12024: वञ्चिलुञ्च्यृतश्च¶
Padacheda: वञ्चि-लुञ्चि-ऋतः | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The सेट् क्त्वा is optionally कित् after the verbs वञ्च् ‘to cheat’, लुञ्च् ‘to pluck’ and ऋत् ‘to dare or abhor’.
Vasu English Translation¶
The सेट् क्त्वा is optionally कित् after the verbs वञ्च् ‘to cheat’, लुञ्च् ‘to pluck’ and ऋत् ‘to dare or abhor’. After the above three verbs, the ktva affix being set, may or may not be kit. As वचित्वा or वंचित्वा ‘having cheated.’ So also लुचित्वा or लुंचित्वा ‘having plucked’, ऋतित्वा or अर्तित्वा ‘having dared.’
When the verb ऋत् rit takes the affix ईयङ् it is not governed by this sutra. See sutra (3.1.29). 1.2.25.md When the ktva is not set, but anit, then there is no option allowed. As वच् + क्त्वा = वक्त्वा.
Kashika¶
वञ्चि लुञ्चि ऋत् इत्येतेभ्यः परः क्त्वाप्रत्ययः सेड् वा न किद् भवति। वचित्वा, वञ्चित्वा। लुचित्वा, लुञ्चित्वा। ऋतित्वा, अर्तित्वा। ऋतेरीयङ् (३.१.२९) आर्धधातुके विकल्पितः। स यत्र पक्षे नास्ति तत्रेदम् उदाहरणम्। सेड् इत्येव — वक्त्वा॥
Siddhanta Kaumudi¶
सेट् क्त्वा किद्वा । वचित्वा । वञ्चित्वा । लुचित्वा । लुञ्चित्वा । ऋतित्वा । अर्तित्वा ॥
Tattvabodhini¶
वञ्चिलुञ्च्यृतश्च - वचित्वेति । वञ्चु प्रलम्भने । लुचित्वेति । लुञ्च अपनयने । ऋतित्वेति । ऋतिः सौत्रो दातुर्घृणार्थकः, तस्याद्र्धधातुकविषयेऋतेरीय॑ङित्यस्य वैकल्पिकत्वात्तदभाव कित्तवमनेन विकल्प्यते ।
Padamanjari¶
ऽवञ्चु गतौऽ भौवादिः, ऽवञ्चु प्रलम्भनेऽ चुरादिः,सोऽपि गृह्यते, ऽअनित्यण्यन्ताश्चुरादयःऽ इति । ऽलुञ्च अपनयनेऽ, ऋतिः सौत्रो धातुः ऽऋतेरीयङ्ऽइति, स च घृणायां वर्तते ॥
Nyaas¶
वन्चु प्रलम्भने (धातुपाठः-1703), लुन्च अपनयने (धातुपाठः-187), ऋत इति सौत्रौ धातुः, यत्र ऋतेरीयङ (3.1.29) इतीयङ विहितः। ऋतेरीयङ आर्धधातुके विकल्प्यते` इति। आदाय आर्धधातुके वा (3.1.31) इत्यनेन। वचित्वा इति। अनिदिताम्। (6.4.24) इति नलोपः। `वक्तवा इति। उदितो वा (7.2.56) इतीडभावः पक्षे। चकारो वाग्रहणस्य स्वरितत्वविस्पष्टीकरणार्थः। तेनोत्तरसूत्रे काश्यपग्रहणस्य पूजार्थता; अन्यथा हि तस्यविकल्पार्थता विज्ञायेत। तथा च द्वयोर्विभाषयोर्मध्यवर्त्तित्वान्नित्योऽयं विधिः स्यात।
Prakriyasarvasvam¶
एभ्यः सेट् क्त्वा वा न कित् स्यात् । वचित्वा वञ्चित्वा । ‘लुञ्च अपनयने’ । लुचित्वा लुञ्चित्वा । ऋतिः सौत्रो दयाजुगुप्सागतिषु । ऋतित्वा अर्तित्वा ॥