12037: न सुब्रह्मण्यायां स्वरितस्य तूदात्तः¶
Padacheda: न | S | 0 | 0 |
सुब्रह्मण्यायाम् | S | 7 | 1 |
स्वरितस्य | S | 6 | 1 |
तु | S | 0 | 0 |
उदात्तः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
There should be no Monotony in the recitation of the सब्रह्मण्य hymns and in those hymns, the vowels, that would otherwise have taken the स्वरित accent, take the उदात्त accent instead.
Vasu English Translation¶
There should be no Monotony in the recitation of the सब्रह्मण्य hymns and in those hymns, the vowels, that would otherwise have taken the स्वरित accent, take the उदात्त accent instead. The subrahmanya hymns are portions of the Rig Veda mentioned in the satapatha Brahmana.
This sutra prohibits Ekasruti in the case of certain prayers called subrahmanya. By rule (1.2.34) read with (1.2.36) ante, prayers might be optionally uttered with Ekasruti accent. This ordains an exception to that rule In subrahmanya prayers there is no ekasruti; and in these hymns, a vowel which otherwise by any rule of grammar would have taken a svarita accent, takes an udatta accent instead.
As स॒ब्रह्म॒ण्यो३ मिन्द्रागच्छ॒ हरिव॒ आगच्छ॒. Here the word सुब्रह्मण्य is formed by the addition of the affix यत् to the word सुब्रह्मण्, and this य will get svarita accent by (6.1.185), (तित्स्वरितम्) as it has an indicatory त्; by the present sutra, this nascent svarita is changed into udatta. In the phrase इन्द्र आगच्छ, the word Indra being in the vocative case, इ is udatta, the अ of Indra is anudatta (6.1.198) [1]. The anudatta preceded by an udatta is changed into svarita (8.4.66) [2].
Thus the अ of इन्द्र must become svarita, but by the present sutra this nascent svarita is changed into an uddatta. Thus in इन्द्र, both vowels become udatta. In the word आगच्छ, the आ is udatta; the next letter which was anudatta becomes svarita, and from svarita it is changed to udatta by the present rule. Thus in the sentence इन्द्र आगच्छ the first four syllables are all acutely accented, the fifth syllable is only anudatta. So also in हरिव आगच्छ, for the reasons given above, the letters व and च्छ are anudatta, the rest are all acutely accented.
## Footnotes - [1] - आमन्त्रितस्य च ॥ - [2] - उदात्तादनुदात्तस्य स्वरितः ॥
Bhashya¶
