒च्छत ‘come ye Devas and Brahmanas.’ Here the word देवा gets udatta accent on the first syllable by rule (6.1.198) [1]. (in the vocative the accent is on the beginning): at वा va has originally an anudatta accent which by rule (8.4.66) [2] (an anudatta following an udatta is changed into svarita) would have been changed into svarita. This svarita, by the previous sutra required to be changed into udatta; but by this rule, it is replaced by anudatta. In other words, the original anudatta remains unchanged.

## Footnotes - [1] - आमन्त्रितस्य च ॥ - [2] - उदात्तादनुदात्तस्य स्वरितः ॥

Bhashya

देवब्रह्मणोरनुदात्तः - देवब्रह्मणोरनुदात्तत्वमेके - देवब्रह्मणोरनुदात्तत्वमेक इच्छन्ति। देवा ब्रह्माणः, देवा ब्रह्माणः ॥ देवब्रह्मणोरनुदात्तः ॥ 38 ॥

Kashika

सुब्रह्मण्यायामेव देवा ब्रह्माण इति पठ्यते, तत्र पूर्वेण स्वरितस्योदात्ते प्राप्तेऽनेनानुदात्तो विधीयते। देवब्रह्मणोः स्वरितस्यानुदात्त आदेशो भवति। दे॒वा ब्र॒ह्माण आ॒गच्छत (श०ब्रा० ३.३.४.२०)। द्वयोरपि पदयोरामन्त्रिताद्युदात्तत्वे शेषनिघाते चोदात्तादनुदात्तस्य स्वरितः कृतस्तस्यानुदात्तो भवति॥

Siddhanta Kaumudi

अनयोः स्वरितस्यानुदात्तः स्यात्सुब्रह्मण्यायाम् । देवाब्रह्माण आगच्छत ॥

Padamanjari

स्वरितस्योदाते प्राप्ते इति । कथं प्राप्तः, यावताऽसिद्धः स्वरितः ? एवं तर्ह्येतज्ज्ञापयत्याचार्यः-ऽतस्यादितःऽ इत्यारभ्य नबसूत्री ऽउदातादनुदातस्य स्वरितःऽ त्यिस्मात्परा द्रष्टव्येति । उक्तानि प्रयोजनानि, उतरत्र च वक्ष्यामः । सामान्यापेक्षत्वाज्ज्ञापकस्य नवसूत्र्यप्युत्कृष्यते, न सुब्रह्मण्यास्वर एव । द्वयोरपि पदयोरिति । द्वितीयस्य पदत्परस्यापि निघातो न भवति; ऽ आमन्त्रितं पूर्वमविद्यमानवद्ऽ इति पूर्वस्याविद्यमान्त्वात् । प्रथमस्यापि न भवति; भिन्नवाक्यत्वात् ॥

Nyaas

द्वयोरपि पदयोरामन्त्रिताद्युदात्तत्वे कृते इति। विभाषितं विशेषितं विशेषवचने बहुवचनम् (8.1.74) इति पूर्वस्याविद्यामानत्वात् आमन्त्रितस्य च (8.1.19) इति पदात् परस्यापि निघातो न भवति। तेन द्वयोरपि पृथगेव षाष्ठिकमाद्युदात्तत्वं भवति। शेषनिघातः इति। अनुदात्तं पदमेकवर्जम् (6.1.158) इत्यनेन।

Prakriyasarvasvam

मन्त्रे देवब्रह्मणोः स्वरस्यानुच्चः स्यात् । देवा ब्रह्माणः । द्वयोरामन्त्रिय- योराद्यु*