12031: समाहारः स्वरितः¶
Padacheda: समाहारः | S | 1 | 1 |
स्वरितः | S | 1 | 1 |
Sutrartha¶
यस्य स्वरस्य उच्चारणम् तस्य उच्चारणस्थानस्य उर्ध्वभागम् अधोभागम् च प्रयुज्य भवति, तस्य ‘स्वरित:’ इति संज्ञा भवति ।
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमाः सन्ति ‘उदात्तः, अनुदात्तः, स्वरितः’ इति तिस्रः संज्ञाः । स्वराणां बाह्यप्रयत्नस्य निर्देशः एताभिः तिसृभिः संज्ञाभिः क्रियते । एतासु ‘स्वरितः’ इति संज्ञा प्रकृतसूत्रेण विधीयते । यस्य स्वरस्य उच्चारणे उदात्तगुणधर्मस्य अनुदात्तगुणधर्मस्य च समाहारः (सम्मिश्रणम्) भवति (इत्युक्ते, यस्य स्वरस्य उच्चारणसमये वायोः चलनम् उच्चारणस्थानस्य ऊर्ध्वभागे अपि भवति, अधोभागे अपि भवति) तस्य स्वरस्य ‘स्वरितः’ इति संज्ञा भवति — इति प्रकृतसूत्रस्य आशयः । तदित्थम् —
अवर्णस्य उच्चारणस्थानम् कण्ठः । अतः कण्ठस्य ऊर्ध्वभागस्य अधोभागस्य च प्रयोगं कृत्वा सम्पद्यमानः ‘अ’, ‘आ’ उत ‘अ3’ इति स्वरः स्वरितसंज्ञकः भवति ।
इवर्णस्य उच्चारणस्थानम् तालु । अतः तालुनः ऊर्ध्वभागस्य अधोभागस्य च प्रयोगं कृत्वासम्पद्यमानः ‘इ’, ‘ई’ उत ‘इ3’ इति स्वरः स्वरितसंज्ञकः भवति ।
उवर्णस्य उच्चारणस्थानम् ओष्ठौ । अतः ओष्ठयोः ऊर्ध्वभागस्य अधोभागस्य च प्रयोगं कृत्वा सम्पद्यमानः ‘उ’, ‘ऊ’ उत ‘उ3’ इति स्वरः स्वरितसंज्ञकः भवति ।
ऋवर्णस्य उच्चारणस्थानम् मूर्धा । अतः मूर्ध्नः ऊर्ध्वभागस्य अधोभागस्य च प्रयोगं कृत्वा सम्पद्यमानः ‘ऋ’, ‘ॠ’ उत ‘ऋ3’ इति स्वरः स्वरितसंज्ञकः भवति ।
एवर्णस्य, ऐवर्णस्य च उच्चारणस्थानम् कण्ठतालु । अतः कण्ठस्य तालुनः च ऊर्ध्वभागस्य अधोभागस्य च प्रयोगं कृत्वा सम्पद्यमानाः ‘ए’, ‘ए3’, ‘ऐ’, ‘ऐ3’ एते स्वराः स्वरितसंज्ञकाः भवन्ति ।
ओवर्णस्य औवर्णस्य च उच्चारणस्थानम् कण्ठोष्ठम् । अतः कण्ठस्य ओष्ठयोः च ऊर्ध्वभागस्य अधोभागस्य च प्रयोगं कृत्वा सम्पद्यमानाः ‘ओ’, ‘ओ3’, ‘औ’, ‘औ3’ एते स्वराः स्वरितसंज्ञकाः भवन्ति ।
अनेन प्रकारेण निर्दिष्टस्य स्थानस्य ऊर्ध्वभागात् अधोभागात् च यदि स्वरस्य उच्चारणम् भवति, तर्हि सः स्वरः ‘स्वरितः’ नाम्ना ज्ञायते । <note> 1. वस्तुतः उदात्त-अनुदात्त-स्वरित-संज्ञाः वेदानाम् उच्चारणस्य सन्दर्भे प्रसिद्धाः वर्तन्ते । तत्र उदात्तः = medium pitch, अनुदात्तः = low pitch, स्वरितः = high pitch इति भेदः कृतः अस्ति । एतासाम् एव संज्ञानाम् विधानम् पाणिनिमहर्षिणा अष्टाध्याय्यां उच्चैरुदात्तः (1.2.29), नीचैरनुदात्तः (1.2.30) तथा च समाहारः स्वरितः (1.2.31) एतैः त्रिभिः सूत्रैः उच्चारणस्थानस्य प्रभागानाम् आधारेण कृतम् अस्ति । अतः, एतेषु सूत्रेषु विद्यमानाः ‘उच्चैः’, ‘नीचैः’, तथा ‘समाहारः’ एते शब्दाः pitch-विषये निर्देशं न कुर्वन्ति अपितु उच्चारणस्थाने वायोः गतिः कस्मिन् प्रभागे विद्यते इत्येतस्य निर्देशं कुर्वन्ति इति अवश्यम् स्मर्तव्यम् । 2. स्वरितस्वरस्य लेखनसमये स्वरस्य उपरि एका ऊर्ध्वरेखा दीयते । यथा - अ॑ इति स्वरितः स्वरः ।</note>