न सुब्रह्मण्यायां स्वरितस्य तूदात्तः - सुब्रह्मण्यायामोकार उदात्तः - सुब्रह्मण्यायामोकार उदात्तो भवति। सुब्रह्मण्योम्। - आकार आख्याते परादिश्च - आकार आख्याते परादिश्चोदात्तो भवति। इन्द्र आगच्छ। हरिव आगच्छ। - वाक्यादौ च द्वे द्वे - वाक्यादौ च द्वे द्वे उदात्ते भवतः। इन्द्र आगच्छ। हरिव आगच्छ। - मघवन्वर्जम् - आगच्छ मघवन्। - सत्यापराणामन्तः - सुत्यापराणामन्त उदात्तो भवति। द्व्यहे सुत्याम् त्र्यहे सुत्याम्। - असावित्यन्तः - असावित्यन्त उदात्तो भवति। गार्ग्यो यजते। वात्स्यो यजते। - अमुष्येत्यन्तः - अमुष्येत्यन्त उदात्तो भवति। दाक्षेः पिता यजते। - स्यान्तस्योपोत्तमं च - स्यान्तस्योपोत्तममुदात्तं भवति, अन्त्यश्च। गार्ग्यस्य पिता यजते। वात्स्यस्य पिता यजते। - वा नामधेयस्य - वा नामधेयस्य स्यान्तस्योपोत्तममुदात्तं भवति। देवदत्तस्य पिता यजते। देवदत्तस्य पिता यजते ॥ न सुब्रह्मण्यायां स्वरितस्य तूदात्तः ॥ 37 ॥
Kashika¶
सुब्रह्मण्या नाम निगदस्तत्र यज्ञकर्मण्य० (१.२.३४) इति विभाषा छन्दसि (१.२.३६) इति चैकश्रुतिः प्राप्ता प्रतिषिध्यते। सुब्रह्मण्यायामेकश्रुतिर्न भवति। यस्तु लक्षणप्राप्तः स्वरितस्तस्योदात्त आदेशो भवति। सुब्रह्मण्यो॒३म् इन्द्रा॒गच्छ, ह॒रिव आ॒गच्छ, मे॒धातिथेर्मेष, वृ॒षणश्वस्य मेने, गौ॒रावस्कन्दिन्न॒हल्यायै जार, कौ॒शिकब्राह्मण गौ॒तमब्रुवाण, श्वः॒ सु॒त्यामा॒गच्छ म॒घवन् (श०ब्रा० ३.३.४.१७ — १९)। अत्र सुब्रह्मण्योमित्योकारस्तित्स्वरेण स्वरितस्तस्योदात्तो विधीयते। इन्द्र आगच्छेत्यामन्त्रितमाद्युदात्तं द्वितीयो वर्णोऽनुदात्तः। उदात्तादनुदात्तस्य स्वरितः (८.४.६६) इति स्वरितः प्रसक्तस्तस्यानेनोदात्तः क्रियते । तेन द्वावप्युदात्तौ संपन्नौ। आगच्छेत्याकार उदात्तः। ततः परोऽनुदात्तः स्वरितस्तस्यानेनोदात्तः क्रियते । तदेवमिन्द्र आगच्छेति चत्वार उदात्ताः। पश्चिम एकोऽनुदात्तः। हरिव आगच्छेत्यनयैव प्रक्रियया चत्वार उदात्ता द्वावनुदात्तौ। मेधातिथेरिति षष्ठ्यन्तं परमामन्त्रितमनुप्रविशति। ‘सुबामन्त्रिते पराङ्गवत् स्वरे (२.१.२)इति। ततः सकलस्यामन्त्रिताद्युदात्तत्वे कृते द्वितीयमक्षरमनुदात्तम्, तस्य उदात्तादनुदात्तस्य स्वरितः (८.४.६६) इति स्वरितत्वे प्राप्त इदमुदात्तत्वं विधीयते। तेन द्वावप्युदात्तौ भवतः, श्ोषमनुदात्तम्। वृषणश्वस्य मेने इति समानं पूर्वेण। गौरावस्कन्दिन्निति तथैव द्वे आद्ये अक्षरे उदात्ते, शेषमनुदात्तम्। अहल्यायै जारेति सुबन्तस्यामन्त्रितानुप्रवेशात् तद्वदेव स्वरः। द्वावुदात्तौ, शेषमनुदात्तम्। कौशिकब्राह्मणेति समस्तमामन्त्रितमाद्युदात्तं तत्र पूर्ववद् द्वावुदात्तौ, शेषमनुदात्तम्। एवं गौतमब्रुवाणेति द्वावुदात्तौ, शेषमनुदात्तम्। श्वः सुत्यामागच्छ मघवन्निति श्वःशब्द उदात्तः सुत्यामित्यन्तोदात्तः। **संज्ञायां समजनिषद०**(३.३.९९) इति क्यपो विधान उदात्त इति वर्तते। आगच्छेति द्वावुदात्तौ। अन्त्योऽनुदात्तः। मघवन्निति पदात् परमामन्त्रितं निहन्यते॥
Siddhanta Kaumudi¶
