12033: एकश्रुति दूरात् सम्बुद्धौ

Padacheda: एकश्रुति | S | 1 | 1 |

दूरात् | S | 5 | 1 |

सम्बुद्धौ | S | 7 | 1 |

Sutrartha


Vasu English Summary

In addressing a person from a distance the tone is called एकश्रुति or monotony.

Vasu English Translation

In addressing a person from a distance the tone is called एकश्रुति or monotony. Monotony or Ekasruti is that tone which is perceived when a person is addressed; in it there is an absence of all the three tones mentioned above; and there is no definite pitch in it. It is, therefore, the ordinary recitative tone.

The word ‘Sambuddhi’ means here addressing a person from a distance; and has not its technical meaning of the singular number of the vocative case. As आगच्छ भो माणवक देवदत्ता३ ‘O boy Devadatta! come.’ There is vanishing of all the accents in the above case; and the final short vowel of Devadatta is changed into pluta by the rule already referred to in sutra (1.2.28) ante ((8.2.84) दूराद्धूतेच) ॥

If the person is not addressed from a distance, then the word will get its proper accent. As आगच्छ भो माणवक देवदत्त ‘come, O boy Devadatta.’

Bhashya

एकश्रुति दूरात्सम्बुद्धौ किमिदं परिभाषिक्याः सम्बुद्धेर्ग्रहणम् एकवचनं सम्बुद्धिः (2.4.49) इति, आहोस्विदन्वर्थग्रहणम्- सम्बोधनं सम्बुद्धिरिति? किं चातः? यदि पारिभाषिक्याः सम्बुद्धेर्ग्रहणं देवा ब्रह्माणः अत्र न प्राप्नोति। अथान्वर्थग्रहणम्, न दोषो भवति। यथा न दोषस्तथास्तु। किं पुनरियमेकश्रुतिरुदात्ता, आहोस्विदनुदात्ता? नोदात्ता। कथं ज्ञायते? यदयमुच्चैस्तरां वा वषट्कारः (1.2.35) इत्याह। कथं कृत्वा ज्ञापकम्? अतन्त्रं तरनिर्देशः। यावदुच्चैस्तावदुच्चैस्तरामिति। यदि तर्हि नोदात्ता, अनुदात्ता। अनुदात्ता च न। कथं ज्ञायते? यदयम्- उदात्तस्वरितपरस्य सन्नतरः (1.2.40) इत्याह। कथं कृत्वा ज्ञापकम्?। अतन्त्रं तरनिर्देशः। यावत्सन्नस्तावत्सन्नतर इति। सैषा ज्ञापकाभ्यामुदात्तानुदात्तयोर्मध्यमेकश्रुतिरन्तरालं ह्रियते। अपर आह- किमियमेकश्रुतिरुदात्ता, आहोस्विदनुदात्ता? उदात्ता। कथं ज्ञायते? यदयमुच्चैस्तरां वा वषट्कारः इत्याह। कथं कृत्वा ज्ञापकम्? तन्त्रं तरनिर्देशः। उच्चैर्द्दष्ट्वा उच्चैस्तरामित्येतद्भवति। यदि तर्ह्युदात्ता नानुदात्ता। अनुदात्ता च। कथं ज्ञायते?। यदमुदात्तस्वरितपरस्य सन्नतरः इत्याह। कथं कृत्वा ज्ञापकम्? तन्त्रं तरनिर्देशः। सन्नं दृष्ट्वा सन्नतर इत्येतद्भवति। त एते तन्त्रे तरनिर्देशे सप्त स्वरा भवन्ति- उदात्तः, उदात्ततरः, अनुदात्तः, अनुदात्तरः, स्वरिते य उदात्तः सोऽन्येन विशिष्टः, एकश्रुतिः सप्तमः ॥ एकश्रुति दूरात्सम्बुद्धौ ॥ 33 ॥