स्वरितसंज्ञायाः सूत्रेषु प्रयोगः
भिन्नेषु सूत्रेषु स्वराणाम् उच्चारणविशेषं दर्शयितुम्, तद्विशिष्टं कार्यं वा दर्शयितुम् ‘स्वरित’संज्ञायाः प्रयोगः कृतः दृश्यते । कानिचन उदाहरणानि एतानि —
स्वरितञितः कर्त्रभिप्राये क्रियाफले (1.3.72) इति सूत्रेण उभयपदित्वस्य निर्णयार्थम् स्वरितसंज्ञायाः प्रयोगः क्रियते ।
तित्स्वरितम् (6.1.185) इति सूत्रेण तित्-प्रत्ययस्य (यथा, तव्यत्, ण्यत् इत्येतेषाम्) स्वरः स्वरितसंज्ञकः भवति ।
अष्टाध्याय्यां पाणिनिः अनुवृत्तेः निर्देशार्थम् स्वरितस्वरस्य प्रयोगं करोति इति स्वरितेनाधिकारः (3.1.4) इति सूत्रेण ज्ञाप्यते ।
Sutrartha (English)¶
A vowel that is pronounced using the upper as well as lower portions of its उच्चारणस्थान is known as स्वरित.
Vasu English Summary¶
The vowel that has the combination of अनुदात्त and उदात्त tones is said to be स्वरित or circumflexly accented.
Vasu English Translation¶
The vowel that has the combination of अनुदात्त and उदात्त tones is said to be स्वरित or circumflexly accented. The word “vowel” of s. 28 is understood here also. The svarita or circumflexed accent is pronounced by the combined raising and falling of the voice. It is marked by a perpendicular line on the top of the letter. The word is used in sutra (6.1.185) [1]. “The affixes having an indicatory त् t have svarita accent.” As क॒न्या॑ kanya, शि॒क्य॑म् sikyam, क्व॑ kva.
This sutra is not to be understood to mean that a svarita is the resultant of the combination of two vowels, an udatta vowel with an anudatta vowel. It means the accent midway between the two well-known qualities of letters known as acute and grave accents.
## Footnotes - [1] - तित्स्वरितम् ॥
Bhashya¶
समाहारः स्वरितः ॥ समाह्रियमाणनिर्णयाधिकरणम् ॥ समाहारः स्वरित इत्युच्यते। कस्य समाहारः स्वरितसञ्ञ्ज्ञो भवति? अचोरित्याह। - समाहारोऽचोश्चेन्नाभावात् - समाहारोऽचोश्चेत्, तन्न। किं कारणम्? अभावात्। नह्यचोः समाहारोऽस्ति। नन्वयमस्ति गाङ्गेऽनूप इति? नैषोऽचोः समाहारः। अन्योयमुदात्तानुदात्तयोः स्थाने एक आदिश्यते। एवं तर्हि गुणयोः। - गुणयोश्चेन्नाच्प्रकरणात् - गुणयोः समाहार इति चेत्, तन्न। किं कारणम्? अच्प्रकरणात्। अजिति वर्तते। - सिद्धं त्वच्समुदायस्याऽभावात्तद्गुणसम्प्रत्ययः - सिद्धमेतत्। कथम्? अच्समुदायो नास्तीति कृत्वा तद्गुणस्याचः समाहारगुणस्य सम्प्रत्ययो भविष्यति। कथं पुनः समाहार इत्यनेनाऽच्छक्यः प्रतिनिर्देष्टुम्? मतुब्लोपोऽत्र द्रष्टव्यः। तद्यथा- पुष्पका एषां ते पुष्पकाः। कालका एषां ते कालका इति। एवं