12039: स्वरितात् संहितायामनुदात्तानाम्¶
Padacheda: स्वरितात् | S | 5 | 1 |
संहितायाम् | S | 7 | 1 |
अनुदात्तानाम् | S | 6 | 3 |
Sutrartha¶
Vasu English Summary¶
The Monotony takes the place of the अनुदात्त vowels which follow the स्वरित vowels, in close proximity (संहिता).
Vasu English Translation¶
The Monotony takes the place of the अनुदात्त vowels which follow the स्वरित vowels, in close proximity (संहिता). Sanhita is the joining of two or more words in a sentence, for the purposes of reading or reciting. When words are thus glued together, then the anudatta accents become Ekasruti if they are preceded by svarita vowels; and are pronounced monotonously. As इमं मे॑ गङ्गे यमुने सरस्वती (Rig Veda X. 75.5) O Ganga, Yamuna, Sarasvsti ! this mine.
Here the word इमं has udatta on the last syallable: the word मे is originally anudatta, but by rule (8.4.66) [1] following an udatta, it is changed into svarita; after this svarita all anudatta like गङ्गे, &c., are replaced by ekasruti. All the vowels of the words गङ्गे, यमुने &c, had anudatta accent by rule (8.1.19) [2] (all vocatives get anudatta if standing in the middle of a sentence and not beginning a stanza.)
The word “sanhita” has been used in the sutra to show that when there is a hiatus between the words then there is no change of anudatta into ekasruti. The word sanhita will be defined in sutra (1.4.109) [3].
## Footnotes - [1] - उदात्तादनुदात्तस्य स्वरितः - [2] - आमन्त्रितस्य च ॥ - [3] - परः संनिकर्षः संहिता ॥
Bhashya¶
स्वरितात्संहितायामनुदात्तानाम् ॥ द्व्येकयोरप्येकश्रुतिसाधनाधिकरणम् ॥ - स्वरितात्संहितायामनुदात्तानामिति चेद् द्व्येकयोरैकश्रुत्यवचनम् - स्वरितात्संहितायामनुदात्तानामिति चेद् द्व्येकयोरैकश्रुत्यं वक्तव्यम्। आग्निवेश्यः पचतीति। किं पुनः कारणं न सिध्यति? बहुवचननिर्देशात्। बहुवचनेनायं निर्देशः क्रियते, तेन बहूनामेवैकश्रुत्यं स्याद् द्व्येकयोर्न स्यात्। नैष दोषः। नात्र बहुवचनेन निर्देशस्तन्त्रम्। कथं पुनस्तेनैव च नाम निर्देशः क्रियते, तच्चातन्त्रं स्यात्? तत्कारी च भवांस्तद्द्वेषी च। नान्तरीयकत्वादत्रबहुवचनेन निर्देशः क्रियते- अवश्यं कयाचिद्विभक्त्या केनचिद्वचनेन निर्देशः कर्तव्य इति। तद्यथा- कश्चिदन्नार्थी शालिकलापं सपलालं सतुषमाहरति नान्तरीयकत्वात्। स यावदादेयं तावदादाय तुषपलालान्युत्सृजति। तथा कश्चिन्मांसार्थी मत्स्यान् सकण्टकान् सशकलानाहरति नान्तरीयकत्वात्। स यावदादेयं तावदादाय शकलकण्टकान्युत्सृजति। एवमिहापि नान्तरीयकत्वाद् बहुवचननिर्देशः क्रियते। अविशेषेणैकश्रुत्यं भवति। - अविशेषेणैकश्रुत्यमिति चेद्व्यवहितानामप्रसिद्धिः - अविशेषेणैकश्रुत्यमिति चेद्वयवहितानामैकश्रुत्यं न प्राप्नोति- इमं मे गङ्गे यमुने सरस्वति शुतुद्रि। - अनेकमपीति तु वचनात्सिद्धम् - अनेकमप्येकमपि स्वरितात्परं संहितायामेकश्रुति भवतीति वक्तव्यम्। सिध्यति। सूत्रं तर्हि भिद्यते। यथान्यासमेवास्तु। ननु चोक्तम्- स्वरितात्संहितायामनुदात्तानामिति चेद् द्व्येकयोरैकश्रुत्यवचनम्, अविशेषेणेति चेद्व्यवहितानामप्रसिद्धिः इति। नैष दोषः। कथम्? एकशेषनिर्देशोऽयम्। अनुदात्तस्य चानुदात्तयोश्चानुदात्तानां चानुदात्तानामिति। एवमपि षट्प्रभृतीनामेव प्राप्नोति। षट्प्रभृतिषु ह्येकशेषः परिसमाप्यते। प्रत्येकं वाक्यपरिसमाप्तिर्दृष्टेति द्व्येकयोरपि भविष्यति ॥ स्वरितात्संहितायामनुदात्तानाम् ॥ 39 ॥