सुब्रह्मण्याख्ये निगदे यज्ञकर्मणि (SK3663) इति विभाषा छन्दसि (SK3635) इति च प्राप्ता एकश्रुतिर्न स्यात्स्वरितस्योदात्तश्च स्यात् । सुब्रह्मण्यो3म् ॥ (सुब्रह्मणि साधुरिति यत् । न च एकादेश उदात्तोनोदात्तः (SK3658) इति सिद्धे पुनरत्रेमुदात्तविधानं व्यर्थमिति वाच्यम् । तत्रानुदात्त इत्यस्यानुवृत्तेः ॥<!असावित्यन्तः !> (वार्तिकम्) ॥ तस्मिन्नेव निगदे प्रथमान्तस्यान्त उदात्तः स्यात् । गार्ग्यो यजते । ञित्त्वात्प्राप्त आद्युदात्तोऽनेन बाध्यते ।<!अमुष्येत्यन्तः !> (वार्तिकम्) ।<!स्यान्तस्योपोत्तमं च !> (वार्तिकम्) ॥ चादन्तस्येन द्वावुदात्तौ । गार्ग्यस्य पिता यजते ।<!वा नामधेयस्य !> (वार्तिकम्) ॥ स्यान्तस्य नामधेयस्य उपोत्तममुदात्तं वा स्यात् । देवदत्तस्य पिता यजते ॥
Padamanjari¶
सुब्रह्मण्या नाम निगद इति । अपादबन्धे गदिर्वर्तते, यथा गद्यमिति, निशब्दः प्रकर्षे । उच्चैरपादबन्धं यजुरात्मकं यन्मन्त्रवाक्यं पठ।ल्ते स निगदः, नितरां गद्यत इति कर्मणि ऽनौ गदनदऽ इत्यप्, तस्य च सुब्रह्णण्याशब्दोपलक्षितत्वात् सुब्रह्मण्याशब्दोपरित्यक्तिस्त्रीलिङ्ग एव नाम । ओङ्कारस्तित्स्वरेण स्वरित इति सुब्रह्मणि साधुरिति यत्प्रत्ययः, तित्स्वरेण स्वरितः । तस्य टाबेकादेशः स्वरितानुदातयोरान्तर्यात् स्वरितः, ततो निपातेर्नौशब्देन ऽओमाङेश्चऽ इत्युदातस्वरितयोरेकादेशः स्वरित एव । ऽआमन्त्रितमाद्यौदातम्ऽ इति आष्टमिकस्तु निघातोऽसमानवाक्यत्वान्न भवति । तस्यानेनेति । न च तस्यासिद्धत्वम्, इदं हि प्रकरणमसिद्धकाण्ड उत्क्रष्टडव्यमित्युक्तम् । अत एवास्मिन्नुदाते कृते शेषनिघातोऽपि न भवति; यथोद्देशपक्षेऽनुदातपरिभाषायां कर्तव्यायामसिद्धत्वेन वर्ज्यमानाभावात् । तेनेह द्वावप्युदातौ सम्पन्नौ थैति । पश्चिम एकोऽनुदात इति । न च तस्य ऽउदतादनुदातस्यऽ इति स्वरितप्रसङ्गः; प्रकरणोतकर्षेणस्यासिद्धत्वाद्, ऽनोदातस्वरितोदयम्ऽ इति निषेधाच्च । द्वावनुदाताविति । वकारच्छकारौ, शिष्ट्ंअ स्पष्टम् । ऽअसावमुष्येत्यन्तःऽ एतस्मिन्नेव सुब्रह्मण्यानिगदे प्रथमान्तस्य षष्ठ।ल्न्तस्य चान्त उदातो भवति । गार्ग्यो यजते, दाक्षेः पिता यजते - तित्स्वरे प्राप्ते वचनम् । ऽस्यान्तस्योपोतमं चऽ स्यशब्दान्तस्योपोतममुतमं चोभयमुदातं भवति । गार्ग्यस्य पिता यजते ऽवा नामेधयस्यऽ । देवदतस्य पिता यजते ॥
Nyaas¶
सुब्राहृण्या नाम निगदः इति। अपादबन्धे गदतिर्वर्तते। अपादबन्धं हि गद्यमुच्यते। निशब्दः प्रकर्षे। यदुच्चैरविच्छिन्नमपादबन्धं मन्त्रवाक्यं निगद इति तस्य व्यपदेशः। तस्य च सुब्राहृण्योपलक्षमत्वात्, सुब्राहृण्या इति स्त्रीलिङ्गनिर्देशः। सुब्राहृण्योम् इति। सुब्राहृणि साधुः।