समाहारवान् समाहारः। अथ वा अकारो मत्वर्थीयः। तद्यथा तुन्दो घाट इति। यद्येवं त्रैस्वर्यं न प्रकल्पते। तत्र को दोषः? त्रैस्वर्येणाधीमहे इत्येतन्नोपपद्यते। नैतद्गुणापेक्षम्। किं तर्हि? अजपेक्षमेतत्- त्रैस्वर्येणाधीमहे त्रिप्रकारैरज्भिरधीमहे, कैश्चिदुदात्तगुणैः कैश्चिदनुदात्तगुणैः कैश्चिदुभयगुणैः तद्यथा- शुक्लगुणः शुक्लः, कृष्णगुणः कृष्णः, य इदानीमुभयगुणः स तृतीयामाख्यां लभते- कल्माष इति वा सारङ्ग इति वा। एवमिहाप्युदात्तगुण उदात्तः, अनुदात्तगुणोऽनुदात्तः, य इदानीमुभयगुणः स तृतीयामाख्यां लभते स्वरित इति ॥ समाहारः स्वरितः ॥ 31 ॥
Kashika¶
अज् इति वर्तते। उदात्तानुदात्तसमाहारो योऽच् स स्वरितसंज्ञो भवति। सामर्थ्याच् चात्र लोकवेदयोः प्रसिद्धौ गुणावेव वर्णधर्मावुदात्तानुदात्तौ गृह्येते, नाचौ। तौ समाह्रियेते यस्मिन्नचि तस्य स्वरित इत्येषा संज्ञा विधीयते। शि॒क्य॑म्। क॒न्या॑। सा॒म॒न्यः॑। क्व॑। स्वरितप्रदेशाः — तित् स्वरितम् (६.१.१८५) इत्येवमादयः॥
Siddhanta Kaumudi¶
उदात्तानुदात्तत्वे वर्णधर्मौ समाह्रियेते यस्मिन्सोऽच् स्वरितसंज्ञः स्यात् ॥
Laghu Siddhanta Kaumudi¶
स नवविधोऽपि प्रत्येकमनुनासिकत्वाननुनासिकत्वाभ्यां द्विधा ॥
Laghu Shabdendushekhar¶
एकस्मिन्नच्युदात्तानुदात्तयोर्धर्मिणोर्मेलनविरोधादाह — वर्णधर्माविति । बाहुलकादधिकरणे घञ् । अर्श आद्यजित्यन्ये ((5.2.127)) । इयं त्रिसूत्री स्पष्टार्था, लोकवेदयोरुदात्तादिव्यवहारस्य प्रसिद्धत्वात् ।
Padamanjari¶
सामर्थ्याच्चात्रेति । पारिभाषिकयोरुदातानुदातयोरचोः समाहारूपस्याचः क्वचिदप्यसम्भवः सामर्थ्यम् । ननु च समाहरणं समाहारः, विप्रकीर्णानामेकत्र राशीकरणमेकधर्मयोर्योगो वा, यथा-पञ्चपूली, षण्णगरी दृष्टेति । तत्र पूर्वो मूर्तानामेव, उतरस्तु धर्मयोरपि सम्भवति; किं तु अचा सामानाधिकरण्यं न घटते, न हि वर्णधर्मयोरुदातानुदातयोः समुदायरूपः कश्चिदज्भवतीत्यत आह -तौ समाह्रियेते अस्मिन्नचीति । नानेनाधिकरणसाधनत्वं समाहारशब्दस्य दर्शतम् । तत्र हि ऽकरणाधिकरणयोश्चऽ इति ल्युटा भवितव्यम् । वासरूपविधिश्च नास्ति; क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्तीति वचनात् । तस्मादर्थकथनमात्रमेतत् । सामानाधिकरण्यं त्वर्शाअदित्वादच्प्रत्ययान्तत्वेन समर्थंनीयम् । शिक्यम्, कन्येति । ऽशिल्पशिक्यकाश्मर्यधान्यकन्यारा जन्यमनुष्याणामन्तःऽ इति फिट्सूत्रेणान्तःस्वरितत्वम् । सामान्य इति । सामसु साधुः ऽतत्र साधुःऽ इति यत्, ऽतित्स्वरितम्ऽ । क्वेति । ऽकिमोऽत्ऽ,ऽक्वातिऽ ॥
Nyaas¶