Kashika

त्रैस्वर्ये पदानां प्राप्ते दूरात् संबुद्धावैकश्रुत्यं विधीयते। एका श्रुतिर्यस्य तदिदमेकश्रुति। एकश्रुति वाक्यं भवति। दूरात् संबोधयति येन वाक्येन तत् संबोधनं संबुद्घिः,न एकवचनं संबुद्धिः (२.३.४९)। स्वराणामुदात्तादीनामविभागो भेदतिरोधानमेकश्रुतिः। आगच्छ भो माणवक देवदत्त३। दूराद् इति किम्? आग॑च्छ॒ भो मा॑णवक देवद॒त्त३॥

Siddhanta Kaumudi

दूरात्संबोधने वाक्यमेकश्रुतिः स्यात् । त्रैस्वर्यापवादः । आगच्छ भो माणवक ॥

Padamanjari

इह यद्यप्यामन्त्रितान्तस्य पदस्याप्यभिमुखीकरणं प्रति सामर्थ्यम्, तथापि ह्यर्थविशेषस्य कस्यचिदनुष्ठेयतया । संबोधनाउसंबुद्धिः, अन्तर्भावितण्यर्थो बुद्धिः, तथा च संबोधयति येनेति णिच् प्रयुक्तः, तत्र च वाक्यस्यैव करणभावो न पदस्येति मत्वाह - एकश्रुति वाक्यं भवतीति । कतरत्पुनस्तदित्यत आह - दूरादिति संबोधनं संबुद्धिरिति । अनेनान्वर्थस्य संबुद्धिशब्दग्रहणं न पारिभाषिकस्येति दर्शयति । पारिभाषिकस्य हि ग्रहणे, देवा ब्राह्मणा इत्यत्र न स्यात् । अन्वर्थग्रहणं च दूरादित्यनेन सम्बन्धाल्लभ्यते, न ह्यामन्त्रितैकवचनस्य दूरत्वमदूरत्वं वा सम्भवति । संबोधनस्य तु क्रियारूपत्वाद् अपादानतया दूरादिति विशेषणसम्भवात् । दूरत्वं च न देशस्वरूपागतमाश्रीयते, अनवस्थितत्वात्; किन्तु सम्बोधनक्रियापेक्षया दूरत्वम् । यावति देशे प्राकृतप्रयत्नोच्चारितं सम्बोध्यमानेन न श्रूयते, किन्त्वधिकं प्रयत्नमपेक्ष्यते, तत्संबुद्धौ दूरं भवति । स्वराणामित्यादि । एकश्रुतिउस्वरूपाख्यानम्, भेदीतरोधानमित्यनन्तरोक्तस्यैव विवरणम् । आगच्छत्यादि । दूराद्धूते वाक्यस्य टेः प्लुतः उदातः, परिशिष्टमेकश्रुति । ननु च प्लुतैकश्रुत्योर्द्वयोरपि दूरात्संबोधनं द्योत्यमिति फलैक्याद्विकल्पो युक्तः, कथं समावेशः ? उच्यते, वाक्यमेव प्रतिपादकत्वात् संबुद्धौ करणं प्लुतैकश्रुतीत्यस्यैव संस्कारमात्रम्, यथा-विषयग्रहणे चक्षुष उन्मीलनादि, तत्कुतः समानफलत्वमिति वाक्यापेक्षया च समावेशः । अन्त्याजपेक्षया तु बाध्यबाधकभाव एव । प्रत्युदाहरथणे त्रैस्वर्यमेव भवति । तत्राङ् ऽउपसर्गाश्चाभिवर्जम्ऽ इत्याद्यौदातः । गच्छेति तिङ्न्तस्यऽतिङ्ङतिङःऽ इति निघातः । भोःशब्दः ऽनिपाता आद्यौदाताःऽ इति आद्यौदातः, शेषयोरामन्त्रितनिघातः ॥