तत्र साधुः (4.4.98) इति यत्। तित्स्वरितम् (6.1.185) इति स्वरितत्वम्, प्रणवष्टेः (8.2.89) इत्योङ्कार आदेश इति केचित्, तदयुक्तम्; पादस्य वाद्र्धर्चस्य वान्त्यमक्षरमुपसंह्मत्य तदाद्यक्षरशेषस्य स्थाने? त्रिमात्रमोकारमोङ्कारं वा विदधति तं प्रणवमित्याचक्षते इति {काशिका-8.2.89}वक्ष्यति। न च निगदे पादव्यवस्था, नाप्यद्र्धर्चव्यवस्था। तस्मादोशब्दोऽस्ति निपातोऽनर्थकः। तस्य स्वरितेन सहैकादेशः स्वरितः। आमन्त्रितमाद्युदात्तम् इति। आमन्त्रितस्य च (8.1.19) इत्यनेन षाष्ठिकेन। त्सयानेनोदात्तः क्रियते इति। ननु चासिद्धोऽसौ स्वरितः; वचनात् तस्यासिद्धत्वं न भवति। ननु च वचनस्य सुब्राहृण्योमिति प्रयोजनं वक्तुं शक्यम्? न हि समस्ते निगदे सुब्राहृण्याशब्दनोपलक्षिते सतीदमेकमुदाहरणं युक्तम्। अकार उदात्तः इति। निपातस्वरेण। ततः परोऽनुदात्तः स्वरितः इति। तिङङतिङ (8.1.28) इति निघाते कृते, उदात्तादनुदात्तस्य स्वरितः (8.4.66) इत्यनेन। पश्चिम एकः इति। छकाराकारः। चत्वार उदात्ताः इति। वकारच्छाकाराभ्यामन्ये। द्वावनुदात्तौ इति। वकारच्छकारौ। द्वितीयमक्षरम् इति। मेधाशब्दाकारः। शेषमनुदात्तम् इति। मेधाशब्दे यावचौ ताभ्यामन्यत्। पूर्वेण इति। मेधातिथेर्मेषेत्यनेन। तथैव द्वे आद्ये अक्षरे उदात्ते इति। यदि गौरावस्कन्दिन् इति समस्तमामन्त्रितमाद्युदात्तमिति। अथापि गौरेति शब्दान्तरमामनन्ति, तथापि तस्यापि प्रवेशे कृते सकलस्यामन्त्रितस्याद्युदात्तत्वे उदात्तादनुदात्तस्य स्वरितः (8.4.66) इत्यादिना पूर्वोक्तेन विधिना द्वे उदात्ते भवतः। अहल्यायै जार इति। षष्ठर्थे चतुर्थी, बहुलं छन्दसि (7.4.78) इत्यत्र षष्ठर्थे चतुर्थी वक्व्या (वा।142) इत्युपसङ्ख्यानात्; व्यत्ययो बहुलम् (3.1.85) इति व्यत्ययेन वा। समस्तमामन्त्रितमाद्युदात्तम् इति। कौशिकशब्दस्य परामन्त्रितानुप्रवेशात्। एवं गौतमब्राउवाण इति। एतदपि कौशिकब्राआहृणेत्यनेन तुल्यमित्यर्थः। द्वावुदात्तौ इति। अनन्तरयोरुदाहरणयोः प्रत्येकमाद्यवित्यर्थः। आः शपब्द उदात्तः इति। प्रातिपदिकस्वरेण। उदात्त इति वर्तते इति। मन्त्रे वृष (3.3.96) इत्यादेः सूत्रात्। द्वावुदात्तौ इति। तौ पुनरादी आगच्छेत्यत्र दर्शितौ। पदात् परमामन्त्रितं निहन्यते इति। आमन्त्रितस्य च (8.1.19) इत्यनेन।
Prakriyasarvasvam¶
सुब्रह्मण्याह्वानमन्त्रे यज्ञेऽप्यध्ययने च प्रचयो न । विधि(ः?)—प्राप्तस्य स्वरितस्य तूच्चः स्यात् । सुब्रह्मण्योमिन्द्रागच्छ । सुब्रह्मण्योमित्योकारस्त्वितस्वरेण स्वरितः । तस्योच्चत्वमुच्यते । इन्द्रस्यामन्त्रिताद्युच्चत्वे परस्य स्वरितस्योच्चता । आगच्छेत्याङ एकादेशाकारस्योच्चता । छकारस्य तु नवसूत्युत्कर्षेणास्यासिद्धत्वात् ‘उदात्तादनुदात्तस्य—’ (८-४-६६) इति स्वाराभावादनुच्चतैव । एवं हरिवन्तृभ्यो स्वरितोच्चता । सुत्यामागच्छ मखवन्नित्यन्तेष्विह दृश्यतामिति ॥ ‘असावमुष्येत्यन्तः’ (सः ८-३-२६२) सुब्रह्मण्यामन्त्रे प्रथमान्तस्य षष्ठ्य- न्तस्य चान्त उच्चः स्यात् । नारायणो याजयते विष्णो पुत्र याजयते । ‘स्यान्तस्योपोत्तमश्च’ (स. ८-३-२६२) स्यशब्दान्तस्योपान्त्यमन्तश्च युगपदुच्चं स्यात् । गार्ग्यस्य पिता यजते । एतत्सूत्रत्रयं हरभोजाभ्यामुक्तं इति ।