उदात्तानुदात्तशब्दावज्विशेषयोः संज्ञे। संज्ञा हि प्रदेशेषूच्चारिताःसंज्ञिनं प्रत्याययन्ति। ताभ्यामिहानुवृत्ताभ्यामुदात्तानुदात्तयोरचोरुपस्थापितयोः प्रत्ययः। तस्मात् समाहारात्मकस्याचः स्वरितसंज्ञा विधीयते। समाहारशब्दश्चसमाहरणं समाहार इति भावसाधनोऽयं लोके समुदाये रूढः। न चोदात्तानुदात्तात्मकः कश्चिदच्समुदायः सम्भवतीति, ततश्च संज्ञिनोऽसम्भवात् संज्ञापि न सम्भवीति यश्चोदयेत्, तं प्रत्याह - सामर्थ्याच्च इत्यादि। उच्यते चेदम् - उदात्तानुदात्तसमाहारः स्वरितसंज्ञो भवतीति, न च पारिभाषिकोदात्तानुदात्तसमाहारत्मनोऽचः सम्भवोऽस्ति। तत्र सामर्थ्याल्लोकवेदप्रसिद्धौ यौ धर्मावुदात्तानुदात्तौ तावेव गृह्रेते; नाचौ। नन्वेवमपि स एव दोषः, लोके प्रसिद्धोदात्तानुदात्तात्मनोऽच एषा संज्ञा विधीयते, कस्य तर्हि? लोकवेदप्रसिद्धावुदात्तानुदात्तौ समाह्यियेते यस्मिन्नचि तस्य। सम्भवति चैकस्मिन्नप्यचितयोः समाहार इति कुतः संज्ञिनोऽसम्भवः। समाह्यियेते यस्मिन् इति ब्राउवताऽधिकरणसाधनोऽयं समाहारशब्दो न भावसाधन इति दर्शितम्। समाह्यियेते = संहन्येते, सहितावुपलभ्येते इत्यर्थः। शिक्यम् इति। पूञो यण्णुग् ह्रस्वश्च (द।उ।16) इति यदिति वर्तमाने श्रन्सेः शि कुट् किच्च (द।उ।817) इति श्रंसतेर्यत्प्रत्यये शिशब्दादेशे कुडागमे च कृते रूपम्। तित्त्वात् स्वरितम्। कन्या इति। तिल्यशिक्यमत्र्यकाश्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः (फि।सू।4।76) इत्यन्तः स्वरितम्। सामान्यः इति। सामनि साधुः। तत्र साधुः (4.4.98) इति यत्प्रत्ययः। क्वेति किंशब्दात् सप्तम्यन्तात्`किमोऽत्` (5.3.12) इत्यत्प्रत्ययः। क्वाति (7.2.105) इति क्वादेशः॥
Prakriyasarvasvam¶
उदात्तानुदात्तयोर्योगवानच् स्वरिताख्यः । योगप्रकारमाह—
Sarala¶
(उदात्तानुदात्तत्वे वर्णधर्मौ समाह्रियेते यस्मिन् सोऽच् स्वरितसंज्ञः स्यात्) । स्वरितसञ्ज्ञासूत्रमाह - समाहार इति । पूर्वसूत्रेभ्य “उदात्त” इति, “अ”जिति चानुवर्त्तते । “उदात्त” इति “अनुदात्त” इति च धर्मप्रधानो निर्देशः, षष्ठ्या च तयोर्विपरिणामः । समाहार इति चाधिकरणे घञ् । तदेवम् - “उदात्तत्वानुदात्तत्वयोर्धर्मयोर्यस्मिन्नचि सम्मेलनं सोऽच् स्वरितसञ्ज्ञः” इत्यर्थो लभ्यते । स इति । सः = लब्धह्रस्वोदात्तादिसञ्ज्ञकोऽच् पूर्वोक्तरीत्या नवविधोऽपि, प्रत्येकम् अनुनासिकत्वाननुनासिकत्वाभ्याम् = अनुनासिकत्वेन, अननुनासिकत्वेन च धर्मेण, द्विधा - द्विप्रकारक इत्यर्थः । एवञ्चाऽचामष्टादशभेदलाभः ॥
Sudha¶
समाहारः स्वरितः इति । ** पूर्वसूत्राभ्यां उदात्तानुदात्तपदे अनुवृत्ते व्याख्यानात् धर्मप्रधाने षष्ठ्यन्ततया च विपरिणम्येते । यस्मिन् समाहरणं स समाहारः । अधिकरणे घञ् । ततश्च उदात्तत्वानुदात्तत्वयोर्धर्मयोर्यस्मिन्नचि मेलनं सोऽच् स्वरितसंज्ञक इत्यर्थः । तदेतत्फलितमाह — **उदात्तानुदात्तत्वे इति । ** स नवविधोऽपीति ।** १. उदात्तह्रस्वः , २. अनुदात्तह्रस्वः, ३. स्वरितह्रस्वः, ४. उदात्तदीर्घः, ५. अनुदात्तदीर्घः, ६. स्वरितदीर्घः, ७. उदात्तप्लुतः, ८. अनुदात्तप्लुतः, ९. स्वरितप्लुतः, इति रीत्या य एकैकः अच् नवविधः स्थितः स प्रत्येकमनुनासिकत्वेन अननुनासिकत्वेन च द्विधा द्वाभ्यां प्रकाराभ्यां वर्तत इत्यर्थः ।