Kashika¶
एकश्रुतिरिति वर्तते। संहितायां विषये स्वरितात् परेषामनुदात्तानामेकश्रुतिर्भवति। इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि (ऋ० १०.७५.५)। माण॑वक जटिलकाध्यापक॒ क्व॑ गमिष्यसि। इममित्यन्तोदात्तम्, मे इत्यनुदात्तम्, विधिकाल एव निघातविधानात्। तत्पुनर् उदात्तादनुदात्तस्य स्वरितः (८.४.६६) इति स्वरितं संपद्यते। तस्मात् स्वरितात् परेषामनुदात्तानां गङ्गेप्रभृतीनामेकश्रुतिर्भवति। सर्व एत आमन्त्रितनिघातेनानुदात्ताः। माणवक जटिलकेति प्रथममामन्त्रितमाद्युदात्तं तस्य द्वितीयमक्षरं स्वरितम्, ततः परेषामनुदात्तानामेकश्रुतिर्भवति। संहिताग्रहणं किम्? अवग्रहे मा भूत् — इ॒मं। मे॒। ग॒ङ्गे॒। य॒मु॒ने॒। स॒र॒स्व॒ति॒ (ऋ० १०.७५.५)।
Siddhanta Kaumudi¶
स्वरितात्परेषामनुदात्तानां संहितायामेकश्रुति स्यात् । इमं मे गङ्गे यमुने सरस्वति (इ॒मं मे॑ गङ्गे यमुने सरस्वति) ॥
Tattvabodhini¶
स्वरितात् संहितायामनुदात्तानाम् - नपुंसकमन । अन्यतरस्याङ्ग्रहणम्एकवच्चे॑त्यनेनैवानन्तर्यात्संबन्ध्यते, न त्वेकशेषेणेत्याशयेनाह — क्लीबं शिष्यते तच्च वा एकवदिति । अनपुंसकेनेति किम् । शुक्लं च शुक्लं च शुक्ले । अत्रएकवच्चे॑ति न भवति ।अस्य॑ग्रहणम्अस्यैवैकशेषस्य एकवद्भावो यथा विज्ञायेते॑त्येवमर्थम् । अन्यथा उत्तरत्राप्येकवदित्यस्यानुवृत्तिः शङ्क्येत । शुक्लः पट इत्यादि ।शुक्लः शुक्ला शुक्ल॑मित्येव विग्रहः,पटः पटी॑त्यादिप्रदर्शनं तु शुक्ल शब्दस्य गुणुलिङ्गत्वस्फोरणाय ।
Nyaas¶
अनुदात्तानाम् इति जातौ बहुवचनम्। तेन द्वयोरपि भवति। इममित्यन्तोदात्तम् इति। इदंशब्दस्य कमिप्रत्ययान्तत्वात् प्रत्ययस्वरेणान्तोदात्त्त्वम्, तस्य त्यदात्यत्वे अतो गुणे (6.1.97) पररूपत्वे तस्याप्येकादेश (8.2.5) उदात्तेनोदात्तत्वात्। विधिकल एव इति। तेमयावेकवचनस्य (8.1.22) इति विधिकाल एव निघातविधानात्। सर्व एत आमन्त्रितनिघातेनानुदात्ताः इति। यद्यपि ``आमन्त्रितं पूर्वमविद्यमानवत्` (8.1.72) इति, तथापि मेशब्दापेक्षया सर्वेषां निघातापत्तेः। प्रथमामन्त्रितमाद्युदात्तम् इति। आमन्त्रितस्य च (8.1.19) इति षाष्ठिकेन। तस्य द्वितीयमक्षरं स्वरितम् इति। उदात्तादनुदात्तस्य स्वरितः (8.4.66) इति। ततः परेषामनुदात्तानाम् इति। नामन्त्रिते समानाधिकरणे सामान्यवचनम् (8.1.73) इत्यविद्यमानत्वस्य प्रतिषेधे सति माणवकात् परयोः आमन्त्रितस्य च (8.1.19) इति निघातविधानात् परेऽनुदात्ताः। अवग्रहे मा भूत इति। अवग्रहः = असंहितापाठः। ननु च स्वरितादिति पञ्चमी, तेन तस्मादित्युत्तरस्य (1.1.67) इत्यत्र निर्दिष्टग्रहणस्यानन्तरर्यार्थकत्वादवग्रहे प्राप्तिरेव नास्ति, यथैव हि वर्णो व्यवधायकस्तथा कालोऽपि, तत् किं संहिताग्रहणम्? पञ्चमीनिर्देशकालो न व्यवधायक इति ज्ञापनार्थम्। तेन तिङङतिङः (8.1.28) इत्यत्रावग्रहेऽतिङन्तात् परं तिङन्तं निहन्यते॥