12023: नोपधात्थफान्ताद्वा¶
Padacheda: न-उपधात् | S | 5 | 1 |
थ-फ-अन्तात् | S | 5 | 1 |
वा | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The सेट् क्त्वा is optionally कित् after the verbs having a penultimate न् ending in a थ् and फ्।
Vasu English Translation¶
The सेट् क्त्वा is optionally कित् after the verbs having a penultimate न् ending in a थ् and फ्। The set ktva may or may not be kit after the verbs ending in थ् or फ् preceded by a nasal. The result of being kit will be that nasal will be dropped. In other words the dropping of the nasal is optional in such verbs. Thus from ग्रंथ् we have ग्रथित्वा or ग्रन्थित्वा ‘having twisted,’ गुफित्वा or गुंफित्वा ‘having tied round’, श्रथित्वा or श्रन्थित्वा.
The word “Nishtha” does not govern this sutra, and comes to an end with the last sutra.
This rule does not apply to verbs that have not a penultimate न् though they may end in थ् or फ्. As रेफित्वा ‘having reviled’, गोफित्वा ‘having tied.’ Here by rule 18, the त्वा tva being non-kit, the vowels of the root रिफ् and गुफ् have been gunated.
A verb may have a penultimate न्, but if it has not final थ or फ, the rule does not apply. As स्रंस् + इत्वा = स्रंसित्वा ‘having dropped’, ध्वंसित्वा ‘having killed.’ Had it been kit, the nasal would have been dropped.
Kashika¶
निष्ठेति निवृत्तम्। नकारोपधाद् धातोस्थकारान्तात् फकारान्ताच्च परः क्त्वाप्रत्ययः सेड् वा न किद् भवति। ग्रथित्वा, ग्रन्थित्वा। श्रथित्वा, श्रन्थित्वा। गुफित्वा, गुम्फित्वा। नोपधाद् इति किम्? रेफित्वा। गोफित्वा। थफान्ताद् इति किम्? स्रंसित्वा। ध्वंसित्वा॥
Siddhanta Kaumudi¶
सेट् क्त्वा कित्स्याद्वा । श्रथित्वा । श्रन्थित्वा । गुफित्वा । गुम्फित्वा । नोपधात्किम् । कोथित्वा । रेफित्वा ॥
Tattvabodhini¶
नोपधात्थफान्ताद्वा - नोपधात्थ । अन्तग्रहणं स्पष्टार्थम् ।थफा॑ दित्युक्तेऽपि धातोरेव क्तवाप्रत्ययविधानाद्विशेष्यसंनिधानेन तदन्तविधिना थफान्तादिति लाभात् । कोथित्वा । रेफित्वेति । कुथ पूतीभावे, रिफ कत्थनयुद्धनिन्दाहिंसादानेषु । इहरलो व्युपधा॑ दिति विकल्पोऽपि न भवति, नोपधग्रहसामर्थ्यात् ।
Padamanjari¶
निष्ठेति निवृतमिति । पूर्वसूत्रे चानुकृष्टत्वात् । गुफित्वेति । ऽगुफ गुम्फ ग्रन्थनेऽ । रेफित्वेति । ऽरिफ कत्थनयुद्धनिन्दाहिंसादानेषुऽ । अथैतद्विकल्पाभावेऽपि ऽरलो व्युपधाद्ऽ इति विकल्पोऽत्र कस्मान्न भवति ? नोपधग्रहणसामर्थ्यात् । ननु ऋकारोपधो नोपधग्रहणस्य व्यावर्त्यः सम्भवति ऽऋफ हिंसायाम्ऽ- अर्फित्वेति, नैतदस्ति; त्रैशब्द्यं ह्यनयोर्धात्वोर्भवति । सति तावत्, अनोपधस्य ऽन क्त्वा सेट्ऽ इति निषेधे सति अर्फित्वेति भवति, नोपधस्य त्वस्मिन्विकल्पे-ऋफित्वेति । असत्यपि नोपधग्रहणे सर्वत्रास्मिन्विकल्पे प्रवृतेऽपीदमेव रूपत्रयं भवति । अन्तग्रहणं ज्ञापनार्थम्-यत्नमन्तरेणास्मिन्प्रकरणे न तदन्तविधिर्भवतीति, तेनोतरसूत्रे ऽऋतःऽ इति धातुर्गृह्यते, न ऋदन्तः ॥
Nyaas¶
निष्ठेति निवृत्तम् इति। पूर्वसूत्रे चानुकृष्टत्वात्। ग्रथित्वा इति। कित्त्वपक्षे अनिदिताम् (6.4.24) इत्यनुनासकिलोपः। गुफित्वा इति। गुफ गुन्फ ग्रन्थे (धातुपाठः-1317,1318) रिफित्वा इति। रिफ कत्थनयुद्धनिन्दाहिंसादानेषु (धातुपाठः-1306)। ननु चैतद्विक्पाभावेऽपि रलो व्युपधात् (1.2.26) इत्यादिनैवात्र विकल्पेन भवतव्यम्, न चानयोर्विकल्पयोः कश्चिद्विशेषोऽप्यस्ति? एवं तर्हि नोपधग्रहणसाम-थ्र्याद्योगान्तरकृतोऽपबि विकल्पोऽनेन बाध्यते। ननु च ऋकारोपधो नोपधग्रहणस्य प्रत्युदाहरणविषयो भविष्यति, ऋफ ऋन्फ हिंसायाम् (धातुपाठः-1315,1316), अर्फित्वेति, नैतद्स्ति; इहास्माभिरनयोर्धात्वो रूपत्रयं साध्यम् - अर्फित्वा, ऋम्फित्वा, ऋफित्वेति। एतत् तु सत्यसति वा नोपधग्रहणऽनेनैव सिद्ध्यत्येव। सति तावन्नोपधग्रहणे, अनोपधस्य ऋफेः न क्त्वा सेट् (1.2.18) इति प्रतिषेधे सत्यर्फित्वेति सिद्ध्यति। नोपधस्य तु ऋम्फेरस्मिन् विकल्पे सति, ऋम्फित्वा ऋफित्वेतीदमपरं रूपद्वयं सिद्धयति। असत्यपि नोपधग्रहणे सर्वथास्मिन् विकल्पे सतीदं रूपत्रयं सिद्ध्यत्येव। तस्माद् युक्तमुक्तं प्रत्युदाहरणं रेपित्वेति। येन विधिस्तदन्तस्य (1.1.72) इति तदन्तविधौ सिद्धेऽन्तग्रहणम् इह क्त्वाप्रत्यकाण्डे यत्नमन्तरेण तदन्तविधर्न भवति इति ज्ञापनार्थम्। तेनोत्तरसूत्रे ऋत इति धातुः स्वरूपेण गृह्रते, न तु तदन्त इति।
Prakriyasarvasvam¶
नकारोपधात् थफान्तात् परः सेट् क्त्वा वा न कित् स्यात् । कित्त्वे नलोपः । ग्रथित्वा । ग्रन्थित्वा । गुन्फ, गुफित्वा गुंफित्वा । अनोपधात्तु नित्यमकित्त्वमेव । पोथित्वा । ताफित्वा । द्वौ हिंसार्थौ ।।
Sutra Prayogas¶
ग्रन्थित्वेव (भट्टिकाव्यम्): नोपधात्थफान्ताद्वा इति कित्त्वप्रतिषेधपक्षे रूपम्।