Nyaas

एकश्रुति वाक्यं भवति इति। वाक्यग्रहणेन पदपदैकदेशयोर्निरासं करोति; तयोःसम्बोधनं प्रत्यसामर्थ्यात्। वाक्यस्य सम्बुद्धौ कर्तव्यायां करणभावोपगमादस्ति सामर्थ्यम्। ततस्तस्यैकश्रुत्यं विधीयते। कुतः पुनस्तद्वाक्यमित्याह - दूरात् सम्बोधयति येन इति। एतेन सम्बुदिंध प्रति वाक्यस्य करणभावो दर्शितो भवति। दूरादिति - दूरान्तिकार्थेभ्यो द्वितीया च (2.3.35) इति पञ्चमी। सम्बोधनं सम्बुद्धिः इत्यादिना सम्बुद्धिरित्कयन्वर्थग्रहणम्, न पारिभाषिकं सम्बुद्धिग्रहणमिति दर्शयति। यदि पारिभाषिक्याः सम्बुद्धेग्र्रहणं स्यात् तदा देवा {ब्राआहृणाः इति पदंजरीपाठः} ब्राहृआणःट इत्यत्रैकश्रुत्यं न स्यात्; पारिभाषिक्याः सम्बुद्धेरसत्त्वात्। अन्वर्थग्रहणे तु भवति; सम्बोधनलक्षणक्रियारूपायाः सम्बुद्धेरिहापि विद्यमानत्वादिति भावः। कुतः पुनरेतदन्वर्थग्रहणं व्यवसितम्? दूरग्रहणात्। अन्वर्थग्रहणे दूरादित्यनेन सम्बुद्धिरुत्पद्यते। `{पंक्तिरियं नास्ति-काशिका} दूरात् सम्बोधने कर्तव्ये इति। तेनार्थवद्भवति दूरशब्दस्यपादानम्। पारिभाषिक्यास्तु ग्रहणे तदसम्बद्धमेव स्यात्। न ह्रामन्त्रितविभ्कतेर्दूरत्वमस्ति। दूरत्वञ्च यद्यप्यनवस्थितम्, तथापि यत्र प्राकृतप्रयत्नसंस्थापितं वचनं न श्रूयते, तदिह दूरं वेदितव्यम्। स्वराणाम् इत्यादि। {पंक्तिरियं नास्ति-काशिका}एकश्रुतिस्वरूपाख्यानमविभागः भेदतिरोधानमित्यनन्तरं विवरणम्। उदात्तादिस्वरविशेषानुपलब्धिरकारादिवर्णमात्रावबोध एकश्रुतिरित्युक्तं भवति। आगच्छ भो माणवक देवदत्ता3 इति। दूराद्धूते च (8.2.84) इत्यत्रैवार्थे प्लुतः, स चोदात्तः; वाक्यस्य टेः प्लुतः उदात्तः (8.2.82) इत्यधिकारात्। तस्यैकश्रुत्योदात्तस्य समावेश इष्यते, प्लुतनिवृत्त्यर्थम्। यथा चासौ लभ्यते तथा वक्ष्यति। प्रत्युदाहरणे त्रैस्वर्यमेव भवतीति तत्र आकारः निपाता आद्युदात्ताः (फि।सू।4।80) उपसर्गाश्चाभिवर्जम् (फि।सू।4।81) इत्युदात्तः। गच्छेत्यस्य तिङङतिङः (8.1.28) इतिनिघातः। भो इति निपाता आद्युदात्ताः इत्युदात्तः। माणवक - देवदत्तशब्दयोः आमन्त्रतस्य च (8.1.19) इत निघातः।

Prakriyasarvasvam

दूरात्संबोधनार्थं वाक्यं प्रचयरूपं स्यात् । वाक्यस्य सुप्तिङन्तात्मकत्वात् स्वरत्रये प्राप्त उक्तिः । एहि कृष्ण । अत्रान्त्यवर्जितानामचामेकस्वरत्वम् । अन्त्याचस्तु—‘दूराद्धूते च’ (८-२-८४) इति प्लुते ‘वाक्यस्य टेः प्लुत उदात्तः’ (८-२-८२) इति प्लुतस्योच्चत्वम् । एहिकृष्णा३ । एवं ‘प्रत्यभिवादेऽशूद्रे’ (८-२-८३) इत्यादि प्लुतस्याप्युच्चत्वम् । आयुष्मान् भव(ता?) नारायणा